भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 291, कुल 639 में से
संदर्भ में पढ़ेंमनोमयस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २७३
मनुपपत्तिरुच्यते । तुशब्दोऽवधारणार्थः । ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिशुणं, न तु शारीरो जीवो मनोमयत्त्वादिगुणः, यत्कारणं 'सत्यसंकल्पः' आकाशात्मा, अवाकी, अनादरः, ज्यायान्पृथिव्या' इति चैवंजातीयका गुणा न शारीर आञ्जस्येनोपपद्यन्ते । शारीर इति शरीरे भव इत्यर्थः । नन्वीश्वरोऽपि शरीरे भवति । सत्यम्, शरीरे भवति, न तु शरीर एव भवति, 'ज्यायान्पृथिव्या ज्यायानन्तरिक्षात्' ( छा० ३।१४।३ ) 'आकाशवत्सर्वगतश्च नित्यः' ( गौड० ३।३ ) इति व्यापित्वश्रवणात् । जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात् ॥ ३ ॥
कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥
इतश्च न शारीरो मनोमयत्वादिगुणः, यस्मात्कर्मकर्तृव्यपदेशो भवति 'एतमितः प्रेत्याभिसंभवितास्मि' ( छा० ३।१४।४ ) इति । एतमिति प्रकृतं मनोमयत्त्वादिगुणमुपा- स्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति । अभिसंभवितास्मीति शारीरमुपासकं कर्तृत्वेन प्राप्तृत्वेन । अभिसंभवितास्मीति प्राप्तास्मीत्यर्थः । न च सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः । तथोपास्योपासकभावोऽपि भेदाधिष्ठान एव । तस्मादपि न शारीरो मनोमयत्त्वादिविशिष्टः ॥ ४ ॥
शब्दविशेषात् ॥ ५ ॥
इतश्च शारीरादन्यो मनोमयत्त्वादिगुणः, यस्माच्छब्दविशेषो भवति समान- प्रकरणे श्रुत्यन्तरे-'यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयं- न्तरात्मन् पुरुषो हिरण्मयः' (शत० ब्रा० १०।६।३।२) इति । शारीरस्यात्मनो यः शब्दोऽ- भिधायकः सप्तम्यन्तोऽन्तरात्मन्निति, तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्त्वादिविशिष्टस्यात्मनोऽभिधायकः । तस्मात्तयोर्भेदोऽधिगम्यते ॥ ५ ॥
स्मृतेश्च ॥ ६ ॥
स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयति-'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया' (गी० १८।६१) इत्याद्या । अत्राह-कः पुनरयं शारीरो नाम परमात्मनोऽन्यः, यः प्रतिषिध्यते 'अनुपपत्तेस्तु न
भामती वात् । शारीरगुणा इव मनोमयत्वादयो ब्रह्मण्यीयत आह सूत्रकारः-अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ यत्तदवोचाम समारोप्यधर्माः समारोपविषये सम्भवन्ति, न तु विषयधर्माः समारोप्य इति । तस्यैत उत्थानम् । अत्राह चोदकः ॐ कः पुनरयं शारीरो नाम इति ॐ । न तावद्द्वेदप्रतिषेधाद्द्वेवे-
भामती-व्याख्या यह जो शङ्का होती है कि सत्यसंकल्पत्वादि धर्म जैसे ब्रह्म में घटते हैं, वैसे ही शारीर (जीव) में भी उपपन्न हो सकते हैं, क्योंकि जीव का ब्रह्म से अभेद है। जीव के मनोमय- त्वादि धर्मों का ब्रह्म में जैसे समन्वय किया जाता है, उसी प्रकार ब्रह्म के सत्यसंकल्पादि धर्मों का जीव में सामञ्जस्य क्यों नहीं किया जा सकता ?
उस शङ्का का समाधान करने के लिए सूत्रकार ने कहा है- "अनुपपत्तेस्तु न शारीरः" । जीव केवल शरीर में रहने के कारण शारीर कहलाता है, अतः उसमें व्यापक ब्रह्म के व्यापकत्त्वादि धर्म उपपन्न नहीं हो सकते ॥ ३-५ ॥
यह जो कहा गया कि आरोपित (अध्यस्त) पदार्थ के धर्म अधिष्ठान में व्यवहृत होते हैं, अधिष्ठान के धर्म अध्यस्त में नहीं। उस पर पूर्वपक्षी शङ्का करता है कि ब्रह्म में अध्यस्त जीव ब्रह्म से भिन्न क्योंकर होगा ? जिन दो पदार्थों में भेद का निषेध एवं भेद का व्यवहार ३५