भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 509, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 509

अजाशब्दस्य मायापरत्वम् ] हिन्दीसहितभामतीसंवलितम् [ ४९१

चत्वारो वर्णा निषादपंचमाः परिगृह्यीताः। क्वचिच्च 'यत्पंचजन्या विशा' (ऋ० सं० ८।५३।७) इति प्रजापरः प्रयोगः पंचजनशब्दस्य दृश्यते। तत्परिग्रहेऽपीह न कश्चिद्विरोधः। आचार्यस्तु न पञ्चविंशतेस्तत्त्वानामिह प्रतीतिरस्तीत्येवंपरतया 'प्राणादयो वाक्यशेषात्' इति जगाद ॥ १२ ॥

भवेयुस्तावत्प्राणादयः पंचजना माध्यंदिनानाम्, येऽन्नं प्राणादिष्वामनन्ति। काण्वानां तु कथं प्राणादयः पंचजना भवेयुर्येऽन्नं प्राणादिषु नामनन्तीति ? अत उत्तरं पठति—

ज्योतिषेकेषामसत्यन्ने ॥ १३ ॥

असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्यत। तेऽपि हि 'यस्मिन् पञ्च पञ्चजनाः' इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते—'तद्देवा ज्योतिषां ज्योतिः' इति। कथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानां समानमन्त्रगतया पञ्चसंख्यया केषांचिद् गृह्यते केषांचिन्नेति ? अपेक्षाभेदादित्याह। माध्यंदिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्यपेक्षा भवति। तदलाभात् काण्वानां भवत्यपेक्षा। अपेक्षाभेदाच्च समानेऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे। यथा समानेऽप्यतिरात्रे वचनभेदात्षोडशिनो ग्रहणाग्रहणे, तद्वत्। तदेवं न तावत् श्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति। स्मृतिन्यायप्रसिद्धी तु परिहरिष्येते ॥ १३ ॥


( ४ कारणत्वाधिकरणम्। सू० १४-१५ )

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥

प्रतिपादितं ब्रह्मणो लक्षणम्। प्रतिपादितं च ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम्। प्रतिपादितं च प्रधानस्याशब्दत्वम्।

भामती

अथ समन्वयलक्षणे केयमकाण्डे विरोधाविरोधचिन्ता ? भविता हि तस्याः स्थानमविरोधलक्षणमित्यत आह ॐ प्रतिपादितं ब्रह्मणो लक्षणमिति ॐ । अयमर्थः नानेकशाखागततत्तद्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तरविरोधेन वाक्यार्थावगतेरप्रामाण्यामाशङ्कयाविरोधव्युत्पादनेन प्राप्तप्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः, प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनम्, न तु लक्षणार्थः। तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते। इह तु वाक्यानां सृष्टिप्रतिपादकानां परस्प-


भामती-व्याख्या

'पञ्चजनाः' शब्द देखा जाता है। इस प्रकार आचार्यजनों का मत-भेद रहने पर भी 'पंचजन' शब्द से पञ्चविंशति तत्त्वों की कभी भी सिद्धि नहीं हो सकती। परमार्थतः वाक्यशेषगत प्राणादि ही यहाँ पञ्चजन हैं, इस आशय को मन में रख कर कहा है—'कैश्चित्तु इत्यादि'। शेष भाष्य सुगम है ॥ १२-१३ ॥


संगति—इससे पहले (१) ब्रह्म का लक्षण किया गया, (२) सभी वेदान्त-वाक्यों का ब्रह्म में समन्वय प्रतिपादित हुआ एवं (३) सांख्याभिमत प्रधानतत्त्व की अशब्दता (अनागमिकता) सिद्ध की गई। संस्थापित सिद्धान्तों पर उद्भावित कतिपय विरोधों का समाधान इस अधिकरण में किया जाता है। यहाँ जो यह शङ्का होती है कि इस समन्वयाध्याय के