भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 358, कुल 639 में से
संदर्भ में पढ़ें१४० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. १०
कं पश्येत्' (बृ० ४।३।१५) इत्यादिश्रुत्यन्तरात्। योऽप्यसौ सुषुप्तावस्थायां दर्शना- दिव्यवहाराभाव उक्तः सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तो न प्राणस्वभावविवक्षया, परमात्मप्रकरणात्। यदपि तस्यामवस्थायां सुखमुक्तं, तदप्यात्मन एव सुखस्वरूपत्वविव- क्षयोक्तम्। यत आह—'एषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' (बृ० ४।३।३२) इति। इहापि 'यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्' इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति। 'यो वै भूमा तदमृतम्' इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयति। विकाराणाममृतत्वस्या- पेक्षिकत्वात्, 'अतोऽन्यदार्तम्' (बृ० ३।४।२) इति च श्रुत्यन्तरात्। तथा च सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवो- पपद्यन्ते, नान्यत्र। तस्माद् भूमा परमात्मेति सिद्धम् ॥ ९ ॥
( ३ अक्षराधिकरणम्। सू० १०–१२ )
अक्षरमम्बरान्तधृतेः ॥ १० ॥
'कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति। स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु' (बृ० ३:८।७,८) इत्यादि श्रूयते।
तत्र संशयः—किमक्षरशब्देन वर्ण उच्यते, किंवा परमेश्वर इति। 'तत्राक्षर- समाम्नाय' इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् , प्रसिद्धव्यतिक्रमस्य चायुक्तत्वात् , 'ॐकार एवेदं सर्वम्' (छा० २।२३।३) इत्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणाद् , वर्ण एवाक्षरशब्द इति।
भामती
यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयति ꣻयोऽप्यसौ सुषुप्तावस्थायाम् इतिꣻ । सुषुप्तावस्थायामिन्द्रियाद्यसङ्गत्वमात्मन एव। न प्राणः, ꣻपरमात्मप्रकरणात्ꣻ। "अन्यदार्तं" विनश्वर- मित्यर्थः। अतिरोहितार्थमन्यत् ॥ ९ ॥
अक्षरशब्दः समुदायप्रसिद्ध्या वर्णेषु रूढः, परमात्मनि चावयवप्रसिद्ध्या यौगिकः। अवयव- प्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसीति वर्णा एवाक्षरम्। न च वर्णेऽवकाशस्योतत्वप्रोतत्वे नोपपद्येते,
भामती-व्याख्या
पूर्वपक्षी ने जो कथित धर्मों की उपपत्ति अन्यथा की, उसका अनुवाद करके भाष्यकार खण्डन करते हैं—"योऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः सोऽप्यात्मन एवासङ्गत्व- विवक्षयोक्तः" । अर्थात् सुषुप्ति अवस्था में इन्द्रियादि से असङ्ग रहनेवाला परमात्मा ही है, प्राण नहीं, क्योंकि परमात्मा का ही यह प्रकरण है। "अन्यदार्तम्"—यहाँ 'आर्तम्' का अर्थ है—विनश्वरम्। शेष भाष्य स्पष्टार्थक है ॥ ९ ॥
विषय—"स होवाचैतद्वै तदक्षरं गार्गि" (बृह. उ. ३।८।७) यहाँ 'अक्षर' शब्द विचारणीय है।
संशय—उक्त श्रुति में 'अक्षर' शब्द स्वर-व्यञ्जनात्मक वर्ण का वाचक है? अथवा ब्रह्म का?
पूर्वपक्ष—'अक्षर' शब्द समुदाय शक्ति (रूढि) को लेकर अकारादि वर्णों में प्रयुक्त होता है और अवयव-शक्ति को लेकर 'न क्षरः अक्षरः'—इस प्रकार परमात्मा में यौगिकरूप