भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 498, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 498

४८० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ४ सू. ११

नुशेतेऽन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषामिष्टः प्राप्नोतीति । न हीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा, किन्तु बन्धमोक्षव्यवस्थाप्रतिपिपादयिषा त्वेषा । प्रसिद्धं तु भेदमनूद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते । भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितो न पारमार्थिकः, 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा' इत्यादि- श्रुतिभ्यः । मध्वादिवत्, यथा आदित्यस्यामधुनो मधुत्वम् ( छा० ३।१ ), वाचश्चा- धेनोधेनुत्वम् ( बृ० ५।८ ), द्युलोकादीनां चानग्नीनामग्नित्वम् ( बृ० ८।२।९ ) इत्येवं- जातीयकं कल्प्यते, एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः । तस्मादविरोधस्तेजोऽ- बन्नेष्वजाशब्दप्रयोगस्य ॥ १० ॥

( ३ संख्योपसंग्रहाधिकरणम् । सू० ११-१३ ) न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥

एवं परिहृतेऽप्यजामन्त्रे पुनरन्यस्मान्मन्त्रात्सांख्यः प्रत्यवतिष्ठते । 'यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम्' (बृ. ४।४।१७) इति । अस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषयाऽपरा पञ्चसंख्या श्रूयते, पञ्चशब्दद्वयदर्शनात् । त एते पञ्चपञ्चकाः पञ्चविंशतिः संपद्यन्ते । तथा पञ्च-

भामती

अवान्तरसङ्गतिमाह एवं परिहृतेऽपि इति । पञ्चजना इति हि समासार्थः पञ्चसंख्यया सम्बध्यते । न च दिक् संख्ये संज्ञायामिति समासविधानान्मनुषेषु निरूढोऽयं पञ्चजनशब्द इति वाच्यम्, तथा सति पञ्च मनुजा इति स्यात् । एवं चात्मनि पञ्चमनुजानामाकाशस्य च प्रतिष्ठानमिति निस्ता- त्पर्यम्, सर्वस्यैव प्रतिष्ठानात् । तस्माद्रूढेरसम्भवात्तत्त्यागेनात्र योग आस्थेयः । जनशब्दश्च कथञ्चित्तत्त्वेषु व्याख्येयः । तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् ?

भामती-व्याख्या

अवान्तर संगति - 'अजा मन्त्र' में सांख्य-मतोद्भावन निराकृत हो जाने पर भी अन्य मन्त्र के माध्यम से सांख्य-सिद्धान्त का उद्भावन किया जाता है।

विषय - "यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः" (बृह. उ. ४।४।१७) यह वाक्य विचारणीय है।

संशय - उक्त श्रुति सांख्याभिमत पञ्चविंशति तत्त्व की प्रतिपादिका है? अथवा प्राणादि पाँच पदार्थों की ?

पूर्वपक्ष - 'पञ्च पञ्चजनाः' यहाँ पर 'जन' शब्द 'मनुष्य' में रूढ न होकर 'जायते इति जनः'—इस प्रकार कार्य मात्र का वाचक है, अतः 'जन' शब्द का स्वार्थ में तात्पर्य न होने के कारण 'पञ्च पञ्चकाः'—इस अर्थ में तात्पर्य पर्यवसित होता है, जिसका अर्थ है पाँच पंचक या पचीस तत्त्व।

यद्यपि "दिक्संख्ये संज्ञायाम्" (पा० सू० २।१।५०) इस सूत्र के द्वारा संख्या-वाचक शब्द के साथ संज्ञा (रूढ) शब्दों का ही समास होता है, अतः 'सप्तर्षयः' के समान 'पंचजन' शब्द भी पंचभूत-जनित मनुष्य की संज्ञा ही है, केवल संख्या का वाचक नहीं। तथापि वैसा मानने पर 'पंच पंचजनाः' इस वाक्य का अर्थ होता है—'पंच मनुष्या'। तब पूरे वाक्य का अर्थ करना होगा—'आत्मा में पाँच मनुष्य और एक आकाश—ये छः पदार्थ ही प्रतिष्ठित हैं। ऐसे अर्थ में श्रुति का कभी तात्पर्य नहीं हो सकता, क्योंकि आत्मा में तो समस्त विश्व