भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 585, कुल 639 में से
संदर्भ में पढ़ें| कार्यस्यकारणानन्यत्वम् ] | हिन्दीसहितभामतीसंवलितम् | ५६७ |
|---|
श्रुत्या बाध्यत इति ? अत्रोच्यते-- प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके भोक्ता चेतनः शारीरः, भोग्याः शब्दादयो विषया इति । यथा भोक्ता देवदत्तो भोज्य ओदन इति । तस्य च विभागस्याभावः प्रसज्येत, यदि भोक्ता भोग्यभावमापद्येत भोग्यं वा भोक्तृभावमापद्येत । तयोश्चेतरेतरभावापत्तिः परमकारणाद् ब्रह्मणोऽनन्यत्वात्प्रसज्येत । न चास्य प्रसिद्धस्य विभागस्य बाधं युक्तम् । यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टस्तथातीतानागतयोरपि कल्पयितव्यः । तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत्तं प्रति ब्रूयात्—स्याल्लोकवदिति । उपपद्यत एवायमस्मत्पक्षेऽपि विभागः एवं लोके दृष्टत्वात् । तथा हि—समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीचीतरङ्गबुद्बुदादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते । नच समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति । न च तेषामितरेतरभावानापत्तावपि समुद्रात्मनोऽन्यत्वं भवति । एवमिहापि—न च भोक्तृभोग्ययोरितरेतरभावापत्तिः, नच परस्माद् ब्रह्मणोऽन्यत्वं भविष्यति । यद्यपि भोक्ता न ब्रह्मणो विकारः, 'तत्सृष्ट्वा तदेवानुप्राविशत्' (तै० २।६) इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात्, तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्त इत्यतः परमकारणाद् ब्रह्मणोऽनन्यत्वेऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम् । १३ ॥
( ६ आरम्भणाधिकरणम् । सू० १४-२० )
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥
अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति
भामती
शङ्कामापाततोऽविचारितलोकसिद्धदृष्टान्तोपदर्शनमात्रेण निराकरोति सूत्रकारः ॐ स्याल्लोकवत् ॐ ॥१३॥
परिहाररहस्यमाह—तदनन्यत्वमारम्भणशब्दादिभ्यः ।
पूर्वस्मत्वविरोधादस्य विशेषाभिधानोपक्रमस्य विभागमाह ॐ अभ्युपगम्य चेमम् इति ॐ ।
भामती-व्याख्या
सिद्धान्त— उक्त शङ्का का निराकरण सूत्रकार ने लोक-प्रसिद्ध भेद को आपाततः मानते हुए किया है—"स्याल्लोकवत्" । अर्थात् लोक में फेन और तरङ्गादि का अपने कारणीभूत समुद्र से अभेद रहने पर भी परस्पर अभेद नहीं, भेद ही माना जाता है, वैसे ही भोक्ता और भोग्यादि का अपने कारणीभूत ब्रह्म से अभेद रहने पर भी परस्पर भेद-व्यवहार अक्षुण्ण रहेगा ॥ १३ ॥
संशय— पूर्वाधिकरण में जो ब्रह्म से कार्य प्रपञ्च के भेद और अभेद—दोनों सिद्ध किए गए हैं, दोनों पारमार्थिक हैं ? अथवा व्यावहारिक ?
पूर्वपक्ष— 'कारणात् कार्यस्य भेदाभेदौ पारमार्थिकौ, अबाधितत्वाद्, ब्रह्मवत्' अथवा 'अविरुद्धौ, लोकप्रसिद्धत्वात्, समुद्रात् तरङ्गादिभेदाभेदवत्'—ऐसे अनुमानों के द्वारा उक्त भेद और अभेद पारमार्थिक सिद्ध होते हैं ।
सिद्धान्त— यद्यपि अप्रतिष्ठितत्व दोष के कारण अनुमानादि तर्कों का निरा-