भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 491, कुल 639 में से
संदर्भ में पढ़ेंप्रधानस्याशब्दत्वम् ] हिन्दीसहितभामतीसंवलितम् ४७३
इत्यस्यैव प्रश्नस्यैतदनुकर्षणम् ‘अन्यत्र धर्माद्’ इति। यत्त प्रश्नच्छायावैलक्षण्यमुक्तं, तद्दूषणम्, तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात्। पूर्वत्र हि देहादिव्यतिरि- क्तस्यात्मनोऽस्तित्वं पृष्टम्, उत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इति, यावद्ध- विद्या न निवर्तते तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते। तन्निवृत्तौ तु प्राज्ञ एव तत्त्वमसीति श्रुत्या प्रत्याय्यते। न चाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चि- द्विशेषोऽस्ति। यथा कश्चित्संतमसे पतितां कांचिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयान्मा भैषीर्नायमही रज्जुरेवेति। स च तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं च। न त्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात्। तथैवैतदपि द्रष्टव्यम्। ततश्च ‘न जायते म्रियते वा’ इत्येवमाद्यपि भवत्यस्ति- त्वप्रश्नस्य प्रतिवचनम्। सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम्। एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकि- त्सनात् कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते। उत्तरस्य तु धर्माद्यत्ययसंकीर्तनात्प्राज्ञविषयत्वमिति। ततश्च युक्ताऽग्निजीवपरमात्म- कल्पना। प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम् ॥ ६ ॥
महद्वच्च ॥ ७ ॥
यथा महच्छब्दः सांख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तो न तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते। ‘बुद्धेरात्मा महान्परः’ (का० १।३।१०), ‘महान्तं विभुमात्मानम्’ (का० १।२।२२), ‘वेदाहमेतं पुरुषं महान्तम्’ (श्वे० ३।८) इत्येवमादावात्मशब्द- प्रयोगादिभ्यो हेतुभ्यः। तथाऽव्यक्तशब्दोऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति। अतश्च नास्यानुमानिकस्य शब्दवत्त्वम् ॥ ७ ॥
भामती
अनेन सांख्यप्रसिद्धेवैदिकप्रसिद्धया विरोधान्न सांख्यप्रसिद्धिर्वेदे आदर्तव्येत्युक्तम्। सांख्यानां महत्तत्त्वं सत्तामात्रं पुरुषार्थक्रियाक्षमं सतस्य भावः सत्ता तन्मात्रं महत्तत्त्वमिति। या या पुरुषार्थक्रिया शब्दाद्युपभोगलक्षणा च सत्त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा महति बुद्धौ समाप्यत इति महत्तत्त्वं सत्तामात्रमुच्यत इति ॥ ७ ॥
भामती-व्याख्या
पहले सूत्रों में कहा गया था कि 'अव्यक्त' शब्द की सांख्याचार्य-प्रसिद्ध रूढि वेदान्त में अनुपयुक्त है, और इस सूत्र के द्वारा यह कहा जाता है कि 'अव्यक्त' शब्द की सांख्य-मत- प्रसिद्धि वैसे ही वेदान्त-प्रसिद्धि से बाधित है, जैसे 'महत्' शब्द की [फलतः यह अनुमान यहाँ विवक्षित है—'अव्यक्तशब्दो न सांख्यस्मृतिप्रसिद्धार्थगोचरः, वैदिक शब्दत्वात्, महच्छब्दवत्]। सांख्य दर्शन-प्रयुक्त 'महत्' शब्द का अर्थ है—'सत्तामात्र' : बौद्धदर्शनकारों ने परमार्थसत् का लक्षण करते हुए कहा है—"अर्थक्रियासमर्थं यत् तदत्र परमार्थसत्" (प्र. वा. पृ० १७५)। अर्थक्रिया नाम है प्रयोजन या पुरुषार्थ का, वह सांख्य-दृष्ट्या भोग और मोक्ष भेद से दो प्रकार का होता है—(१) शब्दादि समस्त विषयों का उपभोग और (२) प्रकृति- पुरुष की विवेक-ख्याति। दोनों प्रकार की अर्थक्रिया बुद्धि ही किया करती है—
सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः।
सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ (सां. का. ३६)
६०