भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 460, कुल 639 में से
संदर्भ में पढ़ें| ४४२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ३ सू. ३९ |
|---|
पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे। इहैव कथम कस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि ? पूर्वत्र तावत् 'तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते। तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन' ( का० २।६।१) इति ब्रह्म निर्दिष्टं, तदेवेहापि, संनिधानात्, जगत्सर्वं प्राण एजतीति च लोकाश्रयत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते । प्राणशब्दोऽप्ययं परमात्मन्येव प्रयुक्तः, 'प्राणस्य प्राणम्' ( बृ० ४।४।१८ ) इति दर्शनात् । एजयितृत्वमपीदं परमात्मन एवोपपद्यते न वायुमात्रस्य । तथा चोक्तम्— 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ' ( का० २।५।५) इति । उत्तरत्रापि 'भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' ( का० २।६।३ ) इति ब्रह्मैव निर्दिश्यते न वायुः। सवायुकस्य जगतो भयहेतुत्वाभिधानात्। तदेवेहापि सन्निधानात् 'महद्भयं वज्रमुद्यतम्' इति च भयहेतुत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते। वज्रशब्दोऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तः। यथा हि वज्रमुद्यतं ममैव शिरसि निपतेद्यद्यहमस्य शासनं न कुर्यामित्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तते एवमिदमग्निवायुसूर्यादिकं जगदस्मादेव ब्रह्मणो बिभ्यन्नियमेन स्वव्यापारे प्रवर्तत इति भयानकं वज्रोपमितं ब्रह्म। तथा च ब्रह्मविषयं श्रुत्यन्तरम्— 'भीषाऽस्माद्वातः पवते। भीषोदेति सूर्यः। भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चमः' ( तै० ८।१) इति । अमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यते। ब्रह्मज्ञानाद्धमृतत्वप्राप्तिः। 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (श्वे० ६।१५ ) इति मन्त्रवर्णात् । यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितं, तदापेक्षिकम् । तत्रैव प्रकरणान्तरकरणेन
भामती
णाभ्यां संवलितः श्रुतिसङ्कोचः। तदिदमुक्तं ॐ पूर्वापरयोर्ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे, इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि इति ॐ । तदनेन वाक्यैकवाक्यता दर्शिता । ॐ प्रकरणादपीति ॐ भाष्येण प्रकरणमुक्तम् । यत् खलु पृष्टं तदेव प्रधानं प्रतिवक्तव्यमिति तस्य प्रकरणम्। पृष्टादन्यस्मिंस्तूच्यमाने शास्त्रमप्रमाणं भवेदसम्बद्धप्रलापित्वात् । ॐ यत्तु वायुविज्ञानात् क्वचिदमृतत्वमभिहितमापेक्षिकं तदिति ॐ । अपपुनमृत्युं जयतीति श्रुत्या ह्यपमृत्युविजय उक्तो न तु परममृत्युविजय इत्यापेक्षिकत्वं
भामती-व्याख्या
स्थानम्''। हेतु वाक्य को प्रतिज्ञा वाक्य की आकांक्षा होती है, प्रतिज्ञा-वाक्य यदि दूर हो, तब मण्डूकप्लुति-न्याय से हेतु वाक्य उसके साथ जुड़ता है ]। इस प्रकार 'शब्दादेव प्रमितः (परमात्मा), कम्पनात्' ऐसा पूरा वाक्य सम्पन्न हो जाता है। ब्रह्म के भय से नियन्त्रित होकर यह जगत् अपने व्यापार में नियमतः प्रवृत्त होता है और अपनी मर्यादा का अतिक्रमण नहीं करता । आशय यह है कि केवल श्रुति का संकोच श्रुत्यर्थ के परित्याग का नियामक नहीं, अपितु पूर्वापर की एकवाक्यता और प्रकरण—इन दो प्रमाणों से संवलित श्रुति-सङ्कोच, भाष्यकार ने यही कहा है—"पूर्वापरयोर्ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे, इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि"। इतने भाष्य के द्वारा वाक्यैकवाक्यता प्रदर्शित की गई है। "प्रकरणादपि"—इस भाष्य से प्रकरण दिखाया है, क्योंकि जो पदार्थ पूछा जाता है, वही प्रधानतया प्रतिपाद्य होता है—यही प्रकरण का स्वरूप है। जिज्ञासित पदार्थ से भिन्न अर्थ का अभिधान करने पर शास्त्र असम्बद्धाभिधायी होने के कारण अप्रमाण हो जायगा । 'यत्तु वायु-विज्ञानात् क्वचिदमृतत्वमभिहितम्, तदापेक्षिकम् ।' अर्थात् "वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेद"—इत्यादि श्रुतियों के द्वारा जो वायु के