भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 280, कुल 639 में से
संदर्भ में पढ़ें२६२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ३१
उपासात्रैविध्यात् । एवं सति त्रिविधमुपासनं प्रसज्येत—जीवोपासनं, मुख्यप्राणो- पासनं ब्रह्मोपासनं चेति। न चैतदेकस्मिन् वाक्येऽभ्युपगन्तुं युक्तम्, उपक्रमोपसंहारा- भ्यां हि वाक्यैकत्वमवगम्यते। 'मामेव विजानीहि' इत्युपक्रम्य 'प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व' इत्युक्त्वा, अन्ते 'स एव प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः' इत्येकरूपावुपक्रमोपसंहारौ दृश्येते । तत्रार्थैकत्वं युक्तमाश्रयितुम् । न च ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम्, दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणोऽन्यत्रापर्णानुपपत्तेः । आश्रितत्वाच्चान्यत्रापि ब्रह्मलिङ्गवशात् प्राणशब्दस्य ब्रह्मणि प्रवृत्तः । इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगाद् ब्रह्मोपदेश एवायमिति गम्यते । यत्तु मुख्यप्राणलिङ्गं दर्शितम् - 'इदं शरीरं परिगृह्योत्थापयति' इति - तदसत्, प्राणव्यापारस्यापि परमात्Parse error: Invalid macro definition.त्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात्, 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥' (काठ० २।५।५ ) इति श्रुतेः । यदपि 'न वाचं विजिज्ञासीत वक्तारं विद्याद्' इत्यादि जीव लिङ्गं दर्शितं तदपि न ब्रह्मपक्षं निवारयति। नहि जीवो नामात्यन्तभिन्नो ब्रह्मणः, 'तत्त्वमसि', 'अहं ब्रह्मास्मि' इत्यादिश्रुतिभ्यः । बुद्धयाद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सञ्जीवः कर्ता भोक्ता चेत्युच्यते । तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुं 'न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादिन प्रत्यगात्माभिमुखीकरणार्थं उपदेशो न विरुध्यते। 'यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥' ( के० १।४) इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति । यत्पुनरेतदुक्तम्- 'सह ह्येतावस्मिञ्छरीरे वसन्तः सहोत्क्रामतः' इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति नैष दोषः; ज्ञानक्रियाशक्तिद्वयाश्रययो- र्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोपपत्तेः उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मेत्येकीकरणमविरुद्धम् ।
भामती वेत्यर्थः । ॐ दशानां भूतमात्राणाम् इति ॐ । पञ्च शब्दादयः पञ्च पृथिव्यादय इति दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः । तदेवं स्वमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे ॐ अथवा इति ॐ । पूर्वं प्राणस्यैकमुपासनमपरं जीवस्यापरं ब्रह्मण इत्युपासनत्रैविध्येन वाक्यभेदप्रसङ्गो दूषणमुक्तम्, इह तु ब्रह्मण एकस्यैवोपासात्रयविशिष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्ति- कृताम् । तदेतदालोचनीयं, कथं न वाक्यभेद इति युक्तं सोमेन यजेतेत्यादौ सोमादिगुणविशिष्टयागविधानं
भामती-व्याख्या को ही उपासना की जाय - ऐसा स्थिर नहीं । 'उभौ' - यह निर्देश जीव और मुख्य प्राण की प्राप्तिमात्र का बोधक है, ब्रह्म का निषेधक नहीं, क्योंकि ब्रह्म की उपासना तो ध्रुवभावी है । 'न ब्रह्म' इसका अर्थ अवधारणपूर्वक है- 'न ब्रह्मव' । फलतः पूर्व पक्षी की ओर से 'जीव', 'मुख्य प्राण' और 'ब्रह्म' - इन तीनों की उपासना का पर्यवसान किया है, तभी सिद्धान्त में त्रिविध उपासना को असम्भव बताया गया है। भाष्यकार ने जो ब्रह्म की असाधारण क्षमता बताते हुए कहा है - "दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणोऽन्यत्रार्पणानुपपत्तेः" । वहाँ शब्दादि पाँच और पृथिव्यादि पाँच - ये मिला कर दश भूतमात्राएँ हैं। पाँच ज्ञानेन्द्रिय और और उनके कार्यभूत पाँच ज्ञान' - ये दश प्रज्ञामात्राएँ हैं। ३१ वें सूत्र की स्वाभिमत व्याख्या करने के अनन्तर भाष्यकार प्राचीन आचार्य वृत्तिकार के मतानुसार व्याख्या प्रस्तुत करते हैं- 'अथवा 'नोपासात्रैविध्यादाश्रितत्त्वादिह