भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 223, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 223

धानस्य जगतकारणत्वभङ्गः ] हिन्दीसहितभामतीसंवलितम् २०५

कारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत । नत्वेतदस्ति, समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः ।' 'यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः' ( कौ० ३।३ ) इति । 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः' ( तै० २।१ ) इति । 'आत्मन एवेदं सर्वम्' ( छा० ७।२६।१ ) इति । 'आत्मन एष प्राणो जायते' ( प्र० ३।३) इति चात्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः । आत्मशब्दस्य चेतनवचन इत्यवोचाम । महच्च प्रामाण्यकारणमेतद्यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वं, चक्षुरादीनामिव रूपादिषु । अतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम् ॥ १० ॥

कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम्—

श्रुतत्वाच्च ॥ ११ ॥

स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य—'स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः' ( श्वे० ६।९ ) इति । तस्मात्सर्वज्ञं ब्रह्म जगतः कारणं, नाचेतनं प्रधानमन्यद्वेति सिद्धम् ॥ ११ ॥


भामती

समयभेदेषु परस्परपराहताथेता, नैवं वेदान्तेषु परस्परपराहतिः, अपि तु तेषु सर्वत्र · जगत्कारणचेतन्यावगतिः समानेति । ॐ चक्षुरादीनामिव रूपादिषु इति ॐ । यथा हि सर्वेषां चक्षू रूपमेव ग्राहयति, न पुना रसादिकं कस्यचिद्दर्शयति कस्यचिद्रूपम् । एवं रसनादिष्वपि गतिसामान्यं दर्शनीयम् ॥ १० ॥

ॐ श्रुतत्वाच्च ॐ । तदैक्षतेत्यत्र ईक्षणमात्रं जगत्कारणस्य श्रुतं न तु सर्वविषयम् । जगत्कारणसम्बन्धितया तु तदर्थात् सर्वविषयमवगतं श्वेताश्वतराणां तूपनिषदि सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमिति विशेषः ॥ ११ ॥


भामती-व्याख्या

"चेतनकारणत्वे समानगतित्वं चक्षुरादीनामिव रूपादिषु" । अर्थात् जैसे चक्षु से सभी आँखवाले पुरुषों को समानरूप से रूप और रूपी पदार्थों की ही अवगति होती है, वैसे सभी वेदान्त-वचनों से चेतन-कारणता की ही अवगति होती है, अतः प्रधानादि अचेतन पदार्थों को जगत् का उपादान कारण नहीं माना जा सकता। इसी प्रकार रसादि दृष्टान्तों में भी रसनादि से समान अवगति दिखाई जा सकती है ॥ १० ॥

प्रधान-कारणता कहीं भी साक्षात् श्रुत नहीं, अपितु "तदैक्षत"—इत्यादि श्रुतियों में जगत्कारणीभूत पदार्थ में ईक्षणमात्र श्रुत है, वह भी सर्वविषयक नहीं। जगत्कारणता का सामञ्जस्य करने के लिए ईक्षण में सर्वविषयत्व की कल्पना ही की जाती है, किन्तु श्वेताश्वतरोपनिषत् में सर्वज्ञ ईश्वर का प्रकरण उठा कर कहा है—'स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः' ( श्वेता० ६।९ ) । वह सर्वज्ञ ईश्वर ही जगत् का कारण, करणाधिपों ( जीवों ) का अन्तर्यामी है, इसका न तो कोई जनक है और न कोई सञ्चालक अतः सर्वज्ञ ईश्वर को छोड़ कर प्रधानादि को जगत् का कारण नहीं माना जा सकता ॥ ११ ॥