भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 517, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 517

बालाकिसंवादे ब्रह्मवादः ] हिन्दीसहितभामतीसंचालितम् ४९९

न्दलक्षणस्य च कर्मणः प्राणाश्रयत्वात्, वाक्यशेषे च 'अथास्मिन्प्राण एवैकधा भवति' इति प्राणशब्ददर्शनात्, प्राणशब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात् । ये चैते पुरस्ताद्वा- लाकिना 'आदित्ये पुरुषश्चन्द्रमसि पुरुषः' इत्येवमादयः पुरुषा निर्दिष्टास्तेषामपि भवति प्राणः कर्त्ता, प्राणावस्थाविशेषत्वादित्यादिदेवतानाम्- 'कतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते' (बृह० ३।९।९) इति श्रुत्यन्तरप्रसिद्धेः । जीवो वाऽयमिह वेदितव्यतयोपदिश्यते । तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम्- 'यस्य वैतत्कर्म' इति । सोऽपि भोक्तृत्वादङ्गोपकरणभूतानामेतेषां पुरुषाणां कर्तोप- पद्यते । वाक्यशेषे च जीवलिङ्गमवगम्यते । यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामन्त्रणशब्दा- श्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थानात्प्राणादिव्यतिरिक्तं जीवं

भामती

वृत्तिः कार्येषु क्रियत इति व्युत्पत्त्या वर्तेत । न च रूढौ सत्यां व्युत्पत्तिर्युक्ताऽऽश्रयितुम् । न च ब्रह्मण उदासीनस्यापरिणामिनो व्यापारवत्ता । वाक्यशेषे चाथास्मिन् प्राण एवैकधा भवतीति श्रवणात्परिस्पन्द- लक्षणस्य च कर्मणो यत्रोपपत्तिः, स एव वेदितव्यतयोपविश्यते । आदित्यादिगतपुरुषकर्तृत्वं च प्राणस्यो- पपद्यते हिरण्यगर्भरूपप्राणावस्थाविशेषत्वादित्यादिदेवतानां कतम एको देवः प्राण इति श्रुतेः । उपक्रमा- नुरोधेन चोपसंहारे सर्वशब्दः सर्वान् पाप्मन इति च सर्वेषां भूतानामिति चापेक्षिकवृत्तंर्बहून् पाप्मनो बहूनां भूतानामित्येवं परो द्रष्टव्यः । एकस्मिन् वाक्ये उपक्रमानुरोधादुपसंहारो वर्णनीयः । यदि तु दृप्तबालाकिमब्रह्मणि ब्रह्माभिधायिनमपोद्याजातशत्रोर्वचनं ब्रह्मविषयमेवान्यथा तु तदुक्ताद्विशेषं विवक्षोर- ब्रह्माभिधानमसम्बद्धं स्यादिति मन्यते, तथापि नैवद् ब्रह्माभिधानं भवितुमर्हति, अपि तु जीवाभिधानमेव, यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामन्त्रणशब्दाश्रवणात् प्राणादीनामभोक्तृत्वमस्वामित्वं प्रतिबोध्य यष्टिघातोत्थानात् प्राणादि-

भामती-व्याख्या

जा सकता ।

वाक्यशेष में ‘‘अथास्मिन् प्राण एकधा भवति’’—ऐसा प्राण श्रुत है, अतः परिस्पन्द- नरूप क्रिया जिस पदार्थ में उपपन्न हो सके, वही यहाँ वेदितव्यतया उपदिष्ट माना जायगा । आदित्यादिगत पुरुष की कर्तृता प्राण में उपपन्न हो जाती है, क्योंकि हिरण्यगर्भरूप प्राण के आदित्यादिगत पुरुष ( देवता ) विकार माने गये हैं, अन्य श्रुतियों में भी कहा गया है— ‘‘कतम एको देवः ? प्राण इति’’ ( बृ० उ० ३।९।९ )। उपक्रम के अनुरोध पर ‘‘सर्वान् पाप्मनोऽपहत्य सर्वेषां च भूतानां श्रेष्ठ्यं पर्येति’’—इस उपसंहार-वाक्य में ‘सर्व’ शब्द पापों और भूतों की आपेक्षिक सर्वता ( भूयस्ता ) का प्रतिपादक है अर्थात् बहुत-से पापों का अपघात करके बहुत-से भूतों में श्रेष्ठता प्राप्त करता है—ऐसा ही वहाँ अर्थ होगा, क्योंकि महावाक्य में उपक्रम के अनुसार ही उपसंहार का वर्णन करना चाहिए ।

यदि ‘भ्रान्त बालाकि के अब्रह्म में ब्रह्मत्वाभिधान का निराकरण करके अजातशत्रु ने अपने वाक्य में ब्रह्म का अभिधान किया, अन्यथा बालाकि को अब्रह्माभिधायी कहना संगत क्योंकर होगा ? अतः प्राण का प्रतिपादन सम्भव नहीं’—ऐसा माना जाता है, तब भी यह कहा जा सकता है कि यह सन्दर्भ ब्रह्माभिधान का नहीं हो सकता, अपितु जीव का अभिधायक माना जा सकता है, क्योंकि वेदितव्यतया निर्दिष्ट जो आदित्य-पुरुषादि का कर्त्ता आत्मा है, उसके जिज्ञासु बालाकि को उसका बोध कराने की इच्छा से अजातशत्रु बालाकि को साथ लेकर एक सोए हुए व्यक्ति के पास गया—‘‘तौ ह पुरुषं सुप्तमाजग्मतुः’’ (बृह० उ० २।१।१५)। सोए हुए पुरुष का नाम लेकर अजातशत्रु ने पुकारा—‘‘बृहत्पाण्डुरवासः सोमराजन् !’’