भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 356, कुल 639 में से
संदर्भ में पढ़ें| ३३८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ८ |
|---|
स्यात् । नहि नामैव नाम्नो भूय इति नाम्न ऊर्ध्वमुपदिष्टम् । किं तर्हि ? नाम्नोऽन्य- दर्थान्तरमुपदिष्टं वागाख्यम् 'वाग्वाव नाम्नो भूयसी' इति । तथा वागादिभ्योऽप्या प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम् , तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणा- दर्थान्तरभूतो भवितुमर्हति । नन्विह नास्ति प्रश्नः- 'अस्ति भगवः प्राणाद् भूयः' इति । नापि प्रतिवचनमस्ति प्राणाद्वाव भूयोऽस्तीति, कथं प्राणादधि भूमोपदिश्यत इत्युच्यते ? प्राणविषयमेव चातिवादित्वमुत्तरत्रानुकृष्यमाणं पश्यामः- 'एष तु वा अतिवदति यः सत्येनातिवदति' इति । तस्मान्नास्ति प्राणादध्युपदेश इति । अत्रो- च्यते- न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुं, विशेष- वादात् 'यः सत्येनातिवदति' इति । ननु विशेषवादोऽप्ययं प्राणविषय एव भविष्यति । कथम् ? यथैषोऽग्निहोत्री यः सत्यं वदतीत्युक्ते न सत्यवदनेनाग्निहोत्रित्वं, केन तर्हि ? अग्निहोत्रेणैव, तत्सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते । तथा 'एष तु वा अतिवदति यः सत्येनातिवदति' इत्युक्ते, न सत्यवदनेनातिवादित्वम् । केन तर्हि ? प्रकृतेन प्राणविज्ञानेनैव । सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति । नेति ब्रूमः, श्रुत्यर्थ- परित्यागप्रसङ्गात् । श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते 'यः सत्येनातिवदति सोऽतिवदति' इति । नात्र प्राणविज्ञानस्य संकीर्तनमस्ति । प्रकरणात्तु प्राणविज्ञानं संबध्येत । तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात् । प्रकृतव्यावृत्त्यर्थश्च तुशब्दो न संगच्छेत 'एष तु वा अतिवदति' इति । 'सत्यं त्वेव विजिज्ञासितव्यम्' ( छा० ७।१६ ) इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति । तस्माद्यथैकवेदप्रशंसायां प्रकृतायामेष तु महाब्राह्मणो यश्चतुरो वेदानधीत इत्येकवेदेभ्योऽर्थान्तरभूतश्चतुर्वेदः प्रशस्यते, तादृगेतद् द्रष्टव्यम् । न च प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्य- मिति नियमोऽस्ति, प्रकृतसंबन्धासंभवकारितत्वादर्थान्तरविवक्षायाः । तत्र प्राणान्त- मनुशासनं श्रुत्वा तूष्णींभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति - यत्प्राणविज्ञा-
भामती
रोहणन्यायेन स्थूलादारभ्य तत्तद्भूमन्युत्पादनक्रमेण भूमानमतिदुर्ज्ञानतया परमसूक्ष्मं व्युत्पादयामास । न च प्रश्नपूर्वताप्रावाहपतितेनोत्तरेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति नियमोऽस्तीत्यादिसुगमेन भाष्येण व्युत्पादितम् । विज्ञानादिसाधनपरम्परा मननश्रद्धादिः, प्राणान्ते चानुशासने तावन्मात्रेणैव प्रकरणसमाप्तौ प्राणस्यान्यायत्ततोच्येत । तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत । तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।
भामती-व्याख्या
उपदेश करूँगा—ऐसा मन में सोचकर भगवान् सनत्कुमार ने नारद को एक सीढ़ी से दूसरी और दूसरी से तीसरी पर—इस प्रकार ऊपर ऊपर चढ़ाने के लिए नामादि से लेकर प्राण- पर्यन्त स्थूल पदार्थों में भूमरूपता का उपदेश कर अत्यन्त दुर्ज्ञेय ब्रह्म तत्त्व तक पहुँचाया । सभी प्रतिपादन प्रश्नपूर्वक ही होता है—ऐसा कोई नियम नहीं, जिज्ञासु का कल्याण करने के लिए बिना उसके पूछे भी शास्त्रों और आचार्यों के द्वारा उपदेश किया जाता है—इसका विस्तार से प्रदर्शन भाष्यकार ने अपने नितान्त सुगम भाष्य के द्वारा किया है ।
यदि विज्ञानादि साधन-परम्परा से मनन-श्रद्धादि का कथन और प्राण-पर्यन्त उपदेश मात्र से प्रकरण की समाप्ति हो जाती, तब प्राण में "आत्मतः प्राणः" ( छां० ७।२६।१ ) इस प्रकार आत्माधीनता प्रदर्शित न होती, किन्तु आत्माधीनता के प्रतिपादन से प्रकरण की समाप्ति नहीं मानी जा सकती, अतः यह प्राण का प्रकरण न होकर जिस आत्मतत्त्व की आश्रितता प्राण में प्रतिपादित है, उसी आत्मतत्त्व का प्रकरण निश्चित होता है ।