भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
धानस्य जगतकारणत्वभङ्गः ] हिन्दीसहितभामतीसंवलितम् २०५
कारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत । नत्वेतदस्ति, समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः ।' 'यथाऽग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः' ( कौ० ३।३ ) इति । 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः' ( तै० २।१ ) इति । 'आत्मन एवेदं सर्वम्' ( छा० ७।२६।१ ) इति । 'आत्मन एष प्राणो जायते' ( प्र० ३।३) इति चात्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः । आत्मशब्दस्य चेतनवचन इत्यवोचाम । महच्च प्रामाण्यकारणमेतद्यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वं, चक्षुरादीनामिव रूपादिषु । अतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम् ॥ १० ॥
कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम्—
श्रुतत्वाच्च ॥ ११ ॥
स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य—'स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः' ( श्वे० ६।९ ) इति । तस्मात्सर्वज्ञं ब्रह्म जगतः कारणं, नाचेतनं प्रधानमन्यद्वेति सिद्धम् ॥ ११ ॥
भामती
समयभेदेषु परस्परपराहताथेता, नैवं वेदान्तेषु परस्परपराहतिः, अपि तु तेषु सर्वत्र · जगत्कारणचेतन्यावगतिः समानेति । ॐ चक्षुरादीनामिव रूपादिषु इति ॐ । यथा हि सर्वेषां चक्षू रूपमेव ग्राहयति, न पुना रसादिकं कस्यचिद्दर्शयति कस्यचिद्रूपम् । एवं रसनादिष्वपि गतिसामान्यं दर्शनीयम् ॥ १० ॥
ॐ श्रुतत्वाच्च ॐ । तदैक्षतेत्यत्र ईक्षणमात्रं जगत्कारणस्य श्रुतं न तु सर्वविषयम् । जगत्कारणसम्बन्धितया तु तदर्थात् सर्वविषयमवगतं श्वेताश्वतराणां तूपनिषदि सर्वज्ञ ईश्वरो जगत्कारणमिति साक्षादुक्तमिति विशेषः ॥ ११ ॥
भामती-व्याख्या
"चेतनकारणत्वे समानगतित्वं चक्षुरादीनामिव रूपादिषु" । अर्थात् जैसे चक्षु से सभी आँखवाले पुरुषों को समानरूप से रूप और रूपी पदार्थों की ही अवगति होती है, वैसे सभी वेदान्त-वचनों से चेतन-कारणता की ही अवगति होती है, अतः प्रधानादि अचेतन पदार्थों को जगत् का उपादान कारण नहीं माना जा सकता। इसी प्रकार रसादि दृष्टान्तों में भी रसनादि से समान अवगति दिखाई जा सकती है ॥ १० ॥
प्रधान-कारणता कहीं भी साक्षात् श्रुत नहीं, अपितु "तदैक्षत"—इत्यादि श्रुतियों में जगत्कारणीभूत पदार्थ में ईक्षणमात्र श्रुत है, वह भी सर्वविषयक नहीं। जगत्कारणता का सामञ्जस्य करने के लिए ईक्षण में सर्वविषयत्व की कल्पना ही की जाती है, किन्तु श्वेताश्वतरोपनिषत् में सर्वज्ञ ईश्वर का प्रकरण उठा कर कहा है—'स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः' ( श्वेता० ६।९ ) । वह सर्वज्ञ ईश्वर ही जगत् का कारण, करणाधिपों ( जीवों ) का अन्तर्यामी है, इसका न तो कोई जनक है और न कोई सञ्चालक अतः सर्वज्ञ ईश्वर को छोड़ कर प्रधानादि को जगत् का कारण नहीं माना जा सकता ॥ ११ ॥
| २०६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १२ |
|---|
( ६ आनन्दमयाधिकरणम् । सू० १२-१९ )
'जन्माद्यस्य यतः' इत्यारभ्य 'श्रुतत्वाच्च' इत्येवमन्तैः सूत्रैर्याण्युदाहृतानि वेदान्तवाक्यानि तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतत्स्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम्। गतिसामान्योपन्यासेन च सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम्, अतः परस्य ग्रन्थस्य किमुत्थानमिति ? उच्यते—द्विरूपं हि ब्रह्मावगम्यते, नामरूपविकारभेदोपाधिविशिष्टं, तद्विपरीतं च सर्वोपाधिविवर्जितम्। 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' (बृह० ४।५।१५) 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्' (छान्दो० ७।२४।१) 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते' (तै० आ० ३।१२।७) 'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्। अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्' (श्वे० ६।१९) 'नेति नेति' (बृ० २।३।६) इति 'अस्थूलमनणु' (बृ० ३।८।८) 'न्यूनमन्यत्स्थानं संपूर्णमन्यत्' इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानि । तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः। तत्र कानिचिद् ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्य-
भामती
उत्तरसूत्रसन्दर्भमाक्षिपति ॐ जन्माद्यस्य यत इत्यारभ्य इति ॐ । ब्रह्म जिज्ञासितव्यमिति प्रतिज्ञातं, तच्च शास्त्रैकसमधिगम्यं, शास्त्रञ्च सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिप्रलयकारणे ब्रह्मण्येव प्रमाणं न प्रधानादाविति न्यायतो व्युत्पादितम्। न चास्ति कश्चिद्वेदान्तभागो यस्तद्विपरीतमपि बोधयेदिति च गतिसामान्यादित्युक्तम्। तत् किमपरमवशिष्यते यदर्थमुत्तरसूत्रसन्दर्भस्यावतारः स्यादिति। ॐ किमुत्थानमिति ॐ किमाक्षेपे। समाधत्ते ॐ उच्यते, द्विरूपं हि इति ॐ । यद्यपि तत्त्वतो निरस्तसमस्तोपाधिरूपं ब्रह्म तथापि न तेन रूपेण शक्यमुपदेष्टुमित्युपहितेन रूपेणोपदेष्टव्यमिति। तत्र च क्वचिदुपाधिर्विवक्षितः। तदुपासनानि ॐ कानिचिदभ्युदयार्थानि ॐ मनोमात्रसाधनतयात्र पठितानि। ॐ कानिचित्
भामती-व्याख्या
संगति—अग्रिम अधिकरण के सूत्र-सन्दर्भ पर आक्षेप किया जाता है—"जन्माद्यस्य यतः" इत्यारभ्य "श्रुतत्वाच्च" इत्येवमन्तैः सूत्रैः सर्वज्ञ ईश्वरो जगत्कारणमिति प्रतिपादितम्। अतः परस्य ग्रन्थस्य किमुत्थानम् ?" अर्थात् 'ब्रह्म जिज्ञासितव्यम्'—ऐसी प्रतिज्ञा की गई, वह (ब्रह्म) केवल वेदान्त-वेद्य है, वह वेदान्त शास्त्र सर्वज्ञ, सर्वशक्ति-सम्पन्न, जगत्कारणीभूत ब्रह्म में ही प्रमाण है, प्रधानादि में नहीं—ऐसा न्यायों और युक्तियों के द्वारा सिद्ध किया गया। वेदान्त का कोई भी भाग ऐसा नहीं, जो उसके विपरीत कहता हो—यह बात "गतिसामान्यात्"—इस सूत्र से कही गई। अब और क्या शेष रह गया कि जिसके लिए आगे के सूत्रों की रचना की गई, अतः कहा गया—"किमुत्थानम्"। यहाँ 'किम्' शब्द आक्षेपार्थक है।
उक्त आक्षेप का समाधान किया जाता है—"उच्यते द्विरूपं हि ब्रह्मावगम्यते नामरूपविकारभेदोपाधि-विशिष्टम्, तद्विपरीतं च"। यद्यपि ब्रह्म तत्त्व समस्त उपाधियों से रहित है, तथापि उस अनौपाधिक रूप से उसका उपदेश नहीं किया जा सकता, अतः किसी-न-किसी उपाधि से विभूषित कर उसका उपदेश करना होगा। किसी-किसी क्रिया में उपाधि विवक्षित होती है, जैसे उपासना विधि में। कतिपय (प्रतीकादि) उपासनाओं का फल अभ्युदय
प्रधानस्यानन्दमयत्वम् ] हिन्दोसहितभामतीसंवलितम् २०७
र्थानि। तेषां गुणविशेषोपाधिभेदेन भेदः। एक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते। 'तं यथा यथोपासते तदेव भवति' इति श्रुतेः, यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति' (छा० ३।१४।१) इति च। स्मृतेश्च—'यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥' (गी० ८।६) इति। यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्यादात्मनः
भामती
क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि ॐ । क्वचित् पुनरुक्तोऽप्युपाधिरविवक्षितः, यथाऽत्रैवान्नमयादय आनन्दमयान्ताः पञ्च कोशाः। तदत्र कस्मिन्नुपाधिर्विवक्षितः कस्मिन्नेति नाद्यापि विवेचितम्। तथा गतिसामान्यमपि सिद्धवदुक्तं, न त्वद्यापि साधितमिति। तदर्थमुत्तरग्रन्थसन्दर्भारम्भ इत्यर्थः। स्यादेतत्—परस्यात्मनस्तत्तदुपाधिभेदविशिष्टस्याप्यभेदात् कथमुपासनाभेदः कथञ्च फलभेद इत्यत आह ॐ एक एव तु इति ॐ । रूपाभेदेऽप्युपाधिभेदादुपहितभेदादुपासनाभेदस्तथा च फलभेद इत्यर्थः। ॐ क्रतुः ॐ सङ्कल्पः। ननु यद्येक आत्मा कूटस्थनित्यो निरतिशयः सर्वभूतेषु गूढः कथमेतस्मिन् भूताश्रये तारतम्यश्रुतय इत्यत आह ॐ यद्यप्येक आत्मा इति ॐ । यद्यपि निरतिशयमेकमेव रूपमात्मन ऐश्वर्यं ज्ञानं चानन्दश्च,
भामती-व्याख्या
(स्वर्गादि) माना जाता है। कर्म-निरपेक्ष केवल मन के द्वारा सम्पादित होने के कारण ऐसी उपासनाओं को कर्मकाण्ड में न पढ़ कर यहाँ (वेदान्त-काण्ड) में स्थान दिया गया है। "कानिचित् क्रममुक्त्यर्थानि, कानिचित् कर्मसमृद्ध्यर्थानि"। कहीं-कहीं ब्रह्म की कथित उपाधि भी अविवक्षित होती है, जैसे—यहाँ [आनन्द ब्रह्म के प्रसङ्ग में] ही 'अन्नमय', 'प्राणमय', 'मनोमय', 'विज्ञानमय' और 'आनन्दमय'—ये पाँच कोश। कहाँ उपाधि विवक्षित है और कहाँ नहीं ? ऐसा विचार अभी तक नहीं किया गया। उसी प्रकार 'गतिसामन्य' का भी उपदेश मात्र कर दिया गया, अभी तक उसकी सिद्धि नहीं की गई, इसके लिए अग्रिम सूत्र-ग्रन्थ की रचना की गई है।
विविध उपाधियों से विशिष्ट भी परमात्मा तो एक अभिन्न ही है, तब उसकी उपासनाओं का भेद क्योंकर होगा? उपासना-भेद न होने पर फल-भेद क्यों होगा? ऐसी शङ्का का समाधान है—"एक एव तु परमात्मेश्वरः तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते "तं यथा यथोपासते, तदेव भवति" (मुद्गलो. ३।३) इति श्रुतेः। "यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति" (छां. ३।१४।१) इति च"। आशय यह है कि उपधेय का अभेद होने पर भी उपाधियों का भेद होने के कारण उपासना का भेद हो जाता है। उपासना का भेद होने से फल-भेद हो जाता है। उक्त श्रुति में 'क्रतु' शब्द का अर्थ है—'सङ्कल्प। भाष्यकार ने भी इस मन्त्र की व्याख्या में कहा है—"क्रतुर्निश्चयोऽध्यवसायः याहङ् निश्चयोऽस्मिँल्लोके पुरुषो भवति, तथेतां मृत्वा भवति"। जीव का निश्चय अपने कर्मों पर निर्भर है और उस निश्चय पर भावी जन्म।
