भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 357, कुल 639 में से
संदर्भ में पढ़ेंभूम्नो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३९
नेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् 'एष तु वा अतिवदति यः सत्येनातिवदति' इति। तत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात्। 'सत्यं ज्ञानमनन्तं ब्रह्म (तै० २।१) इति च श्रुत्यन्तरात्। तथा व्युत्पादिताय नारदाय 'सोऽयं भगवः सत्येनातिवदानि' इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमान-मुपदिशति। तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातम्, तदेवेह भूमेत्युच्यत इति गम्यते। तस्मादस्ति प्राणादधि भूम्न उपदेश इत्यतः प्राणादन्यः परमात्मा भूमा भवितुमर्हति। एवं चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यति। प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते। न हि प्राणस्य मुख्यया वृत्त्याऽऽत्मत्व-मस्ति। न चान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, 'नान्यः पन्था विद्यतेऽयनाय (श्वे० ६।१५) इति श्रुत्यन्तरात्। 'तं मा भगवान् शोकस्य पारं तारयतु' (छा० ७।१।३) इति चोपक्रम्योपसंहरति - 'तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सन-त्कुमारः' (छा० ७।२६।२ इति। तम इति शोकादिकारणमविद्योच्यते। प्राणान्ते चानुशासने न प्राणस्यान्यायत्ततोच्येत। 'आत्मतः प्राणः' (छा० ७।२६।१) इति च ब्राह्मणम्। प्रकरणान्ते परमात्मविवक्षा भविष्यति, भूमा तु प्राण एवेति चेत् - न, 'स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि' (छा० ७।२४।१) इत्यादिना भूम्न एवा प्रकरणसमाप्तेरनुकर्षणात्। वैपुल्यात्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते ॥ ८ ॥
धर्मोपपत्तेश्च ॥ ९ ॥
अपि च ये भूम्नि श्रूयन्ते धर्मास्ते परमात्मन्युपपद्यन्ते। 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा' इति दर्शनादिव्यवहाराभावो भूमन्यवगमयति। परमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतः, 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन
भामती
शङ्कते ॐ प्रकरणान्ते इति ॐ। प्राणस्य प्रकरणसमाप्तावित्यर्थः। निराकरोति ॐ न, स भगवः इति ॐ। संदंशन्यायेन हि भूम्न एतत्प्रकरणं, स चेद् भूमा प्राणः प्राणस्यैतत्प्रकरणं भवेत्। तच्चायुक्त-मित्युक्तम् ॥ ८ ॥
न केवलं श्रुतेर्भूमात्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः ॐ धर्मोपपत्तेश्च ॐ।
भामती-व्याख्या
शङ्कावादी शङ्का करता है—"प्रकरणान्ते परमात्मविवक्षा भविष्यति, भूमा तु प्राण एव"। अर्थात् प्राण का प्रकरण समाप्त हो जाने पर ही परमात्मा की विवक्षा हो सकेगी, किन्तु प्राण का प्रकरण समाप्त नहीं हुआ, अतः भूमा प्राण ही है। उक्त शङ्का का निराकरण किया जाता है—"न, स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि" (छां. ७।२४।१) इत्यादिना भूम्न एवाप्रकरणसमाप्तेरनुकर्षणात्"। आशय यह है कि भूमा-निर्देश से पूर्व "यः सत्येनातिवदति"—इस प्रकार सत्यरूप परमात्मा का उल्लेख है और भूमा-निर्देश के पश्चात् "स भगवः कस्मिन् प्रतिष्ठितः"—इस प्रकार परमात्मा का उल्लेख है, अतः परमात्मा के उल्लेख से संदंशित होने के कारण भूमा की परमात्मरूपता निश्चित होती है। वह भूमा यदि प्राण होता, तब यह प्रकरण प्राण का ही माना जाता, किन्तु प्राण का भूमा होना युक्त नहीं—यह कहा जा चुका है ॥ ८ ॥
केवल श्रुति प्रमाण के आधार पर ही परमात्मा में भूमरूपता निश्चित नहीं होती, अपितु लिङ्ग प्रमाण से भी वह निश्चित होती है—ऐसा सूत्रकार ने कहा है—"धर्मोपपत्तेश्च"।