भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 513, कुल 639 में से
संदर्भ में पढ़ेंसृष्टिभेदेऽपि स्रष्टुरभेदः ] हिन्दीसहितभामतीसंवलितम् ४९५
अपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत् । तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरं- परया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत् । ‘बहु स्यां प्रजायेय’ (तै० २।६) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेद- मभाषत । तथा ‘इदं सर्वमसृजत । यदिदं किंच’ (तै० २।६ ) इति समस्तजगत्सृष्टि- निर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टे । तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातं, तल्लक्षणमेवान्यत्रापि विज्ञायते - ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’, ‘तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽसृजत’ ( छा० ६।२।१, ३ ) इति । तथा ‘आत्मा वा इद- मेक एवाग्र आसीन्नान्यत्किंचन मिषत् । स ईक्षत लोकान्नु सृजै’ ( ऐ० उ० ४।१।१, २ ) इति च, एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्त- मविगीतार्थत्वात् । कार्यविषयं तु विगानं दृश्यते- क्वचिदाकाशादिका सृष्टिः क्वचित्तेजादिकेत्येवंजातीयकम् । नच कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्व- वेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम्, अतिप्रस- ङ्गात् । समाधास्यति चाचार्यः कार्यविषयमपि विगानं ‘न वियदश्रुतेः’ ( ब्र० सू० २।३।१) इत्यारभ्य भवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् । न ह्ययं सृष्ट्यादिप्रपंच प्रतिपिपादयिषितः । नहि तत्प्रतिबद्धः कश्चित्पुरुषार्थो दृश्यते श्रूयते वा । न च कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यतया गम्यमा- नत्वात् । दर्शयति च सृष्ट्यादिप्रपंचस्य ब्रह्मप्रतिपत्त्यर्थताम्- ‘अन्नेन सोम्य शुङ्गे- नापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूल-
भामती
फलवत्, 'ब्रह्मविदाप्नोति परं' 'तरति शोकमात्मवित्' इति श्रुतेः । सृष्टिज्ञानस्य तु न फलं श्रूयते तेन फलवत्सन्निधावफलं तदङ्गमिति सृष्टिज्ञानं स्रष्टृब्रह्मज्ञानाङ्गं तदनुगुणं सद्ब्रह्मज्ञानावतारोपायतया व्याख्येयम् । तथा च श्रुतिः - 'अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ' इत्यादिका । शुङ्गेनाग्रेण कार्येणेति यावत् । तस्मान्न सृष्टिप्रतिपत्तिः स्रष्टरि विप्रतिपत्तिमावहति । अपि तु गुणे त्वन्याय्यकल्पनेति तदनु- गुणतया व्याख्येया । यच्च कारणे विगानमसद्वा इदमग्र आसीदिति, तदपि तदप्येष श्लोको भवतीति
भामती-व्याख्या
यह स्वरूप तो सभी वेदान्त वाक्यों में अनुस्यूत है, उसी का ज्ञान पुरुषार्थ का साधन कहा गया है—“ब्रह्मविदाप्नोति परम्” ( तै० २।१ ) । ‘‘तरति शोकमात्मवित्’’ ( छां० ६।१।७ ) । सृष्टि के ज्ञान को कहीं भी पुरुषार्थ का साधन नहीं माना गया है, अतः “फलवत्सन्निधावफलं तदङ्गम्” ( जै० सू० ४।४।३४ ) इस न्याय के अनुसार सृष्टि का ज्ञान स्रष्टारूप ब्रह्म के ज्ञान का अङ्गमात्र है, क्योंकि ब्रह्म-ज्ञान मोक्षफलक और सृष्टि-ज्ञान फल-रहित है, अतः सृष्टि-प्रक्रिया की ऐसी व्याख्या करनी होगी, जिस से ब्रह्म-ज्ञान का अवतार ( आविर्भाव ) हो, श्रुति ने ऐसा ही कहा है—“अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ” ( छां. ६।८।४ ) । वट वृक्ष या उसके अंकुर भाग को शुङ्ग कहते हैं, यहाँ कार्य ( जन्य वस्तु ) मात्र का शुङ्ग पद उपलक्षक है । श्रुति का तात्पर्य यही है कि सृष्ट्यादि अङ्गों के द्वारा अङ्गी ( ब्रह्म ) का ज्ञान करना चाहिए [ सृष्टि और प्रलय का निरूपण एक प्रकार से ब्रह्म की व्याख्या माना गया है— “अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते” [ । इस प्रकार यह सिद्ध हो जाता है कि सृष्टिविषयक विप्रतिपत्ति स्रष्टा के विषय में किसी प्रकार की विप्रतिपत्ति की जनक नहीं, होती, अपि तु “गुणे त्वन्याय्यकल्पना” ( जै० सू० ९।३।१५ ) इस न्याय के अनुसार सृष्टिरूप गुण ( अङ्गभूत ) पदार्थों की लक्षणादि अन्याय-कल्पना के द्वारा अङ्गीभूत ब्रह्म के ज्ञान में पर्यवसान करना होगा !