भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 277, कुल 639 में से
संदर्भ में पढ़ेंप्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २५९
त्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' ( श्वेता० ३।८ ) इत्यादिश्रुतिभ्यः । तथा 'स यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्याया' ( कौ० ३।१ ) इत्यादि च ब्रह्मपरिग्रहे घटते । ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः - 'क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' ( मु० २।२।८ ) इत्याद्यासु श्रुतिषु । प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते, नहाचेतनस्य वायोः प्रज्ञात्मत्वं संभवति । तथोपसंहारेऽपि - 'आनन्दोऽजरोऽमृतः' इत्यानन्दत्वादीनि न ब्रह्मणोऽन्यत्र सम्यक् संभवन्ति । 'स न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषते' इति, 'एष लोकाधिपतिरेष लोकपाल एष लोकेशः' ( कौ० ३।८ ) इति च । सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते न मुख्ये प्राणे । तस्मात्प्राणो ब्रह्म ॥ २८ ॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥ २९ ॥
यदुक्तं - प्राणो ब्रह्मेति, तदाक्षिप्यते । न परं ब्रह्म प्राणशब्दम् । कस्मात् ? वक्तुरात्मोपदेशात् । वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे - 'मामेव विजानीहि' इत्युपक्रम्य 'प्राणोऽस्मि प्रज्ञात्मा' इत्यहंकारवादेन । स एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् ? नहि ब्रह्मणो वक्तृत्वं संभवति, 'अवागमनः' ( बृह० ३।८।८ ) इत्यादिश्रुतिभ्यः । तथा विग्रहसंबन्धिभिरेव ब्रह्मण्यसंभवद्भिर्धर्मैरात्मानं तुष्टाव-'त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीन्छालावृकेभ्यः प्रायच्छम्' इत्येवमादिभिः । प्राणत्वं चेन्द्रस्य बलवत्त्वादुपपद्यते । 'प्राणो वै बलम्' इति हि विज्ञायते । बलस्य चेन्द्रो देवता प्रसिद्धा । 'या च काचिद्वलप्रकृतिरिन्द्रकर्मैव तत्' इति हि वदन्ति प्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः संभवति । अप्रतिहतज्ञाना देवता इति हि वदन्ति । निश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासंभवं तद्विषयाण्येव योजयितव्यानि । तस्माद्वक्तुरिन्द्रस्यात्मोपदेशान्न प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते - 'अध्यात्मसंबन्धभूमा ह्यस्मिन्' इति । अध्यात्मसंबन्धः
भामती
पतिरुपांशु यष्टव्य इत्यादयो न पृथग्विधयः किन्तुर्थवादा इति निर्णीतं, तथेहापि मामेव विजानीहीत्युपक्रम्य प्राणोऽस्मि प्रज्ञात्मेत्युक्त्वान्ते स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृत इत्युपसंहाराद् ब्रह्मण्येक-
भामती-व्याख्या
मन्तरा यजति, विष्णुरुपांशु यष्टव्योऽजामित्वाय, प्रजापतिरुपांशु यष्टव्योऽजामित्वाय, अग्नीषोमावुपांशु यष्टव्यावजामित्वाय" (तै. सं. २।६।६) । 'अन्वञ्चौ' का अर्थ है—निरन्तर (अव्यवहित) क्रियमाण । आग्नेय और अग्नीषोमीय—इन दोनों यागों में पुरोडाश द्रव्य है, अतः दोनों कर्मों का निरन्तर ( लगातार ) अनुष्ठान करने पर अजामित्व ( आलस्य ) उत्पन्न हो सकता था, अतः इन दोनों कर्मों के मध्य में घृतद्रव्यक उपांशुयाज नाम का कर्म किया जाता है । वहां सन्देह किया गया है कि विष्णुवादि-घटित तीनों वाक्य तीन पृथक्-पृथक् कर्मों के विधायक हैं ? अथवा "उपांशुयाजमन्तरा यजति"—यह वाक्य ही केवल एक कर्म का विधायक है और उक्त तीनों वाक्य उसी कर्म के अनुवादक हैं ? वहाँ ] निर्णय दिया गया है कि उपांशुयाज-वाक्य में जिस 'जामिता' दोष का उपक्रम किया गया है, उसी का अन्त में उपसंहार किया गया, इस प्रकार की एकवाक्यता के आधार पर यही स्थिर होता है कि