भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 246, कुल 639 में से
संदर्भ में पढ़ें| २१८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. २२ |
|---|
गमयति । यदुक्तं हिरण्यश्मश्रुत्वादिरूपश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः—स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् । 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि' इति स्मरणात् । अपि च यत्र निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्र शास्त्रम्—'अशब्दमस्पर्शमरूपमव्ययम्' इत्यादि । सर्वकारणत्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते—'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः' ( छा० ३।१४।२ ) इत्यादिना । तथा हिरण्यश्मश्रुत्वादिनिर्देशोऽपि भविष्यति । यदप्याधार-श्रवणान्न परमेश्वर इति, अत्रोच्यते—स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपास-नार्थो भविष्यति, सर्वगतत्वाद् ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः । ऐश्वर्यमर्यादा-श्रवणमप्यध्यात्ममाधिदैवतविभागापेक्षमुपासनार्थमेव । तस्मात्परमेश्वर एवाक्ष्यादित्य-योरन्तरुपदिश्यते ॥ २० ॥
भेदव्यपदेशाच्चान्यः ॥ २१ ॥
अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्योऽन्य ईश्वरोऽन्तर्यामी, 'य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' ( बृ० ३।७।९ ) इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हि आदित्यादन्तरो यमादित्यो न वेद' इति वेदितुरादित्याद्विज्ञानात्मनोऽन्योऽन्तर्यामी स्पष्टं निर्दिश्यते, स एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति, श्रुतिसामान्यात् । तस्मात् परमेश्वर एवेहोपदिश्यत इति सिद्धम् ॥ २१ ॥
( ८ आकाशाधिकरणम् । सू० २२ )
आकाशस्तल्लिङ्गात् ॥ २२ ॥
इदमामनन्ति—'अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा
भामती
मस्तित्वमर्थः । ॐ लोककामेशितृत्वमपि इति ॐ । अतोऽत्यन्तपारार्थ्यन्यायेन निरङ्कुशमैश्वर्य-मित्यर्थः ॥ २०-२१ ॥
पूर्वस्मिन्नधिकरणे ब्रह्मणोऽसाधारणधर्मदर्शनाद्विवक्षितोपाधिनोऽस्येवोपासना, न त्वादित्यशरीराभि-मानिनो जीवात्मन इति निरूपितम् । इदानीं त्वसाधारणधर्मदर्शनात् तदेवोद्गीथे सम्पाद्योपास्यत्वेनोपदि-
भामती-व्याख्या
और देवताओं की मनःकामना-पूर्ति एक मात्र परमेश्वर का कार्य है। समस्त जड़ और चेतन-वर्ग अत्यन्त परार्थ [ पराधीन अर्थात् परमेश्वर के अधीन ] है कि उसकी इच्छा के बिना एक पत्ता भी नहीं हिल सकता—इस प्रकार अत्यन्त परार्थता के द्वारा परमेश्वर में निरङ्कुश शासकत्व सिद्ध होता है, उसके माध्यम से वहाँ परमेश्वर ही प्रधानतया प्रतिपाद्य सिद्ध होता है ॥ २०-२१ ॥
संगति—पूर्व अधिकरण में ब्रह्म के जिन सर्वात्मत्वादि असाधारण धर्मों के अनुरोध पर आदित्यादि उपाधियों के माध्यम से ब्रह्म की ही उपासना का निर्णय दिया गया, उन्हीं असाधारण धर्मों के अनुरोध पर इस अधिकरण में ब्रह्म की सम्पदुपासना का निश्चय किया जाता है।
संशय—"अस्य लोकस्य का गतिः ? आकाश इति होवाच । सर्वाणि ह वा इमानि