भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 489, कुल 639 में से
संदर्भ में पढ़ेंअव्यक्तशब्दस्य शरीरपरत्वम् ] हिन्दीसहितभामतीसंवलितम् ४७१
प्रश्नोपन्यासाविति । अथान्योऽयमपूर्वः प्रश्न उत्थाप्यत इत्युच्येत, ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोषः, एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोषः स्यादिति । अत्रोच्यते—नैवं वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामः, वाक्योपक्रमसामर्थ्यात् । वरप्रदानोपक्रमा हि मृत्युनाचिकेतःसंवादरूपा वाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते । मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौ । नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे, द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम्, 'येयं प्रेते' इति 'वराणामेष वरस्तृतीयः' ( का० १।१।२० ) इति लिङ्गात् । तत्र यद्यन्यत्र धर्मादित्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत, ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येत । ननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हति । पूर्वो हि प्रश्नो जीवविषयः, येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्यस्तिनास्तीतिविचिकित्साभिधानात् । जीवश्च धर्मादिगोचरत्वान्नान्यत्र धर्मादिति प्रश्नमर्हति प्राज्ञस्तु धर्माद्यतीतत्वादन्यत्र धर्मादिति प्रश्नमर्हति । प्रश्नच्छाया च न समाना लक्ष्यते, पूर्वस्यास्तित्वनास्तित्वविषयत्वादुत्तरस्य धर्माद्यतीतवस्तुविषयत्वात् । तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः । न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत्, न, जीवप्राज्ञयोरेकत्वाभ्युपगमात् । भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् । न त्वन्यत्वमस्ति । तत्त्वमसीत्यादिश्रुत्यन्तरेभ्यः । इह च 'अन्यत्र धर्माद्' इत्यस्य प्रश्नस्य प्रतिवचनं 'न जायते म्रियते वा विपश्चिद्' इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयति । सति हि प्रसङ्गे प्रतिषेधो भागी भवति । प्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शार्थाच्छारीरस्य भवति, न परमेश्वरस्य । तथा—'स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥' ( का० २।४।४ ) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति । प्राज्ञविज्ञानाद्धि
भामती
तृतीय इति श्रुतिबाधप्रसङ्गः । वरप्रदानान्तर्भावे प्रश्नस्य तद्वत् प्रधानाख्यानमप्यन्तर्भूतं वरप्रदानेऽस्तु महतः परमव्यक्तमित्याक्षेपः ।
परिहरति ॐ अत्रोच्यते नैवं वयमिह इति ॐ । वस्तुतो जीवपरमात्मनोरभेदात् प्रष्टव्याभेदेनेक एव प्रश्नः । अत एव प्रतिवचनमप्येकं, सूत्रं त्ववास्तवभेदाभिप्रायम् । वास्तवश्च जीवपरमात्मनोरभेदस्तत्र
भामती-व्याख्या
विषयक प्रश्न को भिन्न माना जाता है, तब चार प्रश्न हो जाते हैं, क्योंकि परमात्मविषयक प्रश्न का ( १ ) सौमनस्य-प्राप्ति, ( २ ) अग्नि और ( ३ ) जीव--इन तीन विषयों के वर-प्रदान में अन्तर्भाव नहीं हो सकता । परमात्मविषयक ज्ञान को चौथा वर-प्रदान मानने पर 'वराणामेष वरस्तृतीयः'—यह श्रुति-वाक्य विरुद्ध या बाधितार्थक हो जाता है । यदि तीन वरों से भिन्न परमात्मविषयक चतुर्थ वर-प्रदान की कल्पना की जाती है, तब उसी प्रकार प्रधान ( प्रकृति ) के प्रतिपादन को भी उक्त चार वर-प्रदानों से अतिरिक्त पाँचवाँ वर-प्रदान माना जा सकता है । फलतः 'महतः परमव्यक्तम्'—इत्यादि पदावलि का पर्यवसान साङ्ख्याभिमत प्रधान ( प्रकृति ) तत्त्व के प्रतिपादन में क्यों नहीं माना जा सकता ?
समाधान—भाष्यकार उक्त शङ्का का समाधान करते हैं—"अत्रोच्यते नैवं वयमिह वर-प्रदानव्यतिरेकेण प्रश्नं कंचित् कल्पयामः।" आशय यह है कि जीव और परमात्मा का वस्तुतः अभेद होने के कारण दोनों का एक ही प्रश्न में समावेश हो जाता है, अत एव