भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 571, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 571

सांख्यतर्कविरोधनिरासः ] हिन्दीसहितभामतीसंवलितम् ५५३

धर्मवत् । तथा च श्रुतिः— 'नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ' ( का० १।२।९ ) इति । 'को अद्धा वेद क इह प्रवोचत्' 'इयं विसृष्टिर्यत आबभूव' ( ऋ० सं० १।३०।६ ) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः । स्मृतिरपि भवति — 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्' इति । 'अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते, ( गी० २।२५ ) इति च । 'न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः' ( गी० १०।२ ) इति चैवंजातीयका । यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् । नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः संभवति । श्रुत्यनुगृहीत एव ह्यत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते । स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वं, संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मत्वं प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेक इत्येवंजातीयकः । 'तर्काप्रतिष्ठानात्' ( ब्र० सू० २।१।११ ) इति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति । योऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत


भामती

स्मृत्यागमसिद्धं ब्रह्मणस्तर्काविषयत्वं, कथं तर्हि श्रवणातिरिक्तमननविधानमित्यत आह ॐ यदपि श्रवणव्यतिरेकेण इति ॐ । तर्को हि प्रमाणविषयविवेचकतया तदितिकर्त्तव्यताभूतस्तदाश्रयोऽसति प्रमाणेऽनुग्राह्यस्याश्रयाभावात् शुष्कतया नाद्रियते । यस्त्वागमप्रमाणाश्रयस्तद्विषयविवेचकस्तदविरोधी, स मन्तव्य इति विधीयते । ॐ श्रुत्यनुगृहीत इति ॐ । श्रुत्या श्रवणस्य पश्चादितिकर्त्तव्यतात्वेन गृहीतः । ॐ अनुभवाङ्गत्वेन इति ॐ मतो हि भाव्यमानो भावनाया विषयतयाऽनुभूतो भवतीति मननमनुभवाङ्गम् । ॐ आत्मनोऽनन्वागतत्वम् इति ॐ । स्वप्नाद्यवस्थाभिरसंपृक्तत्वमुदासीनत्वमित्यर्थः । अपि च चेतनकारणवादिभिः कारणसालक्षण्येऽपि कार्यस्य कथञ्चिच्चैतन्याविर्भावानाविर्भावाभ्यां विज्ञानं चाविज्ञानं चाभवदिति जगत्कारणे योजयितुं शक्यम् । अचेतनप्रधानकारणवादिनां तु दुर्घटमेतत् । नह्यचेतनस्य जगत्कारणस्य विज्ञानरूपता संभविनी, चेतनस्य जगत्कारणस्य सुषुप्ताद्यवस्थास्विव सतोऽपि चैतन्यस्यानाविर्भावतया शक्यमेव


भामती-व्याख्या

एवं इतर सभी प्रमाणों की सीमा से परे है । 'नैषा तर्केण मतिरापनेया' ( कठो. १।२।९ ) आगमों के द्वारा ब्रह्म में तर्काविषयत्व प्रतिपादित है । यदि ब्रह्म में तर्काविषयत्व आगम-सिद्ध है, तब श्रवण के पश्चात् मननरूप तर्क का विधान क्यों किया गया है ? इस प्रश्न का उत्तर है— "यदपि श्रवणव्यतिरेकेण इत्यादि" । आशय यह है कि तर्क की जो आदरणीयता सूचित की गई है, वह शुष्क तर्क की नहीं । जैसे कुठार काष्ठ-छेदन का करण और उद्यमन-निपातन कुठार का इतिकर्त्तव्य ( सहायक व्यापार ) मात्र है, वैसे ही प्रमा ज्ञान की उत्पत्ति में प्रमाण करण एवं तर्क इतिकर्त्तव्यमात्र है । अपने जिस उपकरणीय एवं आश्रयीभूत प्रमाण के विषय का विवेचक है, उस प्रमाण के न होने पर असहाय तर्क को शुष्क तर्क कहा जाता है । इसके विपरीत जो तर्क अपने आगमादि प्रमाणों के अश्रित रह कर उनके विषय का विवेचन करता है, अपने मूलभूत प्रमाण का अविरोधी और सच्चा सहायक है, उस तर्क को पूर्ण समादर दिया गया है । उसी का मनन के रूप में विधान किया गया है—"श्रुत्यनुगृहीत एव तर्कोऽनुभवाङ्गत्वेनाश्रीयते" । 'श्रुत्यनुगृहीतः' का अर्थ है—श्रुत्या श्रवणस्य पश्चाद् इतिकर्त्तव्यतात्वेन गृहीतः । मनन को अनुभव का अङ्ग इसी लिए कहा जाता है कि श्रुत और मत ( मनन-युक्त ) विषय निदिध्यासित या भाव्यमान होकर अनुभूत ( प्रत्यक्ष ) हो जाता है । "आत्मनोऽनन्वागतत्वम्" का अर्थ स्वप्नादि अवस्थाओं से असम्पृक्तता या उदासीनत्व है ।

७०

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या) · पृष्ठ 571, कुल 639 में से · BharatKosha