यदि एक ही आत्मा कूटस्थ, नित्य और निरतिशय सभी भूतो में व्याप्त है, तब उसके उपास्य-उपासकादिरूप तारतम्य का प्रतिपादन श्रुतियाँ क्यों करती हैं? इस प्रश्न का उत्तर है—"यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्या-दात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तराविकृतस्य तारतम्यम्"। अर्थात् आत्मा का रूप, ऐश्वर्य और ज्ञान एक ही प्रकार का है, तथापि अनादि अविद्यारूप अन्धकार से आवृत्त होकर किसी (स्थावरादि) शरीर में असत्-जैसा (नहीं के बराबर), कहीं अत्यन्त
| २०८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १२ |
|---|
कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते—'तस्य य आत्मानमाविस्तरां वेद' (ऐ० आ० २।३।२।१) इत्यत्र। स्मृतावपि—'यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम्॥' (गी० १०।४१) इति। यत्र यत्र विभूत्याद्यतिशयः स स ईश्वर इत्युपास्यतया चोद्यते। एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति। एवं 'आकाशस्तल्लिङ्गात्' (ब्र० १।१।२२) इत्यादिषु द्रष्टव्यम्। एवं सद्योमुक्तिकारणमध्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसंबन्धविशेषं परापरविषयत्वेन संदिह्यमानं वाक्यगतिपर्यालोचनया निर्णतव्यं भवति। यथैहैव तावद् 'आनन्दमयोऽभ्यासाद्' इति, एवमेकमपि ब्रह्मापेक्षितोपाधिसम्बन्धं निरस्तोपाधिसंबन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते। यच्च 'गतिसामान्याद्' इत्यचेतनकारणनिराकरणमुक्तं, तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते—
आनन्दमयोऽभ्यासात् ॥ १२ ॥
तैत्तिरीयकेऽन्नमयं, प्राणमयं, मनोमयं, विज्ञानमयं, चानुक्रम्याम्नायते—'तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्मानन्दमयः' (तै० २।५) इति। तत्र संशयः—किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते यत्प्रकृतम् 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै० २।१) इति, किंवाऽन्नमयादिवद् ब्रह्मणोऽर्थान्तरमिति ? किं तावत्प्राप्तं ? ब्रह्मणोऽर्थान्तरममुख्य
भामती
तथाप्यनाद्यविद्यातमःसमावृतं तेषु तेषु प्राणभृद्भेदेषु क्वचिदसदिव क्वचित्सदिव क्वचिदत्यन्तापकृष्टमिव क्वचित्सत्तु क्वचित् प्रकर्षवत् क्वचिदत्यन्तप्रकर्षवदिव भासते, तत् कस्य हेतोः ? अविद्यातमसः प्रकर्षनिकर्षतारतम्यादिति। यथोत्तमप्रकाशः सविता दिङ्मण्डलमेकरूपेणैव प्रकाशेनापूरयन्नपि वर्षासु निकृष्टप्रकाश इव शरदि तु प्रकृष्टप्रकाश इव प्रथते, तथेदमपीति। अपेक्षितोपाधिसम्बन्धम् उपास्यत्वेन, 'निरस्तोपाधिसम्बन्धं ज्ञेयत्वेन इति।
तत्र तावत्प्रथममेकदेशिमतेनाधिकरणमारचयति। ॐ तैत्तिरीयकेऽन्नमयम् ॐ इत्यादि।
गौणप्रवाहपातेऽपि युज्यते मुख्यमीक्षणम्। मुख्यत्वे तूभयोस्तुल्ये प्रायदृष्टिविशेषिका॥
भामती-व्याख्या
अपकृष्ट, कहीं अपकृष्टतर, कहीं सत्, कहीं प्रकृष्ट और कहीं अत्यन्तोत्कृष्ट प्रतीत होता है। ऐसा किस कारण से हुआ ? इसका उत्तर इतना ही है कि उसकी उपाधिभूत अविद्या के उत्कर्षापकर्षतारतम्य के कारण वैसे ही वह वैसा हो जाता है, जैसे कि भगवान् सूर्य एकविध अपने उत्तमरूप से सभी दिशाओं को पूरित और अवभासित करता है, किन्तु वर्षा काल में उसका प्रकाश मन्द और शरत् काल में प्रखर होता है। भाष्य में "अपेक्षितोपाधिसम्बन्धं" का "उपास्यत्वेन" और "निरस्तोपाधिसम्बन्धं" का "ज्ञेयत्वेन" के साथ अन्वय विवक्षित है। अर्थात् उपास्य और ज्ञेय ब्रह्म का श्रौत उपदेश प्रशस्त करने या ब्रह्म में सद्रूपता और चिद्रूपता सिद्ध करने के अनन्तर आनन्दरूपता सिद्ध करने के लिए अग्रिम सूत्र-सन्दर्भ प्रस्तुत किया जाता है।
एकदेशी के मत से अधिकरण-रचना
संशय— "अन्योऽन्तर आत्मा आनन्दमय" (तै. उ. २।५)। यहाँ 'आनन्दमय' शब्द से ब्रह्म का ग्रहण किया जाय? अथवा अन्य पदार्थ का ? इस संशय के अनुसार पहले एकदेशि-मत के अनुसार अधिकरण की रचना की जा रही है—
आनन्दमयस्य जीवत्वाशङ्काः ] हिन्दीसहितभामतीसंचलितम् २०९
आत्मानन्दमयः स्यात् । कस्मात् ? अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात् । अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति, न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्र-
भामती
आनन्दमय इति हि विकारे प्राचुर्ये च मयटस्तुल्यं मुख्यार्थत्वमिति विकारार्थान्न मयादिपद-प्रायपाठादानन्दमयपदमपि विकारार्थमेवेति युक्तम् । न च प्राणमयादिषु विकारार्थत्वायोगात् स्वार्थिको मयडिति युक्तम् । प्राणाद्युपाध्यवच्छिन्नो ह्यात्मा भवति प्राणादिविकारो घटाकाशमिव घटविकारः । न च सत्यर्थे स्वार्थिकत्वमुचितम् ,
भामती-व्याख्या
गौणप्रवाहपातेऽपि युज्यते मुख्यमीक्षणम् ।
मुख्यत्वे तूभयोस्तुल्ये प्रायदृष्टिविशेषिका ॥
पूर्व अधिकरण से गौण ईक्षण का ग्रहण किया जाय ? अथवा मुख्य ईक्षण का ? इस प्रकार के संशय का निर्णायक प्राय-पाठ गौण ईक्षण के पक्ष में था, उसकी उपेक्षा करके मुख्य ईक्षण का ग्रहण किया गया। किन्तु इस अधिकरण में 'मयट्' प्रत्यय के दो मुख्यार्थ प्रसिद्ध हैं—
(१) विकार [ "मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः" (पा. सू. ४।३।१४३) इस सूत्र से विकारार्थक मयट् विहित है ] । (२) प्राचुर्य [ "तत्प्रकृतवचने मयट्" (पा. सू. ५।४।२१) इस सूत्र में प्राचुर्येण प्रस्तुत पदार्थ का 'प्रकृत' शब्द से ग्रहण कर प्राचुर्यार्थक मयट् विहित है ] । इन दोनों मुख्यार्थों में से यहाँ किस अर्थ का ग्रहण किया जाय ? इस संशय का निरास करने के लिए प्राय-पाठ का अनुशासन मानते हुए प्राचुर्य अर्थ का ही ग्रहण किया गया है।
पूर्वपक्ष - 'आनन्दमय' शब्द यद्यपि 'विकार' और 'प्राचुर्य'—इन दोनों अर्थों में विहित है, तथापि “तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा प्राणमय” (तै. उ. २।२), “तस्माद्वा एतस्मात् प्राणमयादन्योऽन्तर आत्मा मनोमयः” (तै. उ. २।३ ), “तस्माद्वा एतस्मान्मनोमया-दन्योऽन्तर आत्मा विज्ञानमयः” (तै. उ. २।४), “तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मा आनन्दमयः” (तै. उ. २।५) इन श्रुतियों में अन्नमयकोशादि का जो प्रतिपादन है, वह अन्न का विकार मात्र है, अतः विकारार्थक अन्नमयादि पदों के प्राय में पठित 'विज्ञानमय' पद भी गौण आत्मा का उपस्थापक है, मुख्य आत्मा (ब्रह्म) का नहीं ।
शङ्का—जैसे अन्नमय (स्थूल) शरीर तो अन्न का विकार है, वैसे प्राणमय, मनोमय और विज्ञानमय शरीर अर्थात् सूक्ष्म शरीर प्राणादि का विकार नहीं, अपितु इन तीन कोशों से घटित एक निकाय है, अतः वहाँ 'मयट्' विकारार्थक नहीं माना जा सकता, अतः प्राय-पाठ विघटित हो जाने के कारण 'आनन्दमय' शब्द में 'मयट्' की विकारार्थता का सन्देह नहीं उठाया जा सकता।
समाधान—यह पहले ही कहा जा चुका है कि नित्य निरवच्छिन्न पदार्थ सावच्छिन्न होकर कार्य या विकार माना जाता है, अतः प्राणादि उपाधियों से अवच्छिन्न आत्मा वैसे ही प्राणादि का विकार माना जाता है, जैसे घटावच्छिन्न आकाश घट का विकार, अतः विकारार्थक 'मयट्' का प्राय-पाठ सुरक्षित है, उसके बल पर 'आनन्दमय' भी आनन्द का विकार कहा जा सकता है। यद्यपि 'आनन्द एव आनन्दमय'—इस प्रकार स्वार्थ में मयट् प्रत्यय वैसे ही माना जा सकता है, जैसे 'देव एव देवता'—इत्यादि स्थलों पर 'तल' होता है। तथापि स्वार्थक प्रत्यय एक प्रकार से निरर्थक-सा ही माना जाता है, अतः जहाँ तक कोई विशेष अर्थ सुलभ होता है, वहाँ तक स्वार्थक प्रत्यय नहीं माना जाता, प्रकृत में जब विकारार्थ का लाभ हो रहा है, तब प्रत्यय को स्वार्थपरक नहीं माना जा सकता ।
२७
२१० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १२
वणाच्च । मुख्यश्चेदात्मानन्दमयः स्यात्, न प्रियादिसंस्पर्शः स्यात् । इह तु ‘तस्य प्रियमेव शिरः’ इत्यादि श्रूयते । शारीरत्वं च श्रूयते—‘तस्यैष एव शारीर आत्मा, यः पूर्वस्य’ इति । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः । न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शो वारयितुं शक्यः । तस्मात्संसार्येवानन्दमय आत्मेत्येवं प्राप्ते इदमुच्यते—
भामती
चतुष्कोशान्तरत्वेन न सर्वान्तरतोचिता ।
प्रियादिभागी शारीरो जीवो न ब्रह्म युज्यते ॥
न च सर्वान्तरतया ब्रह्मैवानन्दमयं न जीव इति साम्प्रतम् , नहीयं श्रुतिरानन्दमयस्य सर्वान्तरतां ब्रूतेऽपि त्वन्नमयादिकोशचतुष्टयान्तरतामानन्दमयकोशस्य । न चास्मादन्यस्यान्तरस्याश्रवणादयमेव सर्वान्तर इति युक्तम् , यदपेक्षं यस्यान्तरत्वं श्रुतं तत्तस्मादेवान्तरं भवति । न हि देवदत्तो बलवानित्युक्ते सर्वान् सिंहशार्दूलादीनपि प्रति बलवान् प्रतीयतेऽपि तु समानजातीयान्तरमपेक्ष्य । एवमानन्दमयोऽप्यन्नमयादिभ्योऽन्तरो न तु सर्वस्मात् । न च निष्कलस्य ब्रह्मणः प्रियाद्यवयवयोगः, नापि शारीरत्वं युज्यत इति संसार्येवानन्दमयः । तस्मादुपहितमेवात्रोपास्यत्वेन विवक्षितं, न तु ब्रह्मरूपं ज्ञेयत्वेनेति पूर्वः पक्षः । अपि च यदि प्राचुर्यार्थोऽपि मयट् , तथापि संसार्येवानन्दमयः, न तु ब्रह्म, आनन्दप्राचुर्यं हि तद्विपरीतदुःखलवसम्भवे भवति, न तु तदत्यन्तासम्भवे । न च परमात्मनो मनागपि दुःखलवसम्भवः, आनन्दैकरसत्वादित्याह ॐ न च सशरीरस्य सतः इति ॐ । अशरीरस्य पुनरप्रियसम्बन्धो मनागपि नास्तीति
भामती-व्याख्या
