भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 532, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 532
५१४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ४ सू. २२

भेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते । श्रुतिश्चैवं भवति — ‘एष संप्रसादोऽस्मा- च्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा० ८।१२।३) इति । क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति—‘यथा नद्यः स्यन्द- मानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वाञ्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मुण्ड० ३।२।८) इति । यथा लोके नद्यः स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्त्येवं जीवोऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयते दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतायै ॥ २१ ॥

अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥

अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमण-


भामती

भविष्यन्तमभेदमपादाय भेदकालेऽप्यभेद उक्तः, यथाहूः पाञ्चरात्रिकाः—
आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च ।
मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः ॥ इति ।
अत्रैव श्रुतिमुपन्यस्यति ॐ श्रुतिश्चैवम् इति ॐ । पूर्वं देहेन्द्रियाद्युपाधिकृतं कालुष्यमात्मन उक्तं, सम्प्रति स्वाभाविकमेव जीवस्य नामरूपप्रपञ्चाश्रयत्वलक्षणं कालुष्यं पार्थिवानांमणूनामिव श्यामत्वं केवलं पाकेनेव ज्ञानध्यानादिना तदपनोद्य जीवः परात्परतरं पुरुषमुपैतीत्याह ॐ क्वचिच्च जीवाश्रयमपि इति ॐ । नदीनिदर्शनं यथा सोम्येमा नद्य इति ॥ २१ ॥
तदेवमाचार्यदेशीयमतद्वयमुक्त्वाऽत्र परितुष्यन्नाचार्यमतमाह सूत्रकारः— अवस्थितेरिति काशकृत्स्नः । एतद् व्याचष्टे ॐ अस्यैव परमात्मनः इति ॐ । न जीव आत्मनोऽन्यो नापि तद्विकारः किन्त्वात्मैवाविद्यो-पधानकल्पितावच्छेदः, आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमा-


भामती-व्याख्या

अभेद में पर्यवसित हो जाता है । पाञ्चरात्रिक आचार्यगण कहते हैं—
आमुक्तेर्भेद एवासीज्जीवस्य परस्य च ।
मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः ॥
इसी मत के समर्थन में श्रुति प्रस्तुत की जाती है—“श्रुतिश्चैवं भवति” एष सम्प्रसादोऽस्मात् शरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य” (छां० ८।१२।३) ।
पहले देहेन्द्रियादि उपाधियों के द्वारा आहित जीवगत कालुष्य कहा गया, अब जीव में नाम-रूपात्मक प्रपञ्च का आश्रयत्वरूप कालुष्य स्वाभाविक कहा जाता है—“क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति” । नदी का दृष्टान्त इस प्रकार है—“यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय” (मुण्ड० ३।२।८) । अर्थात् जैसे नदियाँ अपने स्वाभाविक नाम (गङ्गादि) और रूप (श्वेत प्रवाहादि) का परित्याग करके समुद्र रूप हो जाती हैं, वैसे ही जीव भी अपने स्वाभाविक प्रपञ्चाश्रयत्वरूप कालुष्य को छोड़कर ब्रह्मरूप हो जाता है ॥ २१ ॥
कथित दोनों आचार्यों के मतों में असन्तोष व्यक्त करते हुए आचार्य काशकृत्स्न का सिद्धान्त सूत्रकार ने प्रस्तुत किया है— “अवस्थितेरिति काशकृत्स्नः” । इस सूत्र की भाष्यकार व्याख्या कर रहे हैं— “अस्यैव परमात्मनः” । जीव न तो ब्रह्म से भिन्न है और न उसका विकार, किन्तु ब्रह्म ही अविद्यारूप उपाधि के द्वारा कल्पित भेद से वैसे ही भिन्न प्रतीत होता है, जैसे घटादि उपाधियों से परिच्छिन्न होकर ‘घटाकाश’, ‘मणिकाश’ इत्यादि । घटाकाशादि भी न तो परमाकाश से भिन्न होते हैं और न उसके विकार । इस प्रकार उक्त श्रुति-सन्दर्भ में

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या) · पृष्ठ 532, कुल 639 में से · BharatKosha