भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 537, कुल 639 में से
संदर्भ में पढ़ेंद्रष्टव्यत्वेन ब्रह्मनिर्देशः ] हिन्दीसहितभामतीसंवलितम् ५१९
तनामरूपरचितदेहाद्युपाधिनिमित्तो भेदो न पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादि- भिरभ्युपगन्तव्यः । 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' (छा० ६।२।१) 'आत्मवेदं सर्वम्' (छा० ७।२५।२), 'ब्रह्मैवेदं सर्वम्' (मुण्ड० २।२।११), 'इदं सर्वं यदद्यमात्मा' (बृ० २।४।६), 'नान्योऽतोऽस्ति द्रष्टा' (बृ० ३।७।२३), 'नान्यदतोऽस्ति द्रष्टृ' (बृ० ६।८।११) इत्येवंरूपाभ्यः श्रुतिभ्यः । स्मृतिभ्यश्च 'वासुदेवः सर्वमिति' (गी० ७।१९), 'क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत' (गी० १३।२), 'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्' (गी० १३।२८) इत्येवंरूपाभ्यः, भेददर्शनापवादाच्च 'अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः' (बृ० १।४।१०), 'मृत्योः स मृत्यु- माप्नोति य इह नानेव पश्यति' (बृ. ४।४।१९) इत्येवंजातीयकात् । 'स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म' (बृ० ४ ४।२५) इति चात्मनि सर्वविक्रि- याप्रतिषेधात्, अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थत्वानुपप- त्तेश्च । निरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यते, 'वेदान्तविज्ञान- सुनिश्चितार्थाः' (मुण्ड० ३।२।६) इति च श्रुतेः । 'तत्र को मोहः कः शोक एकत्वमनु- पश्यतः' (ईशा० ७) इति च । स्थितप्रज्ञलक्षणस्मृतेश्च (गी० २।५४) । स्थिते च
भामती
सुनिश्चितार्थाः' इति । तदेतदाह ॐ अन्यथा मुमुक्षूणाम् इति ॐ । एकत्वमनुपश्यत इति श्रुतिर्न पुनरेकत्वा- नेकत्वे अनुपश्यत इति । ननु यदि क्षेत्रज्ञपरमात्मनोरभेदो भाविकः, कथं तर्हि व्यपदेशबुद्धिभेदौ क्षेत्रज्ञः परमात्मेति ? कथञ्च नित्यशुद्धबुद्धमुक्तस्वभावस्य भगवतः संसारिता ? अविद्याकृतनामरूपोपाधिवशादिति चेत्, कस्येयमविद्या ? न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् । नापि परमात्मनस्तस्य विद्यैकरसस्य विद्याश्रयत्वानुपपत्तेः । तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्धधर्मसंसर्गाद् बुद्धि- व्यपदेशभेदाच्चास्ति जीवेश्वरयोर्भेदोऽपि भाविक इत्यत आह ॐ स्थिते च परमात्मक्षेत्रज्ञात्मैकत्वे इति ॐ । न तावद्भेदाभेदावेकत्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे । द्वैतदर्शननिन्दया
भामती-व्याख्या
भी यही कह रहे हैं— "अन्यथा च मुमुक्षूणां निरपवादज्ञानं न स्यात्" । "एकत्वमनुपश्यतः" (ई० ७) इस श्रुति के द्वारा एकत्वानेकत्व-दर्शी (भेदाभेद-दर्शी) का भी निरास किया गया है ।
शङ्का—यदि क्षेत्रज्ञ (जीव) और परमात्मा का अभेद है, तब उनके वाचक शब्द और उनके ज्ञानों का [ क्षेत्रज्ञः, परमात्मा—ऐसा ] भेद क्यों ? नित्य, शुद्ध, बुद्ध और मुक्तस्वरूप परमात्मा जीव के रूप में संसारी क्योंकर बनेगा ? यदि कहा जाय कि अविद्या-जनित नाम-रूप उपाधि के द्वारा ब्रह्म में कर्तृत्ववादि संसार आरोपित हो जाता है, तब जिज्ञासा होती है कि वह अविद्या किस की है ? जीव की नहीं हो सकती, क्योंकि वह ब्रह्म से भिन्न नहीं और वह अविद्या परमात्मा को भी नहीं हो सकती, क्योंकि विद्यैकरस्वरूप ब्रह्म अविद्या का आश्रय नहीं हो सकता [ आचार्य भास्कर की यही आपत्ति है— "कथं तस्य संसारित्वमिति चेत्, अविद्या- कृतनामरूपोपाधिवशादिति । तत्र ब्रूमः---कस्येयमविद्या ? न तावज्जीवस्य, वस्तुभूतस्य तस्यानभ्युपगमात् । नापीश्वरस्य, नित्यविज्ञानप्रकाशत्वादाज्ञानं विरुध्यते" (ब्र. सू. भास्कर पृ० ८२)] ।
समाधान—उक्त शङ्का का समाधान भाष्यकार ने किया है— "क्षेत्रज्ञपरमात्मैकत्व- विषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्" । भेद और अभेद दोनों एकत्र नहीं रह सकते—इस तथ्य का विस्तार से वर्णन प्रथम पाद में किया जा चुका है । द्वैतदर्शन की निन्दा और ऐकान्तिक अद्वैत के प्रतिपादन में ही सभी वेदान्त-वाक्यों का तात्पर्य पूर्वापर की