भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 272, कुल 639 में से
संदर्भ में पढ़ें२५४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. २६
च ब्रह्मानाश्रयणे नेयमृक् संबध्येत—'तावानस्य महिमा' इति। अनया हि ऋचा स्वर- सेन ब्रह्मैवाभिधीयते, 'पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' (छा० ३।१२।५ ) इति सर्वात्मत्वोपपत्तेः । पुरुषसूक्तेऽपीयमृङ्ग्रहपरतयैव समाम्नायते । स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति—'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' (गी० १०।४२ ) इति, 'यद्वै तद् ब्रह्म' ( छा० ३।१२।७ ) इति च निर्देशः । एवं सति मुख्यार्थ उपपद्यते । 'पञ्च ब्रह्मपुरुषाः' (छा० ३।१३।६ ) इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां विवक्षितायां संभवति । तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम् । तदेव ब्रह्म ज्योति- र्वाक्ये द्युसंबन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ २६ ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ २७ ॥
यदप्येतदुक्तं पूर्वत्र—'त्रिपादस्यामृतं दिवि' इति सप्तम्या द्यौराधारत्वेनोपदिष्टा; इह पुनः 'अथ यदतः परो दिवः' इति पञ्चम्या मर्यादात्वेन, तस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीति, तत्परिहर्तव्यम् । अत्रोच्यते—नायं दोषः; उभयस्मिन्नप्य- विरोधात् । उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरुध्यते । यथा लोके वृक्षाग्रसंबद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते, वृक्षाग्रे श्येनो
भामती
श्रुतेः । अथ योऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषो व्यानः । तत्सम्बद्धं श्रोत्रं तच्चन्द्रमाः । 'श्रोत्रेण सृष्टा विशश्चन्द्रमाश्च' इति श्रुतेः । अथ योऽस्य प्रत्यङ्मुखः सुषिस्तत्स्थो वायुविशेषोऽपानः स च वाक्, तत्सम्बन्धात्, वाक् चाग्निरिति । 'वाग्वा अग्नि' इति श्रुतेः । अथ योऽस्योदङ्मुखः सुषिस्तत्स्थो वायु- विशेषः स समानः, तत्सम्बद्धं मनः, तत्पर्जन्यो देवता । अथ योऽस्योर्ध्वः सुषिस्तत्स्थो वायुविशेषः स उदानः । पादत लादारभ्योर्ध्वं नयनात् स वायुस्तदाधारश्चाकाशो देवता । ते वा एते पञ्च सुषयः । तत्सम्बद्धाः पञ्चहार्दस्य ब्रह्मणः पुरुषा न गायत्र्यामक्षरसन्निवेशमात्रे संभवन्ति, किन्तु ब्रह्मण्येवेति ॥२६॥ ॐ यथा लोके इति ॐ । यदाधारत्वं मुख्यं दिवस्तदा कथञ्चिन्मर्यादा व्याख्येया । यो हि श्येनो
भामती-व्याख्या
अनिति'—इस व्युत्पत्ति के आधार पर मरण-काल में स्वर्गलोक की ओर संचरण करता है । वही ( प्राण ) चक्षु है, वही आदित्य कहा गया है—"आदित्यो ह वै बाह्यः प्राणः" ( प्रश्नो. ३।८ ) । (२) इस हृदय के दक्षिण-द्वार पर व्यानसंज्ञक वायु है, वही श्रोत्र है, वही चन्द्रमा है—'श्रोत्रेण सृष्टा दिशश्चन्द्रमाश्च' (ऐत. १।७।५ ) । (३) इस हृदय के पश्चिम द्वार पर अपान नाम की जो वायु है, वही वाक् है, वही अग्नि है—"वाग्वा अग्निः" ( ऐत. १।४ ) । (४) इस हृदय के उत्तर-द्वार पर समान नाम की जो वायु है, वही मन है, वही पर्जन्य ( वृष्टि ) है—"मनसा सृष्टा आपश्च वरुणश्च" ( ऐत. १।७।६ ) । (५) इस हृदय के ऊर्ध्वमुख द्वार पर जो वायु है, वही उदान कहलाता है, क्योंकि वह पाद-तल से ऊपर की दिशा में उत्क्रमण करता है । वही ( उदान ) आकाश है । ये पाँच द्वार हैं, इनके पाचों द्वार-पालों को ब्रह्म-पुरुष वैसे ही कहते हैं, जैसे राज-द्वार के द्वार-पालों को राज-पुरुष । यह सब कुछ उपपादन केवल अक्षर-सन्निवेशरूप गायत्री में उपपन्न न होकर ब्रह्म में ही समञ्जस होता है, अतः यहाँ 'गायत्री' शब्द ब्रह्मपरक ही सिद्ध होता है ॥ २६ ॥
पूर्वपक्षी ने जो कहा था कि "त्रिपादस्यामृतं दिवि" (छां ३।१२।१) यहाँ पर 'द्यु' शब्द सप्तम्यन्त और "यदतः परो दिवः" (छां. ३।१३।७) इस वाक्य में 'द्यु' शब्द पञ्चम्यन्त है, अतः उपदेश-भेद होने के कारण दोनों की एकता प्रत्यभिज्ञात नहीं । उसका परिहार यह किया जाता है कि "विवक्षातः कारकाणि भवन्ति"—इस न्याय के अनुसार एक ही अर्थ में