भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 315, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 315

अन्तर्यामिणो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् २९७

मृत्युर्धावति पञ्चमः' (तै० २।८) इति मन्त्रवर्णात् । तस्मात्परमेश्वर एवायमक्षिस्यावः प्रत्येतव्यः । अस्मिंश्च पक्षे दृश्यत इति प्रसिद्धवदुपादानं शास्त्रापेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम् ॥ १७ ॥


( ५ अन्तर्याम्यधिकरणम् । सू० १८-२० )

अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १८ ॥

'य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति' इत्युपक्रम्य श्रूयते—'यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' (बृह० ३।७।१, २) इत्यादि । अत्राधि-दैवतमधिलोक मधिवैदमधियज्ञमधिभूतमध्यात्मं च कश्चिदन्तरवस्थितो यमयिताऽन्त-र्यामीति श्रूयते । स किमधिदेवाद्यभिमानी देवतात्मा कश्चित्, किं वा प्राप्ताणिमाद्यै-श्वर्यः कश्चिद्योगी, किंवा परमात्मा, किंवाऽर्थान्तरं किञ्चिदित्यपूर्वसंज्ञादर्शनात्सं-शयः । किं तावन्तः प्रतिभाति ? संज्ञाया अप्रसिद्धत्वात्संज्ञिनाप्यप्रसिद्धेनार्थान्तरेण केनचिद्भवितव्यमिति । अथवा नानिरूपितरूपमर्थान्तरं शक्यमस्तीत्यभ्युपगन्तुम् । अन्तर्यामिशब्दश्चान्तर्यमनयोगेन प्रवृत्तो नात्यन्तमप्रसिद्धः । तस्मात्पृथिव्याद्यभिमानी कश्चिद्देवोऽन्तर्यामी स्यात् । तथा च श्रूयते - 'पृथिव्येव यस्यायतनमग्निर्लोको मनो

भामती

रोहितार्थम् ॥ १७ ॥

स्वकर्मोपार्जितं देहं तेनान्यच्च नियच्छति ।
तक्षादिरशरीरस्तु नात्मान्तर्यामितां भजेत् ॥


भामती-व्याख्या

बहुधा श्रुत है । "भीषास्मात्"—इस श्रुति में 'भीषा' शब्द का अर्थ है—भयेन, 'अस्मात्' पद का अभिप्रेत अर्थ है—ब्रह्मणः । अवशिष्ट भाष्य स्पष्टार्थंक है ॥ १७ ॥

विषय—बृहदारण्यकोपनिषत् में “य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयति”—ऐसा उपक्रम करके कहा गया है कि “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरम्, यः पृथिवीमन्तरो यमयत्येष ते आत्मान्तर्याम्यमृतः” (बृह. उ. ३।७।१, २) । इस श्रुति में ऐसे किसी अन्तर्यामी पुरुष का प्रतिपादन किया गया है, जो देवता, लोक, वेद, यज्ञ, भूत और आत्मा (शरीर) में रह कर उनका नियमन करता है।

संशय—उक्त अन्तर्यामी क्या अधिदेवादि का अभिमानी कोई देवता है ? या अणिमादि [ ( १ ) अणिमा (सूक्ष्म हो जाना), ( २ ) महिमा (महान् हो जाना), ( ३ ) लघिमा (हल्का हो जाना), ( ४ ) गरिमा (गुरु या वजनदार हो जाना), ( ५ ) प्राप्ति (पृथिवी पर बैठे-बैठे चन्द्रादि को छू लेना), ( ६ ) प्राकाम्य (सत्यसङ्कल्पता), ( ७ ) ईशित्व (सर्वभूत-नियमन) और ( ८ ) वशित्व (सर्वभूतों का वशीकरण) ] सिद्धियों से सम्पन्न कोई योगी है ? या परमात्मा ? अथवा कोई अन्य ही पदार्थ है ?

पूर्वपक्ष

स्वकर्मोपार्जितं देहं तेनान्यच्च नियच्छति ।
तक्षादिरशरीरस्तु नात्मान्तर्यामितां भजेत् ॥

३८