शङ्का—अन्नमयादि चार कोशों की प्रस्तुति के अनन्तर श्रुति उन चारों के अन्तर ( मध्य ) में व्याप्त पदार्थ को 'आनन्दमय' कह रही है, चार कोशों की अन्तर-व्याप्ति सर्वान्तरत्व का उपलक्षक है, सर्वान्तर एकमात्र ब्रह्म है, अतः इस सर्वान्तरता के निर्देश से प्राय-पाठ का बाध हो जाता है।
समाधान—यहाँ सर्वान्तरता का उल्लेख नहीं और न चतुष्कोशान्तरता मात्र के उल्लेख से सर्वान्तरता का उन्नयन ही हो सकता है—
चतुष्कोशान्तरत्वेन न सर्वान्तरतोचिता ।
प्रियादिभागी शारीरो जीवो न ब्रह्म युज्यते ॥
'सर्वान्तर ब्रह्म ही है, अतः सर्वान्तरता के संकीर्तन से ब्रह्म की ही अवगति होती है, जीव की नहीं'—ऐसी शङ्का यहाँ नहीं की जा सकती, क्योंकि यहाँ केवल अन्नमयादि चार कोशों के अन्तर ही आनन्दमय बताया गया है, सर्वान्तर नहीं। आनन्दमय के अन्तर किसी अन्य का निर्देश न होने के कारण भी आनन्दमय को सर्वान्तर नहीं कहा जा सकता, क्योंकि जिसकी अपेक्षा से जो पदार्थ अन्तर कहा जाता है, उसी की अन्तरता अवगत होती है, जैसे यज्ञदत्ताद् देवदत्तो बलवान्—ऐसा कहने से देवदत्त में सभी सिंह, शार्दूल ( तेन्दुआ ) आदि से बलवत्ता का लाभ नहीं होता, अपितु यज्ञदत्तादि अपने सजातीय व्यक्तियों की अपेक्षा ही बलवत्ता अधिगत होती है। उसी प्रकार आनन्दमय में अन्नमयादि चार की ही अभ्यन्तरता प्राप्त होती है, सर्वान्तरता नहीं, प्रत्यूत उसके भी अन्तर कोई अन्य हो सकता है।
‘तस्य प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा’ ( तै. उ. २।५ ) इस वाक्य के द्वारा प्रियादि पदार्थों को आनन्दमय का अवयव कहा गया है, निरवयव ब्रह्म के अवयव सम्भव नहीं। परिशेषतः 'आनन्दमय' शब्द के द्वारा संसारी आत्मा का ही उपास्यत्वेन निर्देश मानना उचित है, ब्रह्मस्वरूप का प्रतिपादन कथमपि सम्भावित नहीं।
आनन्दमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २११
आनन्दमयोऽभ्यासात् ॥ १२ ॥
पर एवात्माऽऽनन्दमयो भवितुमर्हति । कुतः ? अभ्यासात् । परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते । आनन्दमयं प्रस्तुत्य ‘रसो वै सः’ ( तै० २।६ ) इति तस्यैव रसत्वमुक्त्वोच्यते—‘रसं ह्येवायं लब्ध्वानन्दीभवति’ इति, ‘को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयति’ ( तै० २।७ ) ‘सैषानन्दस्य मीमांसा भवति’, ‘एतमानन्दमयमात्मानमुपसंक्रामति’, ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ ( तैत्ति० २।८,९) इति । ‘आनन्दो ब्रह्मेति व्यजानात्’ (तैत्ति० ३।६ ) इति च । श्रुत्यन्तरे च ‘विज्ञानमानन्दं ब्रह्म’ ( बृ० ३।९।२८ ) इति ब्रह्मण्येवानन्दशब्दो दृष्टः । एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्याभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते । यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति, नासौ दोषः,
भामती
प्राचुर्यार्थोऽपि मयड् नोपपद्यत इत्यर्थः । उच्यते—आनन्दमयावयवस्य तावद् ब्रह्मणः पुच्छस्याङ्गतया न प्राधान्यम्, अपित्वङ्गिन आनन्दमयस्यैव ब्रह्मणः प्राधान्यम् । तथा च तदधिकारे पठितमभ्यस्यमानमानन्दपदं तद्बुद्धिमाबध्नात् तस्यैवानन्दमयस्याभ्यास इति युक्तम् । ज्योतिष्टोमाधिकारे वसन्ते वसन्ते ज्योतिषेति ज्योतिष्पदमिव ज्योतिष्टोमाभ्यासः कालविशेषविधिपरः । अपि च साक्षादानन्दमयात्माभ्यासः श्रूयते ॐ एतमानन्दमयमात्मानमुपसंक्रामति इति ॐ । पूर्वपक्षबीजमनुभाष्य दूषयति ॐ यत्तूक्तमन्नमयादि
भामती-व्याख्या
यदि 'मयट्' को प्राचुर्यार्थक भी मान लिया जाय, तब भी संसारी ( जीव ) आत्मा ही आनन्दमय ठहरता है, ब्रह्म नहीं, क्योंकि आनन्द की प्रचुरता वहीं ही मानी जायगी, जहाँ न्यून मात्रा में दुःख भी विद्यमान हो, दुःख का अत्यन्ताभाव नहीं । ब्रह्म में तो दुःख का लेशमात्र भी नहीं होता, क्योंकि वह आनन्दैकरस है, जीव वैसा नहीं—"न च सशरीरस्य सतः प्रियाप्रियसंसर्शी वारयितुं शक्यः" । अतः ब्रह्म को आनन्दप्रचुर नहीं कहा जा सकता, अतः प्राचुर्यार्थक 'मयट्' मान कर भी अभीष्ट-सिद्धि नहीं होती ।
सिद्धान्त —[ 'यद्यपि आनन्दमयो ब्रह्म, अभ्यस्यमानत्वात्'—इस सिद्धान्त्यभिमत अनुमान में स्वरूपासिद्धि प्रतीत होती है, क्योंकि "एष ह्येवानन्दयति" ( तै. उ. २।७ ), 'सैषा आनन्दस्य मीमांसा भवति" ( तै. उ. २।८ ), "आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन" ( तै. उ. २।९ ) इत्यादि वाक्यों में 'आनन्द' अभ्यस्यमान ( पुनः पुनः चर्चित ) है, 'आनन्दमय' नहीं, 'आनन्दमय' शब्द का 'आनन्द' शब्द एक भाग ( अवयव ) है, अत एव आनन्दरूप ब्रह्म को आनन्दमय की पुच्छ ( अवयव ) कहा गया है—"तस्य ( आनन्दमयस्य ) प्रियमेव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छम्" ( तै. उ. २।५ )। तथापि ] 'आनन्दमय' पदार्थ ही मुख्य, अङ्गी एवं प्रकरणी है, अत एव भाष्यकार ने कहा है—"आनन्दमयं प्रस्तुत्य" । 'आनन्दमय' पदार्थ का निर्देश 'आनन्द' पद के द्वारा ही किया गया है । 'ज्योतिष्टोम' याग के प्रकरण में पठित "वसन्ते वसन्ते ज्योतिषा यजेत" ( तुलना आप. श्रौ. सू. १०।२।१५ ) इस वाक्य के द्वारा ज्योतिष्टोम का अभ्यास वसन्तरूप काल का विधान करने के लिए किया गया है, जैसा कि शबरस्वामी कहते हैं—'यजेत स्वर्गकामो वसन्ते-वसन्ते' इति फलगुणसम्बन्धार्थः" ( शाबर. २।२।१७ ) । जैसे वेद में ज्योतिष्टोम के लिए 'ज्योतिः' शब्द का और लोक-व्यवहार में सत्यभामा के लिए 'भामा' शब्द का प्रयोग देखा जाता है, वैसे ही प्रकृत में आनन्दमय के लिए 'आनन्द' शब्द का प्रयोग हो गया है, फलतः कथित अनुमान में अभ्यस्यमानत्व हेतु स्वरूपासिद्ध नहीं । केवल 'आनन्द' पद के द्वारा ही
२१२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १३
आनन्दमयस्य सर्वान्तरत्वात् । मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरत्, अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत्, प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम् । यथारुन्धतीनिदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु याऽन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति, एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम् । यत्तु ब्रूषे—प्रियादीनां शिरस्त्वादिकल्पनाऽनुपपन्ना मुख्यस्यात्मन इति, अतीतानन्तरोपाधिजनिता सा, न स्वाभाविकीत्यदोषः । शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात्, न पुनः साक्षादेव शारीरत्वं संसारिवत्, तस्मादानन्दमयः पर एवात्मा ॥ १२ ॥
विकारशब्दान्नेति चेन्न प्राचुर्यात् ॥ १३ ॥
**अत्राह—**नानन्दमयः पर आत्मा भवितुमर्हति । कस्मात् ? विकारशब्दात् । प्रकृतिवचनादयमन्नमयः शब्दो विकारवचनः समधिगतः, आनन्दमय इति मयटो विका-
भामती
इति ॐ । न हि मुख्यारुन्धतीदर्शनं तत्तदमुख्यारुन्धतीदर्शनप्रायपठितमप्यमुख्यारुन्धतीदर्शनं भवति । तादर्थ्यात्पूर्वदर्शनानामन्त्यदर्शनानुगुण्यं न तु तद्विरोधितेति चेद्, इहाप्यानन्दमयादान्तरस्यान्यस्याश्रवणात् । तस्य त्वन्नमयादिसर्वान्तरत्वश्रुतेस्तत्पर्यवसानात्तादर्थ्यं तुल्यम् । प्रियाद्यवयवयोगशारीरत्वे च निगदव्याख्यातेन भाष्येण समाहिते । प्रियाद्यवयवयोगवद् दुःखलवयोगोऽपि परमात्मन औपाधिक उपपादितः । तथाऽऽनन्दमय इति प्राचुर्यार्थता मयट उपपादितेति ॥ १२-१४ ॥
भामती-व्याख्या
आनन्दमय का अभ्यास प्रस्तुत नहीं किया गया, अपितु साक्षात् 'आनन्दमय' पद के माध्यम से भी आनन्दमय का अभ्यास उपलब्ध होता है—"एतमानन्दमयमात्मानमुपसंक्रामति" ( तै. उ. २।८ ) ।
पूर्वपक्ष की युक्तियों का अनुवाद करके खण्डन किया जाता है—'यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्यामुख्यत्वम्, नासौ दोषः, आनन्दमयस्य सर्वान्तरत्वात्'। जैसे मुख्य अरुन्धती तारे का दर्शन कहीं अमुख्य अरुन्धती-दर्शन के प्राय में पठित अमुख्य अरुन्धती का दर्शन नहीं होता, वैसे ही मुख्य आनन्दमय अन्नमयादि अमुख्यात्म-प्रवाह में पड़ कर भी अमुख्य नहीं हो सकता । 'पूर्व-पूर्व दर्शन जब उत्तरोत्तर दर्शन की उपपत्ति के लिए है, तब अन्तिम दर्शन पूर्व दर्शनों से विपरीत क्यों ?' इस शङ्का का समाधान यह है कि आनन्दमय के अभ्यन्तर अन्य किसी पदार्थ का निर्देश न होने के कारण अन्नमयादि कोशों एवं समस्त प्रपञ्च की अभ्यन्तरता आनन्दमय में सिद्ध हो जाती है, सर्वान्तर एक मात्र ब्रह्म है। उसकी अवगति के साधनभूत अन्नमयादि कोशों की समानता कदापि सम्भव नहीं । प्रियादि अवयवों के निर्देश से जो शारीर आत्मा का पूर्व पक्ष उठाया गया था, उसका निरास भी भाष्यकार ने कर दिया है—"यत्तु ब्रूषे प्रियादीनां शिरस्त्वादिकल्पनाऽनुपपन्ना मुख्यस्यात्मन इति, अतीतानन्तरोपाधिजनिता सा, न स्वाभाविकीत्यदोषः।" आनन्दमय में सावयवत्व और शारीरत्व का व्यवहार जो देखा जाता है, वह स्वाभाविक नहीं, अपितु अन्नमय शरीरादि अतीत उपाधियों एवं जीव से अनन्तरता ( अनौपाधिक एकता ) को लेकर हो जाता है, अतः आनन्दमय की ब्रह्मरूपता में किसी प्रकार का दोष नहीं रह जाता ।
'मयट्' प्रत्यय विकारार्थक नहीं, अपितु प्रचुरार्थक है, क्योंकि "तत्प्रकृतवचने मयट्"
आनन्दमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २१३
रार्थत्वात् । तस्मादन्नमयादिशब्दवद्विकारविषय एवानन्दमयशब्द इति चेत्, न, प्राचुर्यार्थेऽपि मयटः स्मरणात् । 'तत्प्रकृतवचने मयट्' (पा० ५।४।२१) इति हि प्रचुरतायामपि मयट् स्मर्यते । यथा 'अन्नमयो यज्ञः' इत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमय उच्यते । आनन्दप्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् । तस्मात्प्राचुर्यार्थे मयट् ॥ १३ ॥
