भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 535, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 535

द्रष्टव्यत्वेन ब्रह्मनिर्देशः ] हिन्दीसहितभामतीसंवलितम् ५१७

भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन् विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शय- तीति। तत्रापीयमेव त्रिसूत्री योजयितव्या—'प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः'। इदमत्र प्रतिज्ञातम्—'आत्मनि विदिते सर्वं विदितं भवति' 'इदं सर्वं यदयमात्मा' (बृह० २।४।६) इति च। उपपादितं च, सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलय- त्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात्। तस्या एव प्रति- ज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गं यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञाना- त्मभावेन कथितमित्याश्मरथ्य आचार्यो मन्यते। अभेदे हि सत्येकविज्ञानेन सर्वं विज्ञानं प्रतिज्ञातमवकल्पत इति।

'उत्क्रमिष्यत एवंभावादित्यौडुलोमिः'। उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्याना- दिसामर्थ्यात् संप्रसन्नस्य परेणात्मनैक्यसंभवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते।

'अवस्थितेरिति काशकृत्स्नः'। अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनाव- स्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते।

नन्वूच्छेदाभिधानमेतत् 'एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति' (बृह० २।४।१२) इति, कथमेतदभेदाभिधानम्? नैष दोषः, विशेषविज्ञान- विनाशाभिप्रायमेतद्विनाशाभिधानं, नात्मोच्छेदाभिप्रायम्। 'अत्रैव मा भगवान्मुमुहन्न प्रेत्य संज्ञास्ति' इति पर्यनुयुज्य स्वयमेव श्रुत्याऽर्थान्तरस्य दर्शितत्वात्—'न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवति' इति। एतदुक्तं भवति—कूटस्थनित्य एवायं विज्ञानघन आत्मा नास्योच्छेदप्रस- ङ्गोऽस्ति। मात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवति। संसर्गाभावे च तत्कृतस्य विशेषविज्ञानस्याभावान्न प्रेत्य संज्ञास्तीत्युक्तमिति। यदप्यु- क्तम्—'विज्ञातारमरे केन विजानीयात्' इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन


भामती

तार्थञ्च। तृतीयपूर्वपक्षबीजनिरासे काशकृत्स्नीयेनैवेत्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात्। ऐकान्तिके ह्यद्वैते आत्मनोऽन्यकर्मकरणे केन कं पश्येदिति आत्मनश्च कर्मत्वं विज्ञातारमरे केन विजानीया- दिति शक्यं निषेद्धुम्। भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदद्वैताश्रयमशक्यमित्यवधारणस्यार्थः। न केवलं काशकृत्स्नीयदर्शनाश्रयेण भूतपूर्वंगत्या विज्ञातृत्वमपि तु श्रुतिपौर्वापर्यपर्यालोचनयाप्येवमेवेत्याह


भामती-व्याख्या

भिधान और (३) 'विज्ञातृ' शब्द का प्रयोग। इनमें से प्रथम हेतु का निरास जिस त्रिसूत्री के द्वारा किया गया, उसी] त्रिसूत्री के द्वारा द्वितीय हेतु का भी अपाकरण किया जाता है—"यदप्युक्तं प्रकृतस्यैव विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापीयमेव त्रिसूत्री योजयितव्या"। शेष भाष्य स्पष्टार्थक है, जिसकी व्याख्या भी प्रायः पहले की जा चुकी है।

पूर्व पक्ष के तृतीय हेतु का अनुवाद करते हुए निरास किया जाता है—"यदप्युक्तं विज्ञातारमरे केन विजानीयादिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम्"। यहाँ पर एवकार अवधारणार्थक है अर्थात् महर्षि काशकृत्स्न के मत का आश्रयण करके ही तृतीय हेतु का निरास किया जा सकता है, क्योंकि जीव और ब्रह्म के ऐकान्ति अभेद-पक्ष में ही 'केन कं पश्येत्' (बृ० उ० २।४।१५) इस प्रकार आत्मा से अन्य कर्म और करण कारकों का एवं 'विज्ञातारमरे केन विजानीयात्' (बृह० उ० २।४।१४) इस प्रकार आत्मगत कर्मत्व का 'निषेध किया जा सकता है, भेदाभेद-पक्ष या ऐकान्तिक भेद-पक्ष में यह सब कुछ नहीं किया