भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 615, कुल 639 में से
संदर्भ में पढ़ेंसत्कार्यवादः ] | हिन्दीसहितभामतीसंवलितम् | ५९७
प्रागुत्पत्तेः सत्त्वमनन्यत्वं च कारणादवगम्यते शब्दान्तराच्चैतदवगम्यते । पूर्वसूत्रेऽसद्द्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोऽन्यः सद्द्व्यपदेशी शब्दः शब्दान्तरम्—'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्यादि । 'तद्धैक आहुरसदेवेदमग्र आसीद्' इति चासत्पक्षमुपक्षिप्य 'कथमसतः सज्जायेत' इत्याक्षिप्य 'सदेव सोम्येदमग्र आसीद्' (छा० ६।२।१) इत्यवधारयति । तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिद्ध्यतः । यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्पश्चाच्चोत्पद्यमानं कारणे समवेयात्तदाऽन्यत्कारणात्स्यात् , तत्र 'येनाश्रुतं श्रुतं भवति' (छा० ६।१।३) इतीयं प्रतिज्ञा पीड्येत । सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते ॥ १८ ॥
पटवच्च ॥ १९ ॥
यथा च संवेष्टितः पटो न व्यक्तं गृह्यते—किमयं पटः ? किं वाऽन्यद् द्रव्यमिति । स एव प्रसारितो यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते । यथा च संवेष्टनसमये पट इति गृह्यमाणोऽपि न विशिष्टायामविस्तारो गृह्यते, स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते–न संवेष्टितरूपादन्योऽयं भिन्नः पट इति । एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापारादिभिर्व्यक्तं स्पष्टं गृह्यते । अतः संवेष्टितप्रसारितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः॥१९॥
यथा च प्राणादि ॥ २० ॥
यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते, नाकुञ्चनप्रसारणादिकं कार्यान्तरम् । तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं
भामती
"पटवच्च", "यथा च प्राणादि" इति च सूत्रे निगदव्याख्यातेन भाष्येण व्याख्याते ॥ १९-२० ॥
भामती-व्याख्या
अवतरणपूर्वक व्याख्यान किया जाता है—"एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वमनन्यत्वं कारणादवगम्यते शब्दान्तराच्चैतदवगम्यते"। पूर्वसूत्र में जो "धर्मान्तरेण"—ऐसा कह कर 'अव्याकृतत्व' धर्म के द्वारा असत्त्व का उपपादन कर कार्य-सत्त्व की स्थापना की गई है, वहाँ 'शब्दान्तर' को अभ्युच्चय के रूप में प्रस्तुत किया गया है । 'शब्दान्तर' का अर्थ है—पूर्वसूत्र में उदाहृत 'असत्' शब्द से भिन्न 'सत्' शब्द के द्वारा भी सत्कार्यवाद की सिद्धि होती है—"सदेव सोम्येदमग्र आसीत्" (छां० ६।२।१) । १८ ॥
"पटवच्च"—इस सूत्र के द्वारा यह कहा गया है कि जैसे वेष्टित (लिपटे हुए) वस्त्र का लम्बा-चौड़ा आकार दिखाई नहीं देता और प्रसारित (फैलाए हुए) वस्त्र का आकार प्रकट हो जाता है। वैसे ही कारणावस्था में कार्य सत् होने पर भी अव्यक्त और बुने जाने पर सुव्यक्त हो जाता है ॥ १९ ॥
"यथा च प्राणादि"—यह सूत्र अर्थक्रिया-भेद में असत्कार्य की साधकता को पङ्गु कर देता है। जैसे निरुद्ध (समाधिस्थ) प्राण अपने शरीर में आकुञ्चन-प्रसारणादि क्रियाएँ नहीं कर सकता, वैसे ही कारणावस्था में पटादि कार्य भी प्रावरणादि कार्य नहीं करता—एतावता असत् नहीं हो सकता ॥ २० ॥