भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 467, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 467
विज्ञानमयस्य ब्रह्मत्वम् ]हिन्दीसहितभामतीसंवलितम्४४९

वाणि' (छा० ६।३।२) इत्यादिब्रह्मकर्तृकत्वश्रवणात्। ननु जीवस्यापि प्रत्यक्षं नाम-रूपविषयं निर्वोढृत्वमस्ति । बाढमस्ति, अभेदस्त्विह विवक्षितः। नामरूपनिर्वहणा-भिधानादेव च स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवति । 'तद् ब्रह्म तदमृतं स आत्मा' (छा० ८।१४) इति च ब्रह्मवादस्य लिङ्गानि । 'आकाशस्तल्लिङ्गात्' (ब्र० १।१।२२) इत्यस्यैवायं प्रपञ्चः ॥ ४१ ॥

( सुषुप्त्युत्क्रान्त्यधिकरणम् । सू० ४२-४३ )

सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥

व्यपदेशादित्यनुवर्तते । बृहदारण्यके षष्ठे प्रपाठके 'कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः' (बृ० ४।३।७) इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतः । तत्किं संसारिस्वरूपमात्रान्त्राख्यानपरं वाक्यम्, उतासंसारिस्वरूप-

भामती

चितम्। अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति च तत्स्रष्टृत्वमतिस्पष्टं ब्रह्मरूपतया च जीवस्य व्याकर्तृत्वे ब्रह्मण एव व्याकर्तृत्वमुक्तम्। एवं च निर्वहितुरेवान्तराळतोपपत्तेरन्यो निर्वहिताऽन्यच्चान्तरालमित्यर्थभेदकल्पनापि न युक्ता। तथा च ते नामरूपे यदाकाशमन्तरेऽत्ययमर्थान्तरव्यपदेश उपपन्नो भवत्याकाशस्य । तस्मादर्थान्तरव्यपदेशात्तथा । तद् ब्रह्म तदमृतमिति व्यपदेशाद् ब्रह्मैवाकाश-शमिति सिद्धम् ॥४१॥


आदिमध्यावसानेषु संसारिप्रतिपादनात् ।
तत्परे ग्रन्थसन्दर्भे सर्वं तत्रैव योज्यते ॥

संसार्य्येव तावदात्माऽहङ्कारास्पदं प्राणाद्विपरीतः सर्वजनसिद्धः । तमेव च योऽयं विज्ञानमयः प्राणेष्वित्यादिश्रुतिसम्बधं आदिमध्यावसानेष्वामृशतीति तदनुवादपरो भवितुमर्हति। एवं च संसार्य्यात्मैव कश्चिदपेष्य महान्, संसारस्य चानादित्वेनानादित्वादज उच्यते, न तु तद्वतिरिक्तः कश्चिदवत्र नित्य-

भामती-व्याख्या

दूसरी बात यह भी है कि "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" (छां. ६।३।२) इस वाक्य के द्वारा प्रतिपादित नामरूपात्मक प्रपञ्च का स्रष्टृत्व ब्रह्म का ही लिङ्ग प्रतीत होता है, क्योंकि ब्रह्मरूप जीव में नाम-रूप का व्याकर्तृत्व कहा गया, वह वस्तुतः ब्रह्म में ही है। इस प्रकार नाम-रूप के निर्वाहक ब्रह्म में ही जब अन्तरालता सम्भव हो जाती है, तब निर्वाहक अन्य और अन्तराल अन्य हो-ऐसा मानना युक्ति-युक्त नहीं। इस प्रकार आत्मस्कन्धरूढता-न्याय भी प्रसक्त नहीं होता, क्योंकि नाम-रूपात्मक प्रपञ्च का निर्वाहक जो ब्रह्माकाश है, वह उससे भिन्न है। अर्थान्तर-व्यपदेश के समान ही "तद् ब्रह्म तदमृतम्'-ऐसा व्यपदेश भी ब्रह्म का ही गमक है ॥ ४१ ॥


विषय—"योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः” (बृह. उ. ४।३।७) इस श्रुति का 'विज्ञानमय' शब्द विचारणीय है।
संशय—उक्त श्रुति में 'विज्ञानमय' शब्द जीव का बोधक है? अथवा ब्रह्म का ?
पूर्वपक्ष
आदिमध्यावसानेषु संसारिप्रतिपादनात् ।
तत्परे ग्रन्थसन्दर्भे सर्वं तत्रैव योज्यते ॥

५७