भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 488, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 488

४७० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ४ सू. ६

नामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यते । तद्विषय एव च प्रश्नः । नातोऽन्यस्य प्रश्न उपन्यासो वाऽस्ति । तत्र तावत् 'स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्' (का० १।१।१३) इत्यग्निविषयः प्रश्नः । 'येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः॥' (का० १।१।२०) इति जीवविषयः प्रश्नः । 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥' (का० १।२।१४) इति परमात्मविषयः । प्रतिवचनमपि 'लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।' (का० १।१।१५) इत्यग्निविषयम् । 'हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्' (का० २।५।६,७) इति । व्यवहितं जीवविषयम् । 'न जायते म्रियते वा विपश्चित्' (का० १।२।१८) इत्यादिबहुप्रपञ्चं परमात्मविषयम् । नैवं प्रधानविषयः प्रश्नोऽस्ति, अपृष्टत्वाच्चानुपन्पसनीयत्वं तस्येति । अत्राह-योऽयमात्मविषयः प्रश्नो येयं प्रेते विचिकित्सा मनुष्येऽस्तीति, किं स एवायम् 'अन्यत्र धर्मादन्यत्राधर्माद्' इति पुनरनुकृष्यते ? किंवा ततोऽन्योऽयमपूर्वः प्रश्न उत्थाप्यत इति ? किंचातः स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत, द्वयोरात्मविषययोः प्रश्नयोरेकताऽपत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां

भामती

ब्रह्म सनातनमित्यनेन व्यवहितं जीवविषयं यथा तु मरणं प्राप्यात्मा भवति गौतमत्यादिप्रतिवचनमिति योजना । अत्राह चोदकः किं जीवपरमात्मनोरेक एव प्रश्नः किं वाऽन्यो जीवस्य येयं प्रेते मनुष्य इति प्रश्नोऽन्यश्च परमात्मनोऽन्यत्र धर्मादित्यादिः ? एकत्वे सूत्रविरोधः 'त्रयाणाम् इति' । भेदे तु सौमनस्यावाप्त्यग्न्य्यात्मज्ञानविषयवरत्रयप्रदानान्तर्भावोऽन्यत्र धर्मादित्यादेः प्रश्नस्य । तुरीयवरान्तरकल्पनायां वा

भामती-व्याख्या

( कठो० २।२।६ ) यह परमात्मपरक वाक्य जीवविषयक प्रश्न और प्रतिवचन का व्यवधायक है, इसका स्पष्टीकरण भाष्यकार करते हैं- "इतिव्यवहितजीवविषयम्"। उसका तात्पर्य यह है कि "इत्यनेन परमात्मविषयकप्रतिवचनस्य प्रतिज्ञावाक्येन व्यवहितं जीवविषयकं प्रतिवचनम्- 'यथा तु मरणं प्राप्यात्मा भवति गौतम इत्यादि [अर्थात् पहले जीवविषयक प्रश्न है- "येयं प्रेते विचिकित्सा" (कठ०, १।१।२०) । इसके अनन्तर परमात्मविषयक प्रतिवचन का प्रतिज्ञा-वाक्य है-"हन्त ते कथयिष्यामि" (कठो. २।२।६) ओर इसके पश्चात् है जीवविषयक प्रतिवचन-यथा तु मरणं प्राप्यात्मा भवति गौतम्" (कठो. २।२।६) । इस प्रकार जीवविषयक प्रश्न और प्रतिवचन निरन्तर (अव्यवहित) न होकर सान्तर (व्यवहित) हो जाते हैं]।

शङ्का-भाष्यकार ने जो कहा है "अत्राह"। वहाँ प्रश्न उठता है-'क:?' उसका उत्तर है- 'आक्षेप्ता' अर्थात् आक्षेपवादी शङ्का करता है कि क्या जीवात्मा और परमात्मा को लेकर एक ही प्रश्न किया गया है? अथवा "येयं प्रेते मनुष्य" यह जीवविषयक प्रश्न अन्य है और "अन्यत्र धर्मादन्यत्राधर्मात्"-यह परमात्म-विषयक प्रश्न अन्य? यदि अन्य प्रश्न नहीं, अपितु एक ही है, तब नचिकेता के सब मिला कर दो ही प्रश्न बनते हैं, तीन नहीं, फिर तो 'त्रयाणामेव चैवमुपन्यासः" (ब्र. सू. १।४।६) इस सूत्र का विरोध उपस्थित होता है, क्योंकि इस सूत्र में तीन प्रश्नों का होना निर्दिष्ट है। यदि आत्मविषयक प्रश्न से परमात्म-