भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 402, कुल 639 में से
संदर्भ में पढ़ें| ३८४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. २६ |
|---|
ङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इति । द्विरूपं हि वेदान्तवाक्यानां प्रवृत्तिः, क्वचित्पर- मात्मस्वरूपनिरूपणपरा, क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरा । तदत्र विज्ञाना- त्मनः परमात्मनैकत्वमुपदिश्यते, नाङ्गुष्ठमात्रत्वं कस्यचित् । एवमेवार्थं परेण स्फुटी- करिष्यति—'अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः। तं स्वाच्छ- रीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतम्' ( का० २।६।१७ ) इति ॥२५॥
( ८ देवताधिकरणम् । सू० २६-३३ )
तदुपर्यपि बादरायणः संभवात् ॥ २६ ॥
अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षा मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तं, तत्प्रसङ्गेनेद- मुच्यते । बाढम्, मनुष्यानधिकरोति शास्त्रम्, नतु मनुष्यानेवेतीह ब्रह्मज्ञाने नियमो- ऽस्ति । तेषां मनुष्याणामुपरिष्ठान्थे देवादयस्तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यते । कस्मात् ? संभवात् । संभवति हि तेषामप्यर्थित्वाद्यधिकारकारणम् । तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि संभवति विकारविषयविभूत्यनित्यत्वालोच- नादिनिमित्तम् । तथा सामर्थ्यमपि तेषां संभवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो
भामती
इति ॐ । जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम् , न च तज्जीवमनभिधाय शक्यं वक्तुमिति जीव उच्यत इत्यर्थः ॥ २५ ॥
देवर्षीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वय लक्षणेऽसङ्गतेत्यस्याः प्रासङ्गिकीं सङ्गतिं दर्शयितुं प्रसङ्गमाह ॐ अङ्गुष्ठमात्रश्रुतिः इति ॐ । स्यादेतद् — देवादीनां विविधविचित्रानन्दभोगभागिनां वैराग्याभावान्नाथित्वं ब्रह्मविद्यायामित्यत आह ॐ तत्रार्थित्वं तावन्मोक्षविषयम् इति ॐ । क्षयातिशय- योगस्य स्वर्गाद्युपभोगेऽपि भावादस्ति वैराग्यमित्यर्थः । ननु देवादीनां विग्रहाद्यभावेनेन्द्रियार्थसन्निकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्यतया सामर्थ्याभावेन नाधिकार इत्यत आह ॐ तथा सामर्थ्यमपि तेषाम्
भामती-व्याख्या
जाता है, अतः उक्त वाक्य जीवपरक ही है, ब्रह्मपरक नहीं।' उस शङ्का का परिहार किया जाता है—"तत्प्रत्युच्यते" । आशय यह है कि जीव के ब्रह्मत्वरूप वास्तविक स्वरूप का उपदेश विवक्षित है, वह जीव के स्वरूप का अभिधान न करके नहीं किया जा सकता, अतः 'अङ्गुष्ठमात्र' शब्द के द्वारा जीव का अभिधान किया गया है ॥ २५ ॥
'इन्द्रादि देवताओं को भी ब्रह्मज्ञान में अधिकार है'—यह विचार यद्यपि इस समन्व- याध्याय में संगत नहीं, तथापि प्रासङ्गिक संगति को लेकर वह विचार किया गया है-ऐसा भाष्यकार कह रहे हैं—"अंगुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया, मनुष्याधिकारत्वाच्छास्त्रस्येत्यु- क्तम्, तत्प्रसङ्गेनेदमुच्यते।" 'देवगण स्वर्ग के विविध आनन्दप्रद भोगों में लिप्त हैं, उन्हें उससे वैराग्य न होने के कारण ब्रह्मविद्या में प्रवृत्ति क्योंकर होगी ?' इस शङ्का का समाधान है—"तत्रार्थित्वं तावत् मोक्षविषयं देवादीनामपि सम्भवति"। अर्थात् स्वर्ग-सुखादि में भी क्षयित्व और उत्कर्षापकर्षभाव (न्यूनाधिकरूपता) आदि दोषों के कारण वैराग्य हो जाता है, वैराग्य हो जाने पर मोक्षार्थिता सम्भव हो जाती है। 'देवगणों का शरीरादि न होने के कारण इन्द्रियार्थ-सन्निकर्ष-सापेक्ष प्रमाणादि व्यवहार क्योंकर होगा ? एवं वेदाध्ययनादि सामर्थ्य का अभाव होने के कारण ज्ञान में भी अधिकार कैसे होगा ? इस प्रश्न का उत्तर है—"तथा