तद्धेतुव्यपदेशाच्च ॥ १४ ॥
इतश्च प्राचुर्यार्थे मयट्, यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः—'एष ह्येवानन्दयाति' इति । आनन्दयतीत्यर्थः । यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति । यथा लोके योऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते, तद्वत् । तस्मात्प्राचुर्यार्थेऽपि मयटः संभवादानन्दमयः पर एवात्मा ॥ १४ ॥
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
इतश्चानन्दमयः पर एवात्मा । यस्मात् 'ब्रह्मविदाप्नोति परम्' इत्युपक्रम्य 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै० २।१) इत्यस्मिन्मन्त्रे यत्प्रकृतं ब्रह्म सत्यज्ञानानन्तविशेषणैर्निर्धारितम्, यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरं, यस्य विज्ञानाय 'अन्योऽन्तर आत्माऽन्योऽन्तर आत्मा' इति प्रक्रान्तं, तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते 'अन्योऽन्तर आत्मानन्दमयः' (तै० २।५) इति । मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम्, अविरोधात् ।
भामती अपि च मन्त्रब्राह्मणयोरुपेष्योपायभूतयोः सम्प्रतिपत्तेर्ब्रह्मैवानन्दमयपदार्थः, मन्त्रे हि पुनःपुनरन्योऽन्तर आत्मेति पर ब्रह्मण्यान्तरत्वश्रवणात्तस्यैव चान्योऽन्तर आत्माऽऽनन्दमय इति ब्राह्मणे प्रत्यभिज्ञानात्
भामती-व्याख्या
(पा. सू. ५।४।२१) इस सूत्र के द्वारा प्राचुर्यार्थ में भी मयट् विहित है, जैसे 'अन्नमयो यज्ञः"—ऐसा व्यवहार उसी यज्ञ के लिए होता है, जिसमें अन्न की प्रचुरता होती है। उसी प्रकार मनुष्यादि के आनन्द से उत्तरोत्तर शतगुण आनन्द बढ़ता-बढ़ता ब्रह्मानन्द में पूर्ण हो जाता है।
'मयट्' की प्रचुरार्थता श्रुति के उस व्यपदेश से भी सिद्ध होती है, जिसमें ब्रह्म को आनन्द का हेतु कहा गया है—"एष ह्येवानन्दयाति" (तै. उ. २।७)। जो पदार्थ अपने योग से औरों को भी मधुर बनाता है, वह स्वयं माधुर्यमय होता है, जो दूसरों को धनी बनाता है, वह 'प्रचुरधनः' कहा जाता है, उसी प्रकार जो दुःखमय प्रपञ्च को भी अपने सम्बन्ध से आनन्दित करता है, वह आनन्दप्रचुर या आनन्दमय क्यों न होगा ? ॥ १२-१४ ॥
[ 'मान्त्रवर्णिकमेव च गीयते'—इस सूत्र की व्याख्या में भाष्यकार ने 'मन्त्र' पद से "सत्यं ज्ञानमनन्तं ब्रह्म" (तै. उ. २।१) इस वाक्य का ग्रहण करके कहा है कि इस मन्त्र के द्वारा प्रतिपादित सच्चिदानन्दरूप ब्रह्म की ही प्रत्यभिज्ञा "अन्योऽन्तर आत्मानन्दमयः" (तै. उ. २।५) इस ब्राह्मण वाक्य में हो रही है, अतः आनन्दमय और सच्चिदानन्द ब्रह्म की एकता निश्चित है, क्योंकि मन्त्र और ब्राह्मण की एकार्थपरता होती है—"मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम्" । 'मन्त्र' का लक्षण है—"तच्चोदकेषु मन्त्राख्या" (जै. सू. २।१।३२) और उससे भिन्न वाक्यों को ब्राह्मण कहा जाता है—"शेषे ब्राह्मणशब्दः" (जै. सू. २।१।३३) । इन लक्षणों के अनुसार "सत्यं ज्ञानमनन्तं ब्रह्म"—इस वाक्य को 'मन्त्र' कहना दुष्कर है, क्योंकि अनुष्ठानोपयोगी पदार्थों के प्रतिपादक या स्मारक वाक्यों को ही याज्ञिकगण मन्त्र
| २१४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १६ |
|---|
अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् । न चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माऽभिधीयते । एतन्निष्ठैव च 'सैषा भार्गवी वारुणी विद्या' ( तै० २।६ ) तस्मादानन्दमयः पर एवात्मा ॥ १५ ॥
नेतरोऽनुपपत्तेः ॥ १६ ॥
इतश्चानन्दमयः पर एवात्मा । नेतरः । इतर ईश्वरादन्यः संसारी जीव इत्यर्थः । न जीव आनन्दमयशब्देनाभिधीयते । कस्मात् ? अनुपपत्तेः । आनन्दमयं हि प्रकृत्य श्रूयते—'सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत , यदिदं किंच' ( तै० २।६ ) इति । तत्र प्राक्शरीराद्युत्पत्तेरभिध्यानं, सृज्यमानानां च विकाराणां स्रष्टुरव्यतिरेकः, सर्वविकारसृष्टिश्च न परस्मादात्मनोऽन्यत्रोपपद्यते ॥ १६ ॥
भामती
परब्रह्मैवानन्दमयमित्याह सूत्रकारः ॐ मान्त्रवर्णिकमेव च गीयते ॐ । मान्त्रवर्णिकमेव परं ब्रह्म ब्राह्मणेऽप्यानन्दमय इति गीयते इति ॥ १५ ॥
अपि चानन्दमयं प्रकृत्य शरीराद्युत्पत्तेः प्राक् स्रष्टृत्वश्रवणाद् बहु स्यामिति च सृज्यमानानां स्रष्टुरानन्दमयादभेदश्रवणादानन्दमयः पर एवेत्याह सूत्रम् ॐ नेतरोऽनुपपत्तेः ॐ । नेतरो जीव आनन्दमयः, तस्यानुपपत्तेरिति ॥ १६ ॥
भामती-व्याख्या
कहा करते हैं, “सत्यं ज्ञानमनन्तं ब्रह्म”—यह वाक्य तो ऐसे ब्रह्म का प्रतिपादक है, जो धर्मानुष्ठानादि का उपयोगी नहीं, प्रत्युत विरोधी माना गया है। फलतः “सत्यं ज्ञानमनन्तं ब्रह्म”—इस वाक्य को गौणरूप से ही 'मन्त्र' कहना होगा। जब सूत्र-घटक 'मन्त्रवर्ण' पद औपचारिक या गौणार्थक है, तब अन्नमयादि चार कोशों के प्रतिपादक वाक्य-समूह का 'मन्त्रवर्ण' पद से ग्रहण करना ही उचिततर है और “अन्योऽन्तर आत्मानन्दमयः”—इस वाक्य को तो ब्राह्मण वाक्य कहा ही गया है। इन दोनों में परस्पर उपायोपेयभाव और एकार्थपरत्व निश्चित है, जैसे ब्राह्मण वाक्य मन्त्रार्थ का निर्णायक या उपाय होता है, वैसे ही 'कोश-वाक्य' भी 'आनन्दमय-वाक्य' की अर्थावगति में उपकारक है, दोनों की प्रतिपाद्य वस्तु में प्रत्यभिज्ञा भी स्पष्ट है—इस आशय को लेकर श्री वाचस्पति मिश्र कहते हैं—] मन्त्र-वाक्य उपेय ( निर्णय ) और ब्राह्मण वाक्य उपाय ( निर्णायक होता है। प्रकृत में दोनों वाक्यों की एकार्थ-प्रतिपत्ति को ध्यान में रखने से यह स्पष्ट हो जाता है कि आनन्दमय ब्रह्म ही है, क्योंकि 'तस्माद्वा एतस्मादन्योऽन्तर आत्मा प्राणमयः' इत्यादि चारों वाक्य-खण्डरूपी मन्त्र में प्रयुक्त 'अन्य' और 'अन्तर' पद परब्रह्म के ही समर्पक हैं, उसी ब्रह्म की 'अन्योऽन्तर आत्मानन्दमयः'—इस ब्राह्मण में प्रत्यभिज्ञा हो रही है, अतः 'आनन्दमय' शब्द से परब्रह्म का ही ग्रहण करना चाहिए, ऐसा सूत्रकार का कहना है—“मन्त्रवर्णिकमेव च गीयते” अर्थात् मान्त्रवर्णिक परब्रह्म ही उक्त ब्राह्मण वाक्य में 'आनन्दमय' पद के द्वारा अभिहित होता है। [ मिश्रजी के मन्त्र भाग में ब्राह्मण की सन्निधि और सन्निधि-प्रयुक्त प्रत्यभिज्ञा का जैसा सामञ्जस्य है, वैसा सच्चिदानन्दात्मक ब्रह्म का उद्बोधकत्व स्पष्ट नहीं, जैसा कि भाष्यकार का मन्त्रवर्ण है ] ॥ १५ ॥
'आनन्दमय' का प्रकरण आरम्भ करके जीव के शरीरादि की उत्पत्ति से पहले ही कामना, ईक्षण और स्रष्टृत्व का प्रतिपादन किया गया है—'सोऽकामयत, बहु स्याम् प्रजायेय, स तपोऽतप्यत, स तपस्तप्त्वा इदं सर्वमसृजत” (तै. उ. २।६)। सृष्टि के रचयिता का आनन्द-
आनन्दमयस्थ ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २१५
भेदव्यपदेशाच्च ॥ १७ ॥
इतश्च नानन्दमयः संसारी। यस्मादानन्दमयाधिकारे—'रसो वै सः। रसं ह्ये- वायं लब्ध्वानन्दीभवति' ( तै० २।७ ) इति जीवानन्दमयौ भेदेन व्यपदिशति। नहि लब्धैव लब्धव्यो भवति। कथं तर्हि 'आत्माऽन्वेष्टव्यः', 'आत्मलाभान्न परं विद्यते' इति श्रुतिस्मृती ? यावता न लब्धैव लब्धव्यो भवतीत्युक्तम्। बाढम्, तथाप्यात्मनो- ऽप्रच्युतात्मभावस्यैव सतस्तत्त्वानवबोधनिमित्तो मिथ्यैव देहादिष्वनात्मस्वात्मत्व- निश्चयो लौकिको दृष्टः। तेन देहादिभूतस्यात्मनोऽप्यात्माऽनन्विष्टोऽन्वेष्टव्योऽलब्धो लब्धव्योऽश्रुतः श्रोतव्योऽमतो मन्तव्योऽविज्ञातो विज्ञातव्य इत्यादिभेदव्यपदेश उपपद्यते। प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा
भामती
ॐ भेदव्यपदेशाच्च ॐ । रसः सारो ह्ययमानन्दमय आत्मा रसं ह्येवायं लब्ध्वाऽऽनन्दीभवतीति । सोऽयं जीवात्मनो लब्धृभाव आनन्दमयस्य च लभ्यता नाभेद उपपद्यते । तस्मादानन्दमयस्य जीवात्मनो भेदे परब्रह्मत्वं सिद्धं भवति । चोदयति ॐ कथं तर्हि इति ॐ । यदि लब्धा न लब्धव्यः, कथं तर्हि परमात्मनो वस्तुतोऽभिन्नेन जीवात्मना परमात्मा लभ्यत इत्यर्थः । परिहरति ॐ बाढं तथापि इति ॐ । सत्यं परमार्थतोऽभेदेऽप्यविद्यारोपितं भेदमपाश्रित्य लब्धृलब्धव्यभाव उपपद्यते । जीवो ह्यविद्यया परब्रह्मणो भिन्नो दर्शितः, न तु जीवादपि । तथा चानन्दमयश्चेज्जीवो न जीवस्याविद्ययापि स्वतो भेदो दर्शित इति न च लब्धृलब्धव्यभाव इत्यर्थः । भेदाभेदौ च न जीवपरब्रह्मणोरित्युक्तमधस्तात् । स्यादेतत् — यथा परमेश्वरादभिन्नो जीवात्मा द्रष्टा न भवत्येवं जीवात्मनोऽपि द्रष्टुर्न भिन्नः परमेश्वर इति जीवस्या-
भामती-व्याख्या
मयात्मा से अभेद-प्रतिपादन यह सिद्ध करता है कि "नेतरोऽनुपपत्तेः"। इतर अर्थात् ब्रह्म से भिन्न जीव को आनन्दमय नहीं कहा जा सकता, क्योंकि शरीरादि की उत्पत्ति से पहले उसमें अभिध्यान और सृष्टि-कर्तृत्व की उपपत्ति नहीं हो सकती ॥ १६ ॥
आनन्दमय को अभिलक्ष्य करके कहा गया है—"रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी- भवति" ( तै. उ. २।७ ) अर्थात् आनन्दमयात्मा वह आनन्दरस है, जिसको प्राप्त करके यह ( जीव ) आनन्दित हो जाता है। जीवात्मा जब उस आनन्दमय का लब्धा ( प्रापक ) और आनन्दमय लब्धव्य है, इस प्रकार जीव और आनन्दमय का भेद-प्रतिपादन यह सिद्ध करता है कि आनन्दमय जीव नहीं।
शङ्का—यदि लब्धा लब्धव्य नहीं होता, तब श्रुति और स्मृति में जीव के लिए अभिन्न- स्वरूप परमात्मा को अन्वेष्टव्य ( गवेषणीय ) क्यों कहा है ?
