सामग्री पर जाएँ
भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 614, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 614
५९६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. २ पा. १ सू. १८

कारणस्यात्मभूत एवान्यात्मभूतस्यानारभ्यत्वादित्यभाणि । न च विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति । नहि देवदत्तः संकोचितहस्तपादः प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् । तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् । जन्मोच्छेदान्तरितत्वात्तन्न युक्तं नान्यत्रेति चेत्, न; क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् । अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा । तेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा । तत्रेहग्जन्मोच्छेदान्तरितत्वाच्छेदसतः सत्त्वापत्तिः, सतश्चासत्त्वापत्तिः, तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः । तथा च बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च । एतेन क्षणभङ्गवादः प्रतिवदितव्यः । यस्य पुनः प्रागुत्पत्तेरसत्कार्यं तस्य निर्विषयः कारकव्यापारः स्यात् । अभावस्य विषयत्वानुपपत्तेराकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिकवत् । समवायिकारणविषयः कारकव्यापारः स्यादिति चेत्, न; अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् । समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत्, न; सत्कार्यतापत्तेः । तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम् । तथा मूलकारणमेवान्त्यात्कार्यात्तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते । एवं युक्तेः कार्यस्य

भामती

तत्, काल्पनिकस्तु भेदः, एवं वस्तुतः कार्यतत्त्वं न कारणाद्भिद्यते, कारणस्वरूपमेव हि तत्, अनिर्वाच्यं तु कार्यरूपं भिन्नमिवाभिन्नमिव चावभासत इति । तदिदमुक्तं ॐ वस्त्वन्यत्वम् इति ॐ । वस्तुतः परमार्थतोऽन्यत्वं न विशेषदर्शनमात्राद्भवति, सांव्यवहारिके तु कथञ्चित्तत्वान्यत्वे भवत एवेत्यर्थः । अनयैव हि विशेष संदर्भों योज्यः । असत्कार्यवादिनं प्रति दूषणान्तरमाह ॐ यस्य पुनः इति ॐ । कार्यस्य कारणादभेदे सविषयत्वं कारकव्यापारस्य स्यान्नान्यथेत्यर्थः । ॐ मूलकारणं ॐ ब्रह्म । शब्दान्तराच्चेति । सूत्रावयवमवतार्य व्याचष्टे ॐएवं युक्तेः कार्यस्य ॐ इति । अतिरोहितार्थम् ॥ १८ ॥

भामती-व्याख्या

उनका भेद काल्पनिकमात्र है। वैसे ही कार्यतत्त्व अपने कारणतत्त्व से परमार्थतः भिन्न नहीं होता, वह कारण-स्वरूप ही होता है किन्तु 'अनिर्वाचनीय कार्य अपने कारण से भिन्न एवं अभिन्न जैसा प्रतीत होता है। यत्किञ्चित् विशेषता (भेद) देख लेनेमात्र से वस्तु अन्य नहीं हो जाती—'न च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं भवति'। यहाँ 'वस्तुतः' का अर्थ परमार्थतः है । थोड़ा-सा अन्तर दिख जाने मात्र से यदि वस्तु-भेद हो, तब एक देवदत्त अपने हाथ को संकुचित या विस्तारित कर लेनेमात्र से भिन्न हो जायगा और 'सोऽयं देवदत्तः'-इस प्रकार की प्रत्यभिज्ञा निराधार हो जायगी । 'ये तन्तु हैं, पट नहीं'-इत्यादि व्यवहार तो कथंचित् हो जाता है और पटाकारेण तन्तुओं को व्यवस्थित करने के लिए कारक-चक्र का व्यापार भी सार्थक है । इसी प्रकार भाष्य के शेष सन्दर्भ की व्याख्या कर लेनी चाहिए।

असत्कार्यवाद में दूषणान्तर का उद्भावन किया जाता है—"यस्य पुनः"। पटादि कार्यों का तन्त्वादि कारणों से अभेद मानने पर तन्तुओं के आश्रित कारक-व्यापार उपपन्न हो जाता है, किन्तु कार्य को तन्तुओं से अन्य एवं असत् मानने पर वह क्रिया किस द्रव्य पर होगी ? भाष्यकार ने जो कहा है—"मूलकारणमेवान्त्यात् कार्यात्"। यहाँ 'मूलकारण' पद से 'ब्रह्म' का ग्रहण किया गया है। इस अट्ठारहवें सूत्र के "शब्दान्तराच्च"—इस भाग का