भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 388, कुल 639 में से
संदर्भ में पढ़ें| ३७० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. १९ |
|---|
जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानम्, विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिः । तथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं च, मन्त्रवर्णात् 'अशरीरं शरीरेषु' (का० १।२।२२) इति, 'शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते' (गी० १३।३१) इति च सशरीरत्वाशरीरत्वविशेषाभावस्मरणात् । तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते, नत्वन्यादृशावाविर्भावानाविर्भावौ स्वरूपस्य संभवतः स्वरूपत्वादेव । एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदो न वस्तुतः, व्योमवदसङ्गत्वविशेषात् । कुतश्चैतदेवं प्रतिपत्तव्यम् ? यतो 'य एषोऽक्षिणि पुरुषो दृश्यते' इत्युपदिश्य 'एतदमृतमभयमेतद् ब्रह्म' इत्युपदिशति । योऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते सोऽमृताभयलक्षणाद् ब्रह्मणोऽन्यश्चेत्स्यात्, ततोऽमृताभयब्रह्मसामानाधिकरण्यं न स्यात् । नापि प्रतिच्छायात्माऽयमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात् । तथा द्विती-
भामती
क्त्वाप्रयोगो मुखं व्यादाय स्वपितीतिवन्मन्तव्यः । यदा च विवेकसाक्षात्कारः शरीरात् समुत्थानं, न तु शरीरापादानकं गमनम्, तदा तत्सशरीरस्यापि सम्भवति प्रारब्धकार्यकर्मक्षयस्य पुरस्तादित्याह ॐ तथा विवेकाविवेकमात्रेण इति ॐ । न केवलं 'स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतिभ्यो जीवस्य परमात्मनोऽभेदः, प्रजापत्यवाक्यसन्दर्भपर्यालोचनयाप्येवमेव प्रतिपत्तव्यमित्याह ॐ कुतश्चैतदेवं प्रतिपत्तव्यम् इति ॐ । स्यादेतत्—प्रतिच्छायात्मवज्जीवं परमात्मनो वस्तुतो भिन्नमप्यमृताभयात्मत्वेन ग्राहयित्वा पश्चाद् परमात्मानममृताभयादिमन्तं प्रजापतिर्ग्राहयति, न स्वयं जीवस्य परमात्मभावमाचष्टे छायात्मन इवेत्यत आह ॐ नापि प्रतिच्छायात्मायमक्षिलक्षितः इति ॐ । अक्षिलक्षितोऽप्यात्मैवोपदिश्यते
भामती-व्याख्या
व्यादाय स्वपिति ।' [ वाचस्पति मिश्र ने ही न्यायकणिका पृ ४१४ पर कहा है— "स्वापोत्तरकालं हि मुखव्यादानम् । समानकर्तृकतैवाव्यभिचारिणी क्त्वाप्रत्ययार्थः, समानकर्तृकेऽर्थे वर्तमानाच्च धातोर्विधीयमानं य एव पूर्वं प्रयुज्यते तत्रैव क्त्वाप्रत्ययं प्रयुञ्जते लौकिकाः, यथा प्रयोगं चार्थप्रत्ययो भवति” ] ।
'शरीरात् समुत्थानं' का जो शब्दार्थ होता है—शरीरापादानक ( शरीरमपादानं यस्य गमनस्य अर्थात् शरीर को छोड़ कर ) उत्क्रमण, वह शरीर में रहते हुए आत्मा नहीं कर सकता, किन्तु जब विवेक-साक्षात्कार ( शरीरादिभ्यो भिन्नोऽहम्—ऐसे निश्चय ) को समुत्थान पदार्थ माना जाता है, तब शरीर के रहते हुए भी आत्मा शरीर से समुत्थित या अशरीर तब तक कहा जाता रहेगा, जब तक प्रारब्ध कर्म शेष है—"तथा विवेकाविवेकमात्रेणैवात्मनोऽशरीरत्वं सशरीरत्वं च"। केवल "स ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" ( मुण्ड, ३।२।९ ) इत्यादि श्रुतियों के द्वारा ही जीव और ब्रह्म की अभेद-प्रतिपत्ति नहीं होती, अपितु प्रजापति के वाक्य-सन्दर्भों के पौर्वापर्य की आलोचना से भी वैसी प्रतिपत्ति की जा सकती है, इस प्रकार भाष्यकार कहते हैं—"कुतश्चैवं प्रतिपत्तव्यम्"।
शङ्का—पहले अक्षिपुरुष के रूप में छाया ( प्रतिबिम्ब ) एवं छाया में अमृताभयरूपता का निर्देश किया गया है। इसी प्रकार आगे चल कर स्वप्नपुरुष के रूप में ब्रह्म-भिन्न द्रष्टा ( जीव ) एवं जीव में अमृताभयरूपता का अनुमान प्रस्तुत किया गया है—स्वप्नद्रष्टा अमृताभयस्वरूपः, परमात्मभिन्नत्वात्, अक्षिगतछायावत् । यदि प्रथम पर्याय में अक्षिगत छाया का निर्देश नहीं माना जाता, तब द्वितीय पर्याय-प्रदर्शित स्वप्न-द्रष्टा में अमृताभयरूपता किस दृष्टान्त से सिद्ध होगी ?