समाधान -- यद्यपि जीवात्मा और परमात्मा का वस्तुतः अभेद है, तथापि अविद्या के द्वारा आपादित भेद को लेकर लब्धृत्व और लब्धव्यत्व की उपपत्ति हो जाती है अर्थात् देहादि-तादात्म्यापन्न आत्मा प्रापक और सर्वोपाधि-रहित आत्मा लब्धव्य हो जाता है। आशय यह है कि अविद्या के द्वारा जीव को ब्रह्म से ही भिन्न दर्शाया गया है, जीव से जीव को भिन्न नहीं कहा गया है, यदि आनन्दमय को जीव कहा जाता है, तब जीव की अविद्या के द्वारा वह स्वयं अपने से भिन्न क्योंकर सिद्ध होगा? भेद के विना जीव में लब्धृत्व और आनन्दमय में लब्धव्यत्व नहीं बन सकता। जीव और ब्रह्म का भेदाभेद पहले ही खण्डित हो चुका है।
शङ्का —जैसे परमात्मा से भिन्न जीवात्मा द्रष्टा नहीं होता, वैसे ही जीवात्मारूप द्रष्टा से परमेश्वर भिन्न नहीं, अतः जीव यदि अनिर्वाच्य है, तब परमेश्वर भी अनिर्वाच्य ही हो
२१६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १९
'नान्योऽतोऽस्ति द्रष्टा' (बृ० ३।७।२३) इत्यादिना । परमेश्वरस्त्वविद्याकल्पिताच्छा- रीरात्कर्तुर्भोक्तुर्विज्ञानात्माख्यादन्यः । यथा मायाविनश्चर्मखङ्गधरात्सूत्रेणाकाशमधिरो- हतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः । यथा वा घटाकाशादुपाधिपरिच्छि- न्नादनुपाधिरपरिच्छिन्न आकाशोऽन्यः । ईदृशं च विज्ञानात्मपरमात्मभेदमाश्रित्य 'नेतरोऽनुपपत्तेः', 'भेदव्यपदेशाच्च' इत्युक्तम् ॥ १७ ॥
कामाच्च नानुमानापेक्षा ॥ १८ ॥
आनन्दमयाधिकारे च 'सोऽकामयत बहु स्यां प्रजायेय' (तै० २।६) इति काम- यितृत्वनिर्देशान्नानुमानिकमपि सांख्यपरिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारण- त्वेन वाऽपेक्षितव्यम् । 'ईक्षतेर्नाशब्दम्' (ब्र० सू० १।१।५) इति निराकृतमपि प्रधानं पूर्व- सूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रियते गतिसामान्यप्रपञ्च- नाय ॥ १८ ॥
अस्मिन्नस्य च तद्योगं शास्ति ॥ १९ ॥
इतश्च न प्रधाने जीवे वानन्दमयशब्दः । यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि प्रतिबुद्धस्याऽस्य जीवस्य तद्योगं शास्ति । तदात्मना योगस्तद्योगः, तद्भावापत्तिः ।
भामती
निर्वाच्यत्वे परमेश्वरोऽप्यनिर्वाच्यः स्यात् तथा च न वस्तु सन्नियत आह ॐ परमेश्वरस्त्वविद्याकल्पि- ताद् इति ॐ । रजतं हि समारोपितं न शुक्तितो भिद्यते । नहि तद्भेद्रेनाभेदेन वा शक्यं निर्वक्तुं, शुक्तिस्तु परमार्थसती निर्वचनीयानिवर्चनीयाद्रजताद्विविक्त एव । अत्रैव सरूपमात्रं दृष्टान्तमाह ॐ यथा मायाविन इति ॐ । एतदपरितोषेणात्यन्तरूपं दृष्टान्तमाह ॐ यथा वा घटाकाशाद् इति ॐ । शेषमति- रोहितार्थम् ॥ १७-१९ ॥
भामती-व्याख्या
जायगा । अनिर्वाच्य होने पर परमार्थसत् क्योंकर रह सकेगा ?
समाधान — उक्त शङ्का का समाधान करते हुए भाष्यकार ने कहा है— "परमेश्वरस्तु अविद्याकल्पितात् शारीरात् कर्तुर्भोंक्तुर्विज्ञानात्माख्यादन्यः" । जैसे शुक्ति में समारोपित रजत की सत्ता शुक्ति की सत्ता से भिन्न नहीं, किन्तु शुक्ति की सत्ता रजत की सत्ता से भिन्न होती है, वैसे ही जीवरूप अध्यस्त पदार्थ अपने अधिष्ठानभूत परमेश्वर से भिन्न नहीं, किन्तु परमेश्वर अपने में अध्यस्त जीव से भिन्न पारमार्थिक है । इसके अनुरूप दृष्टांत प्रस्तुत किया जाता हैं—"यथा माया- विनः चर्मखङ्गधरात् सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः" । जैसे एक ही ऐन्द्रजालिक अपने वास्तविक रूप में भूमि पर खड़ा है और काल्पनिकरूप के द्वारा आकाश में लटक रहे एक सूत पर चढ़ रहा है । वहाँ उसके काल्पनिक रूप से उसका भूमि पर अवस्थित वास्तविक रूप भिन्न होता है, वैसे ही जीव से ब्रह्म भिन्न होता है । अन्य अनुरूप दृष्टान्त दिखाया जाता है— "यथा वा घटाकाशाद् उपाधिपरिच्छिन्नाद् अनुपाधिरपरि- च्छिन्न आकाशोऽन्यः" । जैसे घटादि उपाधियों से परिच्छिन्न आकाश की अपेक्षा अनवच्छिन्न आकाश भिन्न होता है, वैसे ही जीवरूप अवच्छिन्न चेतन की अपेक्षा ब्रह्मरूप अनवच्छिन्न चेतन भिन्न होता है । शेष भाष्य अत्यन्त सुबोध है । ["कामाच्च नानुमानापेक्षा"—इस सूत्र के द्वारा "सोऽकामयत बहु स्यां प्रजायेय" (तै. उ. २।६) इस श्रुति में निर्दिष्ट कामयितृत्वा- नुपपत्ति दिखाकर प्रधान तत्त्व की आनन्दमयता का खण्डन किया गया । "अस्मिन्नस्य च तद्योगं शास्ति"—यह सूत्र कहता है कि मोक्षावस्था में जीव आनन्दमय तत्त्व से तादात्म्य स्थापित कर लेता है, अतः तादात्म्य के अनुयोगी का अपने प्रतियोगी से भिन्न होना स्वाभा-
आनन्दमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २१७
मुक्तिरित्यर्थः । तद्योगं शास्ति शास्त्रम्- 'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽ- निलयनेऽभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नु- दरमन्तरं कुरुते, अथ तस्य भयं भवति' (त० २।७) इति । एतदुक्तं भवति- यदै- तस्मिन्नान्दमयेऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति, तदा संसारभयान्न निवर्तते । यदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति, तदा संसारभयान्निवर्तत इति । तच्च परमात्मपरिग्रहे घटते, न प्रधानपरिग्रहे जीवपरिग्रहे वा । तस्मादानन्दमयः परमात्मेति स्थितम् ।
इदं त्विह वक्तव्यम्- 'स वा एष पुरुषोऽन्नरसमयः' । 'तस्माद्वा एतस्माद- न्नरसमयादन्योऽन्तर आत्मा प्राणमयः' तस्मात् 'अन्योऽन्तर आत्मा मनो- मयः' तस्मात् 'अन्योऽन्तर आत्मा विज्ञानमयः' (तै० २।१,२,३,४) इति च विकारार्थे मयट्प्रवाहे सत्यानन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयत इति ? मान्त्रवर्णिकब्रह्माधिकारादिति चेत्, -न, अन्नमयादीना- मपि तर्हि ब्रह्मत्वप्रसङ्गः । अत्राह - युक्तमन्नमयादीनामब्रह्मत्वं, तस्मात्तस्मादान्तरस्या- न्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वाद्, आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मो-
भामती स्वमतपरिग्रहार्थमेकदेशिमतं दूषयति ॐ इदं त्विह वक्तव्यम् इति ॐ । एष तावदुत्सर्गो यत्— ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मशब्दात्प्रतीयते । विशुद्धं ब्रह्म, विकृतं त्वानन्दमयशब्दतः ॥
भामती-व्याख्या विक है। आशय यह है कि "यदा ह्येवैष एतस्मिन् अदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते" (तै. उ. २।७) इस श्रुति के द्वारा आनन्दमय पदार्थ के साथ जो जीव की तद्रूपापत्ति दिखाकर मुक्ति का स्वरूप दिखाया गया है, वह तभी उपपन्न हो सकता है, जब कि आनन्दमय पदार्थ को ब्रह्मरूप माना जाय ] ॥ १७-१९ ॥
एकदेशी के मत का निरास - कथित एकदेशी के मत में यह प्रश्न उठता है कि “स वा एष पुरुषोऽन्नरसमयः” (तै. उ. २।१), “तस्माद्वा एतस्मादन्नरसमायाद् अन्योऽन्तर आत्मा प्राणमयः” (तै. उ. २।२), “तस्माद्वा एतस्मात् प्राणमयाद् अन्योऽन्तर आत्मा मनोमयः” (तै. उ. २।३), “तस्माद्वा एतस्मान्मनोमयाद् अन्योऽन्तर आत्मा विज्ञानमयः” (तै. उ. २।४), “तस्माद्वा एतस्माद् विज्ञानमयाद् अन्योऽन्तर आत्मा आनन्दमयः” (तै. उ. २।५) यहाँ सब पाँच वाक्यों में 'मयट्' का प्रयोग हुआ है, पूर्व के चार वाक्यों में तो 'मयट्' विकारार्थक है किन्तु पञ्चम वाक्य में 'मयट्' प्राचुर्यार्थक मान लिया गया, यह क्यों ? विकारार्थक 'मयट्' के प्रवाह में अकस्मात् एक मयट् को प्राचुर्यार्थक क्योंकर माना जा सकता है ? यहाँ तो 'अर्धजरतीय' न्याय लागू होता है [ अर्धजरतीयन्याय का स्पष्टीकरण करते हुए सोमेश्वर भट्ट कहते है— “केनचित्पाशुपतेन सर्व- जरत्या योषितोऽनुपभोग्यत्वात् सर्वतरुण्याश्च वृद्धेऽप्यरुचिप्रसङ्गाद् अर्धजरत्यानयने दूतः प्रेषितः” (न्या. सु. पृ. १३५) । आधी बूढ़ी और आधी तरुणी स्त्री का निर्माण या अन्वेषण जैसे असंगत है, वैसे ही एक प्रवाह में पठित कुछ मयट् प्रत्ययों को विकारार्थक और कुछ को प्राचुर्यार्थक मानना असंगत है। इस न्याय के लिए 'आधा तीतर और आधा बटेर' की कहावत प्रचलित है ] ।
ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मशब्दात् प्रतीयते । विशुद्धं ब्रह्म विकृतं त्वानन्दमयशब्दतः ॥
२८
२१८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. १९
