भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 260, कुल 639 में से
संदर्भ में पढ़ें२४२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. २४
किं तावत्प्राप्तम् ? आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इति । कुतः ? प्रसिद्धेः । तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ । चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यते । तस्या एवानुग्राहकमादित्यादिकं ज्योतिः । तथा 'दीप्यते' इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा । नहि रूपादिहीनं ब्रह्म 'दीप्यते' इति मुख्यां श्रुतिमर्हति । द्युमर्यादत्वश्रुतेश्च । नहि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता, कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । 'परो दिवो ज्योतिः' इति च ब्राह्मणम् ।
ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद् द्युमर्यादावत्त्वमसमञ्जसम् । अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम् । न; अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति । इदमेव प्रयोजनं यदुपास्यत्वमिति चेत्, न; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात् । 'तासां त्रिवृतं त्रिवृतमेकैकां करवाणि' (छा० ६।३।३) इति चाविशेषश्रुतेः । नचात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम् । अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम् । ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरिति । नैष दोषः; सर्वत्रापि गम्यमानस्य ज्योतिषः 'परो दिवः' इत्युपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते । नतु निष्प्रदेशस्यापि ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । 'सर्वतःपृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु' इति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम् । 'इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः' (छा० ३।१३।७) इति च कौक्षेये ज्योतिषि परं ज्योतििरध्यस्यमानं दृश्यते । सारूप्यनिमित्ताश्चाध्यासा भवन्ति । यथा—'तस्य भूरिति शिर एकं शिर एकमेतदक्षरम्' (बृ० ५।५।३) इति । कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम् ; 'तस्यैषा दृष्टिः' (छा० ३।१३।७) 'तस्यैषा श्रुतिः' इति चौष्ण्यघोषविशिष्ट-
भामती
मुख्यग्रहणविषये मुख्यग्रहणस्य—
औत्सर्गिकत्वाद्वाक्यस्थतेजोलिङ्गोपलम्भनात् ।
वाक्यान्तरेणानियमादर्थाप्रतिसन्धितः ॥
बलवद्बाधकतोपनिपातेन खल्वाकाशप्राणशब्दौ मुख्यार्थात् प्रच्याव्यान्यत्र प्रतिष्ठापितौ । तदिह ज्योतिष्पदस्य मुख्यतेजोवचनत्वे बाधकस्तावत् स्ववाक्यशेषो नास्ति । प्रत्युत तेजोलिङ्गमेव दीप्यत इति ।
भामती-व्याख्या
पूर्वपक्ष—यहाँ 'ज्योतिः' शब्द गौणी वृत्ति से ब्रह्म का उपस्थापक हो सकता है, किन्तु "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः" (परिभाषेन्दु. पृ ६८) इस न्याय के अनुसार शब्द की मुख्य (अभिधा) वृत्ति के द्वारा उपस्थापित पदार्थ का पहले ग्रहण किया जाता है—
औत्सर्गिकत्वाद् वाक्यस्थतेजोलिङ्गोपलम्भनात् ।
वाक्यान्तरेणानियमाद् अर्थाप्रतिसन्धितः ॥
विगत अधिकरणों में प्रबल बाधक के उपस्थित हो जाने के कारण 'आकाश' और 'प्राण'—इन दोनों शब्दों के द्वारा उनके मुख्यार्थ का ग्रहण न कर गौणार्थ का उपस्थापन किया गया, किन्तु यहाँ 'ज्योतिः' पद के द्वारा तेजोद्रव्यरूप मुख्यार्थ की उपस्थिति कराने में कोई बाधक वाक्य-शेषादि नहीं, प्रत्युत तेजोद्रव्य का लिङ्ग (गमक) 'दीप्यते' पद से प्रस्तुत किया गया है, “इदं वाव तद् यदिदमस्मिन् पुरुषे ज्योतिः” (छां. ३।१३।७) इस श्रुति के द्वारा कुक्षिस्थ भौतिक ज्योति में उक्त ज्योति का सारूप्यमूलक अध्यास भी यह सिद्ध करता है कि कथित ज्योति तेजोद्रव्य ही है, ब्रह्मज्योति नहीं। दूसरी बात यह भी है कि "तदेतद्