भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 279, कुल 639 में से
संदर्भ में पढ़ें[ प्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६१
जीवमुख्यप्राणलिङ्गानेति चेन्नोपासात्रैविध्या-
दाश्रितत्वादिह तद्योगात् ॥ ३१ ॥
यद्यप्यध्यात्मसंबन्धभूमादर्शनान्न पराचीनस्य देवतात्मन उपदेशः, तथापि न ब्रह्मवाक्यं भवितुमर्हति । कुतः ? जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च । जीवस्य तावदस्मिन् वाक्ये विस्पष्टं लिङ्गमुपलभ्यते 'न वाचं विजिज्ञासीत वक्तारं विद्याद्' इत्यादि । अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकारणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते । तथा मुख्यप्राणलिङ्गमपि—'अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति' इति । शरीरधारणं च मुख्यप्राणस्य धर्मः, प्राणसंवादे वागादीन्प्राणान्प्रकृत्य—'तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्द्वाणमवष्टभ्य विधारयामि' ( प्र० २।३ ) इति श्रवणात् । ये तु 'इमं शरीरं परिगृह्य' इति पठन्ति, तेषामिमं जीवमिन्द्रियग्रामं वा परिगृह्य' शरीरमुत्थापयतीति व्याख्येयम् । प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम् । मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव । जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः, स्वरूपेण च भेदनिर्देश इत्युभयथापि निर्देश उपपद्यते—'यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्येतावस्मिन् शरीरे वसतः सहोत्क्रामतः' इति । ब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत ? तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत्—नंतदेवम्;
भामती
तस्मादनन्यथासिद्धब्रह्मलिङ्गानुसारतः । एकवाक्यबलात्प्राणजीवलिङ्गोपपादनम् ॥ इति संग्रहः ॥ २८-३० ॥
'न ब्रह्मवाक्यं भवितुमहति' इति । नैष सम्भवां ब्रह्मवाक्यमेव भवितुमहंतीति, किन्तु यथायोगं किञ्चिदत्र जीववाक्यं, किञ्चिन्मुख्यप्राणवाक्यं, किञ्चिद्ब्रह्मवाक्यमित्यर्थः । ॐ प्रज्ञासाधनप्राणान्तराश्रयत्वादिति ॐ । प्राणान्तराणीन्द्रियाणि, तानि हि मुख्ये प्राणे प्रतिष्ठितानि । जीवमुख्यप्राणयोरन्यतर इत्युपक्रममात्रम् । ॐ उभौ इति ॐ । पूर्वपक्षतत्त्वम् । ब्रह्म तु ध्रुवम् । ॐ न ब्रह्म इति ॐ । न ब्रह्म-
भामती-व्याख्या
है—"प्राण एव प्रज्ञात्मा"। अतः यहाँ का निष्कर्ष यह है कि—
तस्मादनन्यथासिद्धब्रह्मलिङ्गानुसारतः ।
एकवाक्यबलात् प्राणजीवलिङ्गोपपादनम् ॥
ब्रह्म के अव्यभिचरित आनन्दत्वादि लिङ्गों के अनुसार एकवाक्यता अवगत होती है, अतः प्राणवायु और जीव के प्रतीयमान लिङ्गों का ब्रह्म में ही सामञ्जस्य कर लेना चाहिए ॥ २८-३० ॥
भाष्यकार ने जो कहा है कि "न ब्रह्मवाक्यं भवितुमर्हति" उसका आशय यह है कि उक्त वाक्य नियमतः ब्रह्मपरक नहीं हो सकता, किन्तु कोई वाक्य जीवपरक, कोई मुख्य प्राणपरक और कोई ब्रह्मपरक भी हो सकता है, क्योंकि जीव और मुख्य प्राण का लिङ्ग भी विद्यमान है [ "वक्तारं विद्यात्" ( कौ. उ. ३।८ ) यहाँ कार्य-करणाध्यक्षरूप जीव को विज्ञेय बताया है। "प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति" ( कौ. उ. ३।३ ) यहाँ शरीरधारण मुख्य प्राण का व्यापार कथित है । मुख्य प्राण ही प्रज्ञा के साधनीभूत प्राणान्तर ( इन्द्रियों ) का आश्रय ( प्रतिष्ठापक ) माना जाता है, अतः वह प्रज्ञात्मा है। भाष्यकार ने पूर्व पक्ष का उपसंहार करते हुए जो कहा है—"तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयाताम्, न ब्रह्म" वहाँ अन्यतरत्व का केवल उपक्रम किया गया है, अर्थात् अन्यतर