भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 278, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 278
२६०ब्रह्मसूत्रशाङ्करभाष्यम्[अ. १ पा. १ सू. ३०

प्रत्यगात्मसंबन्धः, तस्य भूमा बाहुल्यम् , अस्मिन्नध्याये उपलभ्यते । 'यावद्धयस्मिन् शरीरे प्राणो वसति तावदायूः' इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोप-संहारयोः स्वातन्त्र्यं दर्शयति, न देवताविशेषस्य पराचीनस्य । तथाऽस्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति । तथा 'प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' (कौ० ३।३) इति । 'न वाचं विजिज्ञासीत वक्तारं विद्यात्' इति चोपक्रम्य 'तद्यथा रथस्यारेषु नेरिमर्र्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञा-मात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः' इति विषयेन्द्रियव्यवहारानभिभूतं प्रत्यगात्मानमेवोपसंहरति । 'स म आत्मेति विद्यात्' इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुर्न पराचीनपरिग्रहे । 'अयमात्मा ब्रह्म सर्वानुभूः' (बृह० २।५।१९) इति च श्रुत्यन्तरम् । तस्मादध्यात्मसंबन्धबाहुल्याद् ब्रह्मोपदेश एवायं न देवतात्मोपदेशः ॥ २९ ॥

कथं तर्हि वक्तुरात्मोपदेशः—

शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ ३० ॥

इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेनाहमेव परं ब्रह्मेत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन्नुपदिशति स्म—'मामेव विजानीहि' इति । यथा 'तद्धैतत्पश्यन्नृषिर्वा-मदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च' इति, तद्वत् । 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्' (बृ० १।४।१०) इति श्रुतेः । यत्पुनरुक्तं 'मामेव विजानीहि' इत्युक्त्वा विग्रह-धर्मैरिन्द्र आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम् । अत्रोच्यते—न तावत् त्वाष्ट्रवधादीनां विज्ञानेन्द्रस्तुत्यर्थत्वेनोपन्यासः, यस्मादेवंकर्माहं तस्मान्मां विजा-नीहीति । कथं तर्हि ? विज्ञानस्तुत्यर्थत्वेन यत्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसंदधाति—'तस्य मे तत्र लोम च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयते' इत्यादिना । एतदुक्तं भवति—यस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते, स योऽन्योऽपि मां वेद न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति । विज्ञेयं तु ब्रह्मैव 'प्राणोऽस्मि प्रज्ञात्मा' इति वक्ष्यमाणम् । तस्माद् ब्रह्मवाक्यमेतत् ॥ ३० ॥

भामती

वाक्यत्वावगतौ सत्यां जीवमुख्यप्राणलिङ्गे अपि तदनुगुणतया नेतव्ये, अन्यथा वाक्यभेदप्रसङ्गात् । यत् पुनर्भेददर्शनं 'सह ह्येतौ' इति तज्ज्ञानक्रियाशक्तिभेदेन बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्निर्देशः प्रत्य-गात्मानमेवोपलक्षयितुम् । अत एवोपलक्ष्यस्य प्रत्यगात्मस्वरूपस्याभेदमपलक्षणभेदेनोपलक्षयति ॐ प्राण एव प्रज्ञात्मा इति ॐ :

भामती-व्याख्या

"प्रजापतिरुपांशु यष्टव्यः"—इत्यादि तीनों वाक्य पृथक् कर्म के विधायक नहीं, अपितु अर्थवादमात्र हैं। वैसे ही प्रकृत में "मामेव विजानीहि"—इस प्रकार का उपक्रम करके अन्त में कहा गया है—"स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः ।" इससे पूरे वाक्य-समूह की ब्रह्म में एकवाक्यता अवगत होती है, अतः वहाँ उपलभ्यमान जीव और प्राणवायु के लिङ्गों की ब्रह्मपरक ही व्याख्या करनी चाहिए, अन्यथा वाक्य-भेद प्रसक्त होता है। "सह ह्येतौ वसतः"—इत्यादि वाक्यों से जो भेद प्रतीत होता है, उससे प्रत्यगात्मा की ही उपस्थिति कराई जाती है, क्योंकि प्रज्ञा (बुद्धि) और प्राण दोनों प्रत्यगात्मा की उपाधि हैं। अत एव उनसे उपलक्षित प्रत्यगात्मा का अभेद उपलक्षणों के भेद-निर्देश से सूचित किया जाता