च्यते, तेनानन्दमयस्य ब्रह्मत्वम्, अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति । अत्रो- च्यते,—यद्यप्यन्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्मेति न श्रूयते, तथापि नानन्द- मयस्य ब्रह्मत्वं, यत आनन्दमयं प्रकृत्य श्रूयते—'तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा' (तै० २।५) इति । तत्र यद् ब्रह्म मन्त्रवर्ण प्रकृतम्—'सत्यं ज्ञानमनन्तं ब्रह्म' इति, तदिह 'ब्रह्म पुच्छं प्रतिष्ठा' इत्युच्यते । तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते । तत्र कुतः प्रकृतहानाऽप्रकृतप्रक्रियाप्रसङ्गः ? नन्वानन्दमयस्यावयवत्वेन 'ब्रह्म पुच्छं प्रतिष्ठा' इत्युच्यते, अन्नमयादीनामिव 'इदं पुच्छं प्रतिष्ठा' इत्यादि । तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ? प्रकृतत्वादिति ब्रूमः। नन्वानन्दमयावयवत्वे- नापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति । अत्रोच्यते,- तथा सति तदेव ब्रह्मानन्दमय आत्माऽवयवी, तदेव च ब्रह्म पुच्छं प्रतिष्ठावयव इत्य- सामञ्जस्यं स्यात् । अन्यतरपरिग्रहे तु युक्तं 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यत्रैव ब्रह्मनिर्देश आश्रयितुं, ब्रह्मशब्दसंयोगात् ; नानन्दमयवाक्ये ब्रह्मशब्दसंयोगाभावादिति । अपिच 'ब्रह्म पुच्छं प्रतिष्ठा' इत्युक्त्वेदमुच्यते,-'तदप्येष श्लोको भवति । असन्नेव स भवति । असद् ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति' (तै० २।६) । अस्मिंश्च श्लोकेऽनुकृष्यानन्दमयं, ब्रह्मण एव भावाभाववेदनयोर्गुणदोषा- भिधानाद् गम्यते 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति । न चानन्द- मयस्यात्मनो भावाभावशङ्का युक्ता; प्रियप्रमोदादिविशेषस्यानन्दमयस्य सर्वलोकप्रसिद्ध- त्वात् । कथं पुनः स्वप्रधानं सद्ब्रह्म, आनन्दमयस्य पुच्छत्वेन निर्दिश्यते - 'ब्रह्म पुच्छं प्रतिष्ठा' इति ? नैष दोषः; पुच्छवत्पुच्छं, प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्द- जातस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते, नावयवत्वम्; 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृह० ४।३।३२) इति श्रुत्यन्तरात् । अपि च आनन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम्, निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते; वाङ्मनसयोरगोचरत्वाभिधानात्—'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति' (तै० २।९) । अपि च आनन्द- प्रचुर इत्युक्तेऽपि दुःखस्तित्वमपि गम्यते; प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात् । तथा च सति 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा' (७।२४।१) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरुपरुध्येत । प्रतिशरीरं च प्रियादिभेदादा- नन्दमयस्यापि भिन्नत्वम्, ब्रह्म तु न प्रतिशरीरं भिद्यते; 'सत्यं ज्ञानमनन्तं ब्रह्म' (तैत्ति० २।१) इत्यानन्त्यश्रुतेः, 'एको देवः सर्वभूतेषु गूढ़ः सर्वव्यापी सर्वभूतान्त- रात्मा' (श्वे० ६।११) इति च श्रुत्यन्तरात् । न चानन्दमयस्याभ्यासः श्रूयते, प्राति-
भामती
तत्र किं पुच्छपदसमभिव्याहारादन्नमयादिषु चास्यावयवपरत्वेन प्रयोगादिहाप्यवयवपरत्वात् पुच्छ- पदस्य तत्समानाधिकरणं ब्रह्मपदमपि स्वार्थत्यागेन कथञ्चिदवयवपरं व्याख्यायताम् ? आनन्दमयपदं
भामती-व्याख्या
[ 'ब्रह्म' शब्द और 'आनन्दमय' शब्द पर ध्यान देने से प्रतीत होता है कि 'ब्रह्म' शब्द से अविकृत विशुद्ध चिदात्मा की एवं 'आनन्दमय' शब्द से आनन्द के विकारभूत पदार्थ की प्रतीति होती है, अतः उक्त दोनों शब्दों का सामानाधिकरण्य क्योंकर सम्भव होगा ? ] यहां यह सन्देह होता है कि 'पुच्छ' पद का 'ब्रह्म' पद के साथ समभिव्याहार एवं अन्नमयादि का
आनन्दमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २१९
पदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते—'रसो वै सः, रसं ह्येवायं लब्ध्वाऽऽनन्दी- भवति, को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्' । 'सैषाऽऽन- न्दस्य मीमांसा भवति' । 'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति' (तै० २।७,८,९ ) 'आनन्दो ब्रह्मेति व्यजानात्' ( तै० ६।६ ) इति च । यदि च आनन्दमयशब्दस्य ब्रह्म- विषयत्वं निश्चितं भवेत्, तत उत्तरेष्वा नन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत । न त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम । तस्माच्छ्रुत्यन्तरे 'विज्ञानमानन्दं ब्रह्म' ( बृ० ३।९।२८ ) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगद- र्शनात् । 'यदेष आकाश आनन्दो न स्याद्' इत्यादिर्ब्रह्मविषयः प्रयोगो न त्वानन्दमया- भ्यास इत्यवगन्तव्यम् । यस्त्वयं मयडन्तस्यैवानन्दशब्दस्याभ्यासः—'एतमानन्दमय- मात्मानमुपसंक्रामति' ( तै० २।८ इति, न तस्य ब्रह्मविषयत्वमस्ति, विकारात्मना- मेवान्नमयादीनामनात्मनामुपसंक्रमितव्यानां प्रवाहे पतितत्वात् । नन्वानन्दमयस्योप-
भामती
चान्नमयादिविकारवाचिप्रायपठितं विकारवाचि वा, कथञ्चित् प्रचुरानन्दवाचि वा ब्रह्मण्यप्रसिद्धं कया- चिद् वृत्त्या ब्रह्मणि व्याख्यायताम् ? आनन्दपदाभ्यासेन च ज्योतिष्पदेनेव ज्योतिष्टोम आनन्दमयो लक्ष्यत्ताम्, उतानन्दमयपदं विकारार्थमस्तु, ब्रह्मपदं च ब्रह्मण्येव स्वार्थेऽस्तु, आनन्दपदाभ्यासश्च स्वार्थे, पुच्छपद- मात्रमवयवप्रायलेखितमधिकरणपरतया व्याक्रियतामिति कृतबुद्धय एव विदाङ्कुर्वन्तु । तत्र
प्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् ।
पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम् ॥
पुच्छपदं हि वालधौ मुख्यं सदानन्दमयावयवे गौणमेवेति मुख्यशब्दार्थलङ्घनम् अवयवपरतायाम- धिकरणपरतायां च तुल्यम् । अवयवप्रायलेखबाधश्च विकारप्रायलेखबाधेन तुल्यः । ब्रह्मपदमानन्दमयपदम्
भामती-व्याख्या
प्राय-पाठ देख कर क्या यह मान लिया जाय कि अवयवार्थक पुच्छं पद-समभिव्याहृत 'ब्रह्म' पद अपने विशुद्धचिदात्मरूप वाच्यार्थ को छोड़ कर अवयवरूप अर्थ को कहता है ? या 'आनन्दमय' पद विकारार्थक पदों के प्रवाह में पठित होने के कारण विकार-वाची है ? या किसी प्रकार प्रचुर आनन्द का वाचक है ? या ब्रह्म में अप्रसिद्ध होने पर भी किसी वृत्ति के द्वारा ब्रह्मपरक है ? या जैसे अभ्यस्त 'ज्योति पद की ज्योतिष्टोम में लक्षणा होती है, वैसे ही अभ्यस्त 'आनन्द' पद की आनन्दमय में लक्षणा की जाय ? अथवा 'आनन्दमय' पद विकारार्थक ही रहे, ब्रह्म' पद भी अपने स्वार्थभूत ब्रह्म का ही वाचक रहे, 'आनन्द' पद का अभ्यास भी अपने स्वार्थमात्र का समर्थक रहे, केवल 'पुच्छ' पद अवयवार्थक पदों के प्रवाह में प्रविष्ट होने के कारण अधिकरणार्थक मान लिया जाय ? इन प्रश्नों पर विवेचकों को अपना विचार प्रस्तुत करना चाहिए । उन पक्षों में —
प्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् ।
पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम् ॥
[ 'मयट्' प्रत्यय विकारार्थ में, 'ब्रह्म' शब्द ब्रह्मरूप अर्थ में और अभ्यस्यमान 'आनन्द' शब्द प्रकृत्यर्थ में स्वभावतः मुख्य है, इन तीनों स्वभावों का पूर्व पक्ष में उल्लङ्घन और 'आनन्दमय' पद का विकारार्थक पदों के प्राय में पाठ उपेक्षित हो जाता है । उत्तर पक्ष में केवल 'पुच्छ' पद का अवयव-प्राय-पाठ बाधित होता है, मुख्यार्थक तीनों पदों पर किसी प्रकार का आघात नहीं आता ] अर्थात् 'पुच्छ' पद पशु की बालधि ( लाङ्गूल ) में मुख्य होकर आनन्दमय के अवयवार्थ में गौण ही माना जाता है। मुख्य शब्दार्थ का उल्लङ्घन अवयवपरता ओर
| २२० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. १९ |
|---|
संक्रमितव्यस्यान्नमयादिवदब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिः फलं निर्दिष्टं भवेत्। नैष दोषः, आनन्दमयोपसंक्रमणनिर्देशेनैव पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्य निर्दिष्टत्वात्। 'तदप्येष श्लोको भवति। यतो वाचो निवर्तन्ते' इत्यादिना च प्रपञ्च्यमानत्वात्। या त्वानन्दमयसंनिधाने 'सोऽकामयत बहु स्यां प्रजायेयेति' इयं श्रुतिरुदाहृता, सा 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यनेन संनिहिततरेण ब्रह्मणा संबध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति। तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य 'रसो वै सः' इत्यादेर्नानन्दमयविषयता। ननु 'सोऽकामयत' इति ब्रह्मणि पुंल्लिङ्गनिर्देशो नोपपद्यते। नायं दोषः, 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इत्यत्र पुंल्लिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात्। या तु भार्गवी वारुणी विद्या 'आनन्दो ब्रह्मेति व्यजानाद्' इति, तस्यां मयडश्रवणात्, प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्। तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते। नचेह सविशेषं ब्रह्म प्रतिपिपादयिषितं, वाङ्मनसगोचरातिक्रमश्रुतेः। तस्मादन्नमयादिष्वि-
