भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 281, कुल 639 में से
संदर्भ में पढ़ेंप्राणस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २६३
अथवा—‘नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्’ इत्यस्यायमन्योऽर्थः—न ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते । कथम् ? उपासात्रैविध्यात् । त्रिविधमिह ब्रह्मोपासनं विवक्षितम्—प्राणधर्मेण, प्रज्ञाधर्मेण, स्वधर्मेण च । तत्र ‘आयुर्मृतमुपास्स्वायुः प्राणः’ इति, ‘इदं शरीरं परिगृह्योत्थापयति’ इति, ‘तस्मादेतदेवोक्थमुपासीत’ इति च प्राणधर्मः । ‘अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामः’ इत्युपक्रम्य ‘वागेवास्या एकमङ्गमदुदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति’ इत्यादिः प्रज्ञाधर्मः । ‘ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् । यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः । यद्धि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः । नह्यन्यतरतो रूपं किंचन सिद्धयेत् । नो एतन्नाना । ‘तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा’ इत्यादिर्ब्रह्मधर्मः । तस्माद् ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् । अन्यत्रापि ‘मनोमयः प्राणशरीरः’ ( छा० ३।१४।२ ) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम् । इहापि तद्युज्यते, वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च । तस्माद् ब्रह्मवाक्यमेतदिति सिद्धम् ॥ ३१ ॥
इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीशंकरभगवत्पादकृतौ प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥
भामती
तद्गुणविशिष्टस्यापूर्वस्य कर्मणोऽप्राप्तस्य विधिविषयत्वात् । इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति, अभावार्थत्वात् । भावार्थस्य विधिविषयत्वनियमाद्, वाक्यान्तरेभ्यश्च ब्रह्मावगतेः प्राप्तत्वात् तदनूद्याप्राप्तोपासाभावार्थो विधेयस्तस्य च भेदाद्विद्यावृत्तिलक्षणो वाक्यभेदोऽतिस्फुट इति भाष्यकृता
भामती-व्याख्या
तद्योगाद्’—इत्यस्यायमन्योऽर्थः” । भाष्यकार ने अपनी व्याख्या के अनुसार पूर्वपक्ष में वाक्य-भेद-प्रसङ्गरूप दोष दिखाया अर्थात् ( १ ) मुख्य प्राण की उपासना, ( २ ) जीव की उपासना और ( ३ ) ब्रह्म की उपासना—इन तीन उपासनाओं की प्रसक्ति के द्वारा वाक्यभेदापत्ति होती है, किन्तु वृत्तिकार की धारणा यह है कि त्रिविध उपासना से युक्त एक ही ब्रह्म का विधान हो जाने से वाक्य-भेद प्रसक्त नहीं होता । अतः यहाँ वाक्य-भेद क्यों नहीं होता—यह विचारणीय है । ‘‘सोमेन यजेत’’ ( तै. सं. ३।२।२ ) इत्यादि स्थलों पर सोमादि द्रव्य याग के अङ्ग ( गुण ) हैं, अतः अनेक गुणों से युक्त एक प्रधान ( याग ) का विधान वाक्यभेद के बिना ही सम्पन्न हो जाता है । [ महर्षि जैमिनि कहते हैं—‘‘तद्गुणास्तु विधीयेरन्नविभागाद् विधानार्थे न चेदन्येन शिष्टाः’’ ( जै. सू. १।४।९ ) । यदि अन्य किसी वाक्य के द्वारा गुण और कर्म शिष्ट ( उपदिष्ट या विहित ) नहीं, तब उन गुणों से युक्त कर्म का विधान एक ही वाक्य से हो जाता है, वाक्य-भेद प्रसक्त नहीं होता, वार्तिककार भी कहते हैं
न चेदन्येन शिष्टाः स्युर्यागाः शब्देन केनचित् ।
ते गुणाश्चोपदिश्येरन् विधिना ह्यविभागतः ॥ ( तं. वा. पृ. ३४० )
यागादि कर्म कृति-साध्य होने के कारण विधेय हो जाते हैं, किन्तु ] ब्रह्म वैसा नहीं, अपितु सिद्ध पदार्थ है, भावार्थ ( धात्वर्थ ) स्वरूप न होने से विधेय क्योंकर होगा ? भावार्थ ही नियमतः विधि का विषय माना जाता है—‘‘भावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, एष