भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 347, कुल 639 में से
संदर्भ में पढ़ेंद्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३२९
दृश्यते । मुक्तैरुपसृप्यं मुक्तोपसृप्यम् । देहादिष्वनात्मस्वहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागस्तत्परिभवादौ द्वेषस्तदुच्छेददर्शनाद्भयं मोहश्चेत्येवमयमनन्त- भेदोऽनर्थव्रातः संततः सर्वेषां नः प्रत्यक्षः । तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुप- सृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति । कथम् ? 'भिद्यते हृदय- ग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' ( मुण्ड० २।२।८ ) इत्युक्त्वा ब्रवीति — 'तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' ( मुण्ड० ३।२।८ ) इति । ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे — 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते' ( बृह० ४।४।७ ) इत्येवमादौ । प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम् । अपि च 'तमे- वैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः' इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते । तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम् — 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत्' । ( बृह० ४।४।२१ ) इति । तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ २ ॥
नानुमानमतच्छब्दात् ॥ ३ ॥
यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तो नैवमर्थान्तरस्य वैशेषिको हेतुः
भामती
द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृप्यं व्यपदिश्यते 'भिद्यते हृदयग्रन्थिः' इत्यादिना । तेन तद् द्युभ्वाद्यायतनविषयमेव । ब्रह्मणश्च मुक्तोपसृप्यत्वं 'यदा सर्वे प्रमुच्यन्ते' इत्यादौ श्रुत्यन्तरे प्रसिद्धम् । तस्मान्मुक्तोपसृप्यत्वाद् द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते । हृदयग्रन्थिश्चाविद्यारागद्वेषभयमोहाः । मोहश्च विषादः शोकः, परं हिरण्यगर्भाद्यवरं यस्य तद् ब्रह्म तथोक्तम्, तस्मिन् ब्रह्मणि यद् दृष्टं दर्शनं तस्मिन् तदर्थमिति यावत्; यथा 'चर्मणि द्वीपिनं हन्ति' इति चर्मार्थमिति गम्यते । नामरूपावित्यप्यविद्याभिप्रायम् । 'कामा येऽस्य हृदि श्रिताः' इति कामा इत्यविद्यामुपलक्षयति ॥ २ ॥
नानुमानमित्युपलक्षणं, नाव्याकृतमित्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात् ॥ ३ ॥
भामती-व्याख्या
प्रक्रान्त द्यु और भू आदि प्रपञ्च के आयतन में अविद्यादि दोषों से मुक्त पुरुषों के द्वारा उपसृप्यता ( प्राप्यता ) का प्रतिपादन किया गया है — "विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" ( मुण्ड. ३।२।८ ) । मुक्त पुरुषों के द्वारा ब्रह्म ही प्राप्य है, ऐसा अन्य श्रुतियों में प्रसिद्ध है — "मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते" ( बृह. उ. ४।४।७ ) । फलतः मुक्तोपसृप्य होने के कारण द्युलोकादि का आयतन ब्रह्म ही है — ऐसा निश्चित हो जाता है । उक्त श्रुति में 'ग्रन्थि' पद के द्वारा अविद्या, राग, द्वेष, भय और मोह का ग्रहण किया गया है । मोह नाम है — विषाद का, जिसे शोक भी कहते हैं । "तस्मिन् दृष्टे परावरे" — यहाँ 'परावर' पद का अर्थ है — 'परं हिरण्यगर्भादि अवरं ( निकृष्टं ) यस्मात्, तत्' किन्तु भाष्यकार ने कहा है — "परं च कारणात्मनाऽवरं च कार्यात्मना, तस्मिन् परावरे" ( मुण्ड. पृ. ३१ ) । "तस्मिन् दृष्टे" — यहाँ पर निमित्तार्थक सप्तमी विभक्ति प्रयुक्त है । जैसे 'चर्मणि द्वीपिनं हन्ति' — इस वाक्य का अर्थ होता है — 'चर्मार्थं द्वीपिनं हन्ति', वैसे ही 'तस्मिन् दृष्टे' का अर्थ है — 'तदर्थम् । "नामरूपाद् विमुक्तः" — यहाँ पर अविद्या का बोध कराने के लिए 'नामरूप' का प्रयोग किया गया है, उसी प्रकार "कामा येऽस्य हृदि श्रिताः" — यहाँ 'काम' पद भी अविद्या का उपलक्षक है ॥ २ ॥
"नानुमानम्" — यहाँ प्रधानार्थक 'अनुमान' पद 'अव्याकृत' का भी उपलक्षक है, अतः
४२