भामती
आनन्दपदमिति त्रितयलङ्घनं त्वधिकं, तस्मान्मुख्यत्रितयलङ्घनादसाधीयान् पूर्वः पक्षः। मुख्यत्रयानुगुण्येन तूत्तर एव पक्षो युक्तः। अपि चानन्दमयपदस्य ब्रह्मार्थत्वे ब्रह्म पुच्छमिति न समञ्जसम्। नहि तदेवावयव्यवयवश्चेति युक्तम्। आधारपरत्वे च पुच्छशब्दस्य प्रतिष्ठेत्येतदप्युपपन्नतरं भवति। आनन्दमयस्य चान्तरत्वमन्नमयादिकोशापेक्षया। ब्रह्मणस्त्वान्तरत्वमानन्दमयार्थाद् गम्यत इति न श्रुत्योक्तम्। एवं चान्न मयादिवदानन्दमयस्य प्रियाद्यवयवयोगो युक्तः। वाङ्मनसागोचरे तु परब्रह्मण्युपाधिमन्तर्भाव्य प्रियाद्यवयवयोगः प्राचुर्यं च क्लेशेन व्याख्यायेयाताम्। तथा च मन्त्रवर्णिकस्य ब्रह्मण एव ब्रह्म पुच्छं प्रतिष्ठेति स्वप्रधानस्याभिधानात् तस्यैवाधिकारो नानन्दमयस्येति। सोऽकामयतेत्याद्या अपि श्रुतयो ब्रह्मविषया नानन्दमयविषया इत्यर्थसंक्षेपः। सुगममन्यत्॥
भामती-व्याख्या
अधिकरणार्थपरता—इन दोनों पक्षों में समान है। अवयवार्थक पदों के प्राय-पाठ का बाध विकारार्थक पदों के प्राय-पाठ-बाध के तुल्य है, किन्तु 'ब्रह्म' पद, 'आनन्दमय' पद और 'आनन्द' पद—तीनों की मुख्यार्थता का बाध अधिक होता है, अतः मुख्य त्रितय का उल्लङ्घन होने के कारण पूर्व पक्ष अयुक्त और मुख्य-त्रितय का पोषक होने के कारण उत्तर पक्ष श्रेष्ठ है।
दूसरी बात यह भी कि 'आनन्दमय' पद को ब्रह्मार्थक मानने पर **"ब्रह्म पुच्छम्"—**इस वाक्य का सामञ्जस्य नहीं बैठता, क्योंकि वही ब्रह्म अवयवी भी और अपना अवयव भी हो—ऐसा सम्भव नहीं। 'पुच्छ' शब्द को आधारपरक मानने पर 'प्रतिष्ठा' पद भी उपपन्नतर हो जाता है। आनन्दमय में अभ्यन्तरता का प्रतिपादन अन्नमयादि कोशों की अपेक्षा किया जा सकता है। ब्रह्म में सर्वान्तरता तो अर्थात् सिद्ध हो जाती है, अतः श्रुति ने उसका अभिधान नहीं किया। इस प्रकार अन्नमयादि के समान आनन्दमय के प्रियादि अवयवों का योग और प्राचुर्य का समन्वय हो सकता है, किन्तु वह सुकर नहीं, अपितु क्लेश-साध्य है। फलतः **"सत्यं ज्ञानमनन्तं ब्रह्म"—**इस मन्त्रवर्ण में प्रस्तावित ब्रह्म का ही **"ब्रह्म पुच्छं प्रतिष्ठा"—**यहाँ पर मुख्यतः अभिधान किया गया है, वही अधिकृत है, आनन्दमय नहीं। "सोऽकामयत" (तै. उ. २।६) इत्यादि श्रुतियाँ भी ब्रह्म को ही विषय करती हैं, आनन्दमय को नहीं। शेष भाष्य सुगम है। [यह जो शङ्का होती है कि 'ब्रह्म' पद नपुंसक लिङ्ग है, उसका **"सोऽकामयत"—**यहाँ पुँल्लिङ्गरूप से निर्देश क्योंकर होगा?' उस शङ्का का समाधान यह है कि **"तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः"—**इत्यादि वाक्यों में उसी ब्रह्म का
आनन्दमयस्य ब्रह्मत्वम् ] हन्दीसहितभामतीसंवलितम् २२१
वानन्दमयेऽपि विकारार्थ एव मयड् विज्ञेयो न प्राचुर्यार्थः, सूत्राणि त्वेवं व्याख्येयानि— 'ब्रह्म पुच्छं प्रतिष्ठा' इत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यत उत स्वप्रधानत्वे- नेति ? पुच्छशब्दादवयवत्वेनेति प्राप्त उच्यते—'आनन्दमयोऽभ्यासात्' । आनन्दमय आत्मत्यत्र 'ब्रह्म पुच्छं प्रतिष्ठा' इति स्वप्रधानमेव ब्रह्मोपदिश्यते, अभ्यासात् । 'असन्नेव स भवति' इत्यस्मिन्निगमनश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात् । 'विकारशब्दान्नेति चेन्न प्राचुर्यात्' । विकारशब्देनावयवशब्दोऽभिप्रेतः । पुच्छमित्य- वयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तं, तस्य परिहारो वक्तव्यः । अत्रोच्यते— नायं दोषः, प्राचुर्यादप्यवयवशब्द्रोपपत्तेः । प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचन- मित्यर्थः । अन्नमयादीनां हि शिरआदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वाऽवयवप्रायापत्त्या 'ब्रह्म पुच्छं प्रतिष्ठा' इत्याह, नावयव- विवक्षया । यत्कारणमभ्यासादिति स्वप्रधानत्वं ब्रह्मणः समर्थितम् । 'तद्धेतुव्यपदे-
भामती-व्याख्या
'आत्मा' पद के द्वारा उल्लेख किया गया है, जो कि पुँल्लिङ्ग है । यह भृगु-द्वारा प्राप्त और वरुणोपदिष्ट विद्या में कहा गया है—"आनन्दं ब्रह्मेति व्यजानात्" ( तै. उ. ३।६ ) । वहाँ 'मयट्' का निर्देश नहीं, अतः आनन्द में ब्रह्मरूपता वहाँ सम्भव है । ब्रह्म में उपाधि का योग जब तक न हो, तब तक प्रियशिरस्त्वादि का सम्बन्ध स्थापित नहीं हो सकता । यहाँ सोपाधिक या सविशेष ब्रह्म विवक्षित नहीं कि प्रियशिरस्त्वादि का योग मान लिया जाता, क्योंकि "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" ( तै. उ. २।४।१ ) इत्यादि वाक्यों के द्वारा निर्विशेष ब्रह्म का प्रकरण अवधारित है । फलतः अन्नमयादि वाक्यों में जैसे 'मयट्' विकारार्थक है, वैसे ही 'आनन्दमय' शब्द में भी विकारपरक मयट् मानना ही न्याय-संगत है, प्राचुर्यार्थक नहीं । श्रुति का ऐसा तात्पर्य मानने पर इस अधिकरण के सूत्रों का जो विरोध होता है, उसकी निवृत्ति के लिए गौणी वृत्ति या लक्षणादि के द्वारा सूत्रों की अन्यथा व्याख्या कर लेनी चाहिए, क्योंकि ब्रह्मावगति में श्रुति-वाक्य प्रधान कारण है और सूत्र-वाक्य अप्रधान या गौण साधन, अत एव महर्षि जैमिनि ने मुख्य शब्दों की लक्षणादि न मान कर गौणीभूत पदों की ही लक्षणा को न्यायोचित ठहराया है—"गुणे तु अन्यायकल्पना" ( जै. सू. १।३।१५ ) । वार्तिककार भी कहते हैं—
वैदिकं जैमिनीयं च यत्र वाक्यं विरुध्यते ।
अध्याहारादिभिः सूत्रं वैदिकं तु यथाश्रुतम् ॥ ( श्लो. वा. पृ. १५ )
लक्षणादि के द्वारा सूत्रों का तात्पर्य ऐसा पर्यवसित होता है—'आनन्दमय' शब्द की "ब्रह्म पुच्छं प्रतिष्ठा"—इस वाक्य के घटकीभूत 'ब्रह्म' पद में लक्षणा की जाती है । आशय यह है कि 'आनन्दमय' इत्यादि वाक्यों में जो "ब्रह्म पुच्छं प्रतिष्ठा"—यहाँ प्रयुक्त 'ब्रह्म' पद मुख्यार्थक है, अतः वहाँ श्रुति को 'ब्रह्म अधिकरणम्'—ऐसा कहना चाहिए था, किन्तु वैसा न कह कर जो 'ब्रह्म पुच्छम्'—ऐसा कहा गया है, उसका कारण यह है कि पूर्व- वाक्यों में अवयवार्थक पदों का प्रयोग सन्निहित था, अतः सन्निधान के अनुरोध से अवयवा- र्थक 'पुच्छ' पद का प्रयोग कर दिया गया, किन्तु इसकी भी अधिकरण में लक्षणा की जा सकती है, [ अतः "आनन्दमयोऽभ्यासात्" इस सूत्र का अर्थ यह पर्यवसित होता है कि आनन्दमयपदोपलक्षित "ब्रह्म पुच्छं प्रतिष्ठा"—इस वाक्य का घटकीभूत 'ब्रह्म' पद अपने ब्रह्मात्मक मुख्यार्थ का ही बोधक है, क्योंकि 'असन्नेव स भवति असद् ब्रह्मेति वेद चेद"
२२२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. १९
शाच्च' । सर्वस्य हि विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते— ‘इदं .सर्वमसृजत । यदिदं किञ्च’ ( तै० २।६ ) इति । न च कारणं सत् ब्रह्म स्वविका- रस्थानन्दमयस्य मुख्यया वृत्त्याऽवयव उपपद्यते । अपराण्यपि सूत्राणि यथासंभवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥ १९ ॥
भामती
❖ सूत्राणि त्वेवं व्याख्येयानि इति ❖ । वेदसूत्रयोर्विरोधे गुणे त्वन्याय्यकल्पनेति सूत्राण्यन्यथा नेतव्यानि । आनन्दमयशब्देन तद्वाक्यस्थब्रह्मपुच्छप्रतिष्ठेत्येतद्गतं ब्रह्मपदमुपलच्यते । एतदुक्तं भवति— आनन्दमय इत्यादिवाक्ये यद् ब्रह्म पुच्छं प्रतिष्ठेति ब्रह्मपदं, तत् स्वप्रधानमेवेति । यत्तु ब्रह्माधिकरणमिति वक्तव्ये ब्रह्म पुच्छमित्याह श्रुतिः, तत्कस्य हेतोः? पूर्वमवयवप्रधानप्रयोगात् तत्प्रयोगस्यैव बुद्धौ सन्निधानात्, तेनापि चाधिकरणलक्षणोपपत्तेरिति ॥ 'मान्त्रवर्णिकमेव च गीयते ❖ ।१५। यत्सत्यं ज्ञानमित्यादिना मन्त्रवर्णेन ब्रह्मोक्तं तदेतदुपायभूतेन ब्राह्मणेन स्वप्राधान्येन गीयते—ब्रह्म पुच्छं प्रतिष्ठेति । अवयववचनत्वे त्वस्य मन्त्रे प्राधान्यं ब्राह्मणे त्वप्राधान्यमिति, उपायोपेययोर्मन्त्रब्राह्मणयोर्विप्रतिपत्तिः स्यादिति । ❖ नेतरोऽनुपपत्तेः ❖ । अत्र इतश्चानन्दमय इति भाष्यस्य स्थाने इतश्च ब्रह्म पुच्छं प्रतिष्ठेति पठितव्यम् । ❖ भेदव्यपदेशाच्च ❖ । अत्रापीतश्चानन्दमय इत्यस्य चानन्दमयाधिकार इत्यस्य च भाष्यस्य स्थाने ब्रह्म पुच्छं प्रतिष्ठेति च ब्रह्मपुच्छाधिकार इति च पठितव्यम् । ❖ कामाच्च नानुमानापेक्षा ❖ । ❖ अस्मिन्नस्य च तद्योगं शास्ति ❖ । इत्यनयोरपि सूत्रयोर्भाष्ये आनन्दमयस्थाने ब्रह्म पुच्छं प्रतिष्ठेति पाठो द्रष्टव्यः । ❖ तद्धेतुव्यपदेशाच्च ❖ । विकारस्यानन्दमयस्य ब्रह्म पुच्छमवयवश्चेत् कथं सर्वस्यास्य
भामती-व्याख्या
