भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 314, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 314
२१६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. २ सू. १७

८।२४) इति । सैवेहाक्षिपुरुषविदोऽभिधीयमाना दृश्यते – 'अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्ति' इत्युपक्रम्य, 'आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा० ४।१५।५) इति । तदिह ब्रह्मविद्विषयया प्रसिद्धया गत्याऽक्षिस्थानस्य ब्रह्मत्वं निश्चीयते ॥ १६ ॥

अनवस्थितेरसम्भवाच्च नेतरः ॥ १७ ॥

यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्यादक्षिस्थान इति । अत्रोच्यते—न छायात्मादितिरिह ग्रहणमर्हति । कस्मात् ? अनवस्थितेः । न तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं सम्भवति । यदैव हि कश्चित्पुरुषश्चक्षुरासीदति तदा चक्षुषि पुरुषच्छाया दृश्यते, अपगते तस्मिन्न दृश्यते । 'य एषोऽक्षिणि पुरुषः' इति च श्रुतिः सन्निधानात् स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति । न चोपासनाकाले छायाकारं कश्चित्पुरुषं चक्षुःसमीपे सन्निधाप्योपास्त इति युक्तं कल्पयितुम् । 'अस्यैव शरीरस्य नाशमन्वेष नश्यति' (छा० ८।९।१) इति श्रुतिश्छायात्मनोऽप्यनवस्थितत्वं दर्शयति । असम्भवश्च तस्मिन्नमृतत्वादीनां गुणानां न छायात्मनि प्रतीतिः । तथा विज्ञानात्मनोऽपि साधारणे कृत्स्नशरीरेन्द्रियसम्बन्धे सति चक्षुष्येवावस्थितत्वं वक्तुं न शक्यम् । ब्रह्मणस्तु व्यापिनोऽपि दृष्ट उपलब्धयर्थो हृदयादिविशेषसम्बन्धः । समानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसम्बन्धः । यद्यपि विज्ञानात्मा परमात्मनोऽनन्य एव, तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यारोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येते । संयद्वामत्वादयश्चैतस्मिन्नैश्वर्यादनुपपन्ना एव । देवतात्मनस्तु 'रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः' इति श्रुतेर्यद्यपि चक्षुष्यवस्थानं स्यात्तथाप्यात्मत्वं तावन्न सम्भवति, पराग्रूपत्वात् । अमृतत्वादयोऽपि न सम्भवन्ति, उत्पत्तिप्रलयश्रवणात् । अमरत्वमपि देवानां चिरकाला play/अवस्थानापेक्षम् । ऐश्वर्यमपि परमेश्वरायत्तं न स्वाभाविकम्, 'भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च

भामती

इत्यपि सूत्रं व्याख्यातम् ॥ १६ ॥
य एषोऽक्षिणीति नित्यवत् श्रुतम नित्ये छायापुरुषे नावकल्पते । कल्पनागौरवं चास्मिन् पक्षे प्रसज्यत इत्याह ॐ न चोपासनाकाल इति ॐ । ॐ तथा विज्ञानात्मनोऽपि इति ॐ । विज्ञानात्मनो हि न प्रदेशे उपासनाऽन्यत्र दृष्टचरी, ब्रह्मणस्तु तत्र श्रुतपूर्वत्यर्थः । ॐ भीषा ॐ भिया । ॐ अस्मात् ॐ ब्रह्मणः । शेषमति-

भामती-व्याख्या

का अन्वेषण कर आदित्य-लोक को जीत लेते ( प्राप्त करते ) हैं । यह ( आदित्यरूप ब्रह्म) हिरण्यगर्भ ही प्राणों का आयतन ( आश्रय ), अमृत, अभय और परागति है, इसको प्राप्त कर जीव पुनः मनुष्यलोक को नहीं लौटते ]। ब्रह्मवेत्ता की जो गति होती है, वही अक्षिपुरुष के उपासक की भी है, अतः अक्षिपुरुष ब्रह्म ही है ॥ १६ ॥
"य एषोऽक्षिणि पुरुषः"—यह श्रवण ऐसे पुरुष का प्रतीत होता है, जो कि नित्य अक्षि-सन्निहित है, छाया-पुरुष में वैसी नित्यावस्थिति सम्भव नहीं, क्योंकि वह अनवस्थित ( अनित्य ) है । छाया-पुरुषादि की कल्पना में महान् गौरव दिखाते हैं—"न चोपासनाकाले छायाकारं कंञ्चित् पुरुषं चक्षुः समीपे सन्निधाप्योपास्ते इति युक्तं कल्पयितुम्, असम्भवात्" । "तथा विज्ञानात्मनोऽपि"—इस भाष्य का आशय यह है कि विज्ञानात्मा (जीव) की किसी प्रदेश-विशेष में उपासना अन्यत्र नहीं देखी जाती किन्तु ब्रह्म की विविध प्रदेशों में उपासना

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या) · पृष्ठ 314, कुल 639 में से · BharatKosha