( तै० उ० २।६।१ ) इत्यादि वाक्यों में केवल ब्रह्म ही अभ्यस्यमान है ॥ १२ ॥ ‘विकार- शब्दान्नेति चेन्न, प्राचुर्यात्’—इस सूत्र में 'विकार' शब्द से अवयव अभिप्रेत है । 'अवयवा- र्थक पुच्छ पद के योग में “ब्रह्म” पद मुख्यार्थक क्योंकर हो सकेगा ? इस शङ्का का परिहार इस सूत्र से किया गया है—“नायं दोष, प्राचुर्यात्” । प्राचुर्य का अर्थ है—प्रायपाठ । अवयवार्थक अन्नमयादि पदों के प्रवाह में पतित होने के कारण अवयवार्थक 'पुच्छ' पद के द्वारा ब्रह्म का भी निर्देश कर दिया गया है, 'पुच्छ' पद से आधारार्थ की विवक्षा है, मुख्य ब्रह्म जगत् का आधार ( अधिष्ठान ) है ही, अतः 'ब्रह्म' पद की मुख्यार्थता में किसी प्रकार की अनुपपत्ति नहीं ॥ १३ ॥ “तद्धेतुव्यपदेशाच्च”—इस सूत्र के द्वारा आनन्दमय-सहित समस्त विकार वर्ग की कारणता ब्रह्म में ही श्रुत है—"इदं सर्वमसृजत, यदिदं किंच" ( तै. उ. २।६ ) । कारणीभूत ब्रह्म अपने विकारभूत आनन्दमय का मुख्यरूप से अवयव नहीं हो सकता । अन्य सूत्र भी "ब्रह्म पुच्छं प्रतिष्ठा”—इस वाक्य में निर्दिष्ट ब्रह्म के ही उपपादक हैं ॥ १४ ॥] । जो सत्यं ज्ञानमनन्तम्'—इस मन्त्रवर्ण में ब्रह्म निर्दिष्ट है, वही ब्रह्म इस ब्राह्मण वाक्य में उपात्त है—'ब्रह्म पुच्छं प्रतिष्ठा' । यदि मन्त्रगत 'ब्रह्म' पद मुख्यार्थक और ब्राह्मणवाक्यगत 'ब्रह्म' पद अवयवपरक माना जाता है, तब मन्त्र और ब्राह्मण का उपाय-उपेयभाव सुरक्षित नहीं रहता, अतः ब्राह्मणगत 'ब्रह्म' पद को भी मुख्यार्थक मानना आवश्यक है ॥ १५ ॥ “नेतरोऽनुपपत्तेः”—इसमें “इतश्चानन्दमय”—इस भाष्य के स्थान पर “इतश्च ब्रह्म पुच्छं प्रतिष्ठा”—ऐसा पढ़ना चाहिए ॥ १६ ॥ “भेदव्यपदेशाच्च”— इस सूत्र के स्थान पर “ब्रह्म पुच्छं प्रतिष्ठा” और “आनन्दमयाधिकारे” इसके स्थान पर “ब्रह्मपुच्छाधिकारे”—ऐसा पढ़ना चाहिए ॥ १७ ॥ “कामाच्च नानुमानापेक्षा” और “अस्मिन्नस्य च तद्योगं शास्ति”— इन दोनों सूत्रों के भाष्य में ही 'आनन्दमय' के स्थान पर
आदित्यपुरुषस्य जीवत्वाशङ्काः ] हिन्दीसहितभामतीसंवलितम् २२३
( ७ अन्तरधिकरणम् । २०–२१ )
अन्तस्तद्धर्मोपदेशात् ॥ २० ॥
इदमाम्नायते—'अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्व एव सुवर्णः' 'तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद' 'इत्यधिदैवतम्' ( छा० १।६।६,७,८ )। अथाध्यात्ममपि 'अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते' (छा० १।७।१,५) इत्यादि। तत्र संशयः—किं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यत्वेन श्रूयते, किंवा नित्य-
भामती
विकारजातस्य सानन्दमयस्य ब्रह्म पुच्छं कारणमुच्येत 'इदं सर्वमसृजत, यदिदं किञ्च' इति श्रुत्या ? नह्यानन्दमयविकारावयवो ब्रह्मविकारः सन् सर्वस्य कारणमुपपद्यते । तस्मादानन्दमयविकारावयवो ब्रह्मेति तदवयवयोग्यानन्दमयो विकार इह नोपास्यत्वेन विवक्षितः, किन्तु स्वप्रधानमिह ब्रह्म पुच्छं ज्ञेयत्वेनेति सिद्धम् ।
पूर्वस्मिन्नधिकरणेऽपास्तसमस्तविशेषब्रह्मप्रतिपत्त्यर्थमुपायतामात्रेण पञ्च कोशा उपाधयः स्थिताः, न तु विवक्षिताः । ब्रह्मैव तु प्रधानं ब्रह्म पुच्छं प्रतिष्ठेति ज्ञेयत्वेनोपक्षिसमिति निर्णीतम् । सम्प्रति तु ब्रह्म विवक्षितोपाधिभेदमुपास्यत्वेनोपक्षिप्यते, न तु विद्याकर्मातिशयलब्धोत्कर्षो जीवात्मादित्यपदवेदनीय इति
भामती-व्याख्या
'ब्रह्म पुच्छं प्रतिष्ठा'—ऐसा पढ़ना चाहिए ॥ १८-१९ ॥ 'तद्धेतुव्यपदेशाच्च' । आनन्दमयरूप विकार का यदि ब्रह्म पुच्छरूप अवयव है, तब आनन्दमय-सहित समस्त विकारवर्ग की हेतुता का जो श्रुतियों में प्रतिपादन है—"इदं सर्वमसृजत, यदिदं किञ्च"। वह कैसे उपपन्न होगा ? क्योंकि आनन्दमयरूप विकार का अवयवभूत ब्रह्म समस्त जगत् का कारण नहीं हो सकता, अतः आनन्दमयात्मक विकार का अवयवरूप ब्रह्म यहाँ उपास्यत्वेन निर्दिष्ट है—ऐसा कहना संगत नहीं, किन्तु 'ब्रह्म पुच्छम्'—यहाँ मुख्यार्थक 'ब्रह्म' पद ज्ञेयभूत मुख्य ब्रह्म का बोधक है ॥ १९ ॥
संगति—विगत अधिकरण में समस्त उपाधियों से रहित निर्विशेष ब्रह्म की प्रतिपत्ति (ज्ञान) प्राप्त करने के लिए उपायभूत अन्नमयादि पाँच कोशों का उपस्थापक वाक्य-समूह प्रस्तुत किया गया, वहाँ कोशरूप उपाधियाँ विवक्षित नहीं, मान्त्रवर्णिक निर्विशेष ब्रह्म ही "ब्रह्म पुच्छं प्रतिष्ठा"—इस वाक्य के द्वारा निर्णीत हुआ, किन्तु इस अधिकरण में विवक्षित उपाधियों से युक्त ब्रह्म उपास्यत्वेन प्रस्तुत किया जाता है। आदित्य पद के द्वारा वह जीव प्रतिपादनीय नहीं माना गया, जिसने अपनी विद्या और धर्म के द्वारा परमोत्कर्ष का लाभ कर लिया हो। [उपासना का यह प्रस्तुतीकरण अपने तक ही सीमित नहीं, अपितु इसका उद्देश्य ब्रह्म-ज्ञान के पावन शिखर पर पहुँचना ही है, कल्पतरु की अधोलोक्ति तथ्यपूर्ण है—
निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः।
ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥ १ ॥
वशीकृते मनस्येषां सगुणब्रह्मशीलनात्।
तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् ॥ २ ॥ ] ।
संशय—"य एषोऽन्तरादित्ये पुरुषो दृश्यते" (छां. १।६।६) इत्यादि वाक्यों में क्या
| २२४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. २० |
|---|
सिद्धः परमेश्वर इति ? किं तावत्प्राप्तम् ? संसारीति । कुतः ? रूपवत्त्वश्रवणात् । आदित्यपुरुषे तावत् ‘हिरण्यश्मश्रुः’ इत्यादि रूपमुदाहृतम् । अक्षिपुरुषेऽपि तदेवातिदेशेन प्राप्यते—‘तस्यैतस्य तदेव रूपं यदमुष्य रूपम्’ इति । न च परमेश्वरस्य रूपवत्त्वं युक्तम्, ‘अशब्दमस्पर्शमरूपमव्ययम्’ (का० १।३।१५) इति श्रुतेः, आधारश्रवणाच्च—‘य एषोऽन्तरादित्ये’, ‘य एषोऽन्तरक्षिणि’ इति । न ह्यनाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत । ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा० ७।२४।१) इति । ‘आकाशवत्सर्वगतश्च नित्यः’ इति च श्रुतौ भवतः । ऐश्वर्यमर्यादाश्रुतेश्च । ‘स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’ (छा० १।६।८) इत्यादित्यपुरुषस्यैश्वर्यमर्यादा । ‘स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च’ (छा० १।७।६) इत्यक्षिपुरुषस्य । न च परमेश्व-
भामती
निर्णायते । तत्र—
मर्यादाधाररूपाणि संसारिणि परे न तु ।
तस्मादुपास्यः संसारी कर्मानधिकृतो रविः ।
हिरण्यश्मश्रुरित्यादिरूपश्रवणात्, य एषोऽन्तरादित्ये य एषोऽन्तरक्षिणीति चाधारभेदश्रवणाद् ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यैश्वर्यमर्यादाश्रुतेश्च, संसार्येत्र कार्यकारणसङ्घातात्मको रूपा तिसम्पन्न इहोपास्यः, न तु परमात्मा ‘अशब्दमस्पर्शम्’ इत्यादिश्रुतिभिः ‘अपास्तसमस्तरूपश्च स्वे महिम्नि’ इत्यादिश्रुतिभिरपाकृताधारश्च ‘एष सर्वेश्वरः’ इत्यादिश्रुतिभिरधिगतनिर्मर्यादैश्वर्य्यश्च शक्य उपास्यःत्वेनेह प्रतिपत्तुम् । सर्वपाप्मविरहश्चादित्यपुरुषे सम्भवति, शास्त्रस्य मनुष्याधिकारतया देवतायाः पुण्यपापयोरनधिकारात् । रूपादिमत्त्वान्यथानुपपत्त्या च कार्यकारणात्मके जीवे उपास्यत्वेन विवक्षिते
भामती-व्याख्या
जीव उपास्यत्वेन श्रुत है ? अथवा नित्य सिद्ध परमेश्वर ?
पूर्वपक्ष—यहाँ आदित्यपुरुष की उपासना प्रस्तुत की जाती है—
मर्यादाधाररूपाणि संसारिणि परे न तु ।
तस्मादुपास्यः संसारी कर्मानधिकृतो रविः ॥
श्रुति-प्रतिपादित मर्यादा, आधार और रूपात्मक उपाधियाँ जीव में ही सम्भावित हैं, परमेश्वर में नहीं, अतः जीवविशेष ही उपास्यत्वेन उपस्थित किया जाता है—‘हिरण्यश्मश्रुर्हिरण्यकेशः’ इत्यादि स्वर्णिम मूँछ, दाढ़ी और केशवाला भव्यरूप वर्णित है । “य एषोऽन्तरादित्ये”, “य एषोऽन्तरक्षिणि” इत्यादि आधार-विशेष कहा गया है । “ये चामुष्मात् पराञ्चो लोकास्तेषां चेष्टे देवकामानां च” (छां. १।६।८)—इस प्रकार ऐश्वर्य की मर्यादा अवधारित है कि आदित्यलोक के ऊर्ध्वस्थ लोकों का ही शासन करता है । कथित रूप, आधार और अधिकार का समन्वय किसी संसारी जीव में हो सकता है, अतः कार्य (शरीर) और करण (इन्द्रियादि) से युक्त जीव ही यहाँ उपास्यत्वेन निर्दिष्ट है, परमेश्वर नहीं, क्योंकि वह “अशब्दमस्पर्शम्”—इत्यादि श्रुतियों के द्वारा समस्त उपाधियों से रहित और अपनी ही महिमा में अवस्थित कहा गया है—“स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्न” (छां. ७।२४।१) । उसका कोई अन्य आधार नहीं और न उसके ऐश्वर्य की कोई सीमा—“एष सर्वेश्वरः” (बृह. उ. ४।४।२२) । आदित्य-पुरुष में समस्त पापों का अभाव भी है, क्योंकि पुण्य-पापात्मक कर्मों के अनुष्ठान में त्रैवर्णिक पुरुष को छोड़ कर अन्य किसी देवतादि का अधिकार नहीं माना जाता, अतः वह पाप-युक्त क्यों होगा ? देवताओं द्वारा कर्म-सम्पादन का कहीं-कहीं