सामग्री पर जाएँ
भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 617, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 617

स्रष्टुर्हिताकरणाभावः ] | हिन्दीसहितभामतीसंचलितम् | ५९९

सन्नत्यन्तमलिनं देहमात्मत्वेनोपेयात्। कृतमपि कथञ्चिद्यद् दुःखकरं तदिच्छया जह्यात्। सुखकरं चोपाददीत। स्मरेच्च मयेदं जगद्विम्बं विचित्रं विरचितमिति। सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति। यथा च मायावी स्वयं प्रसारितां मायामिच्छयाऽनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत्। स्वमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम्। एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति मन्यते ॥ २१ ॥

अधिकं तु भेदनिर्देशात् ॥ २२ ॥

तु शब्दः पक्षं व्यावर्तयति। यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत्, तद्वयं जगतः स्रष्टृ ब्रूमः। न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते। न हि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यम्, नित्यमुक्तस्वभावत्वात्। न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा कचिदप्यस्ति, सर्वज्ञत्वात् सर्वशक्तित्वाच्च। शारीरस्त्वनेवंविधः। तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः, न तु तं वयं जगतः स्रष्टारं ब्रमः। कुत एतत्? भेदनिर्देशात्। 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' (बृ० २।४।५), 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' (छा० ८।७।१), 'सता सोम्य तदा संपन्नो भवति' (छा० ६।८।१), 'शारीर आत्मा प्राज्ञेनात्मनान्वारूढः' (बृ० ४।३।३५) इत्येवंजातीयकः कर्तृकर्मादिभेदनिर्देशो जीवाद्धिकं ब्रह्म दर्शयति। नन्वभेदनिर्देशोऽपि दर्शितः-'तत्त्वमसि' इत्येवंजातीयकः। कथं भेदाभेदौ विरुद्धौ संभवेयाताम्? नैष दोषः, आकाशघटाकाशन्यायेनोभयसंभवस्य तत्र तत्र प्रतिष्ठापितत्वात्। अपि च यदा तत्त्वमसीत्येवंजातीयकेनाभेदनिर्देशेना-


भामती

बन्धनागारमात्मनः कृत्वाऽनुप्रविशति इत्यादि ॐ । तस्मान्न चेतनकारणं जगदिति पूर्वः पक्षः ॥ २१ ॥

सत्यमयं परमात्मा सर्वज्ञत्वाद्यथा जीवान् वस्तुत आत्मनोऽभिन्नान् पश्यति, पश्यत्येवं न भावत एषां सुखदुःखादिवेदनासङ्गोऽस्ति, अविद्यावशाच्चैषां तदभिमान इति। तथा च तेषां सुखदुःखादिवेदनायामप्यहमुदासीन इति न तेषां बन्धनागारनिवेशेऽप्यस्ति क्षतिः काचिन्ममेति न हिताकरणादिदोषापत्तिरिति सिद्धान्तस्तद्विवमुक्तम् ॐ अपि च यदा तत् त्वमसि इति ॐ। अपि चेति चः पूर्वोपपत्तिसाहित्यं द्योतयति, नोपपत्त्यन्तरताम् ॥ २२ ॥


भामती-व्याख्या

प्रविशति।" किन्तु ब्रह्मात्मक जीव स्वयं अत्यन्त निर्मल होकर नितान्त मलिन शरीर को अपना रूप समझने की भूल क्योंकर करेगा? अतः चेतन तत्त्व के द्वारा जगत् की रचना सम्भव नहीं—यह पूर्वपक्ष है ॥ २१ ॥

सिद्धान्त—यह सत्य है कि परमात्मा सर्वज्ञ होने के कारण जैसे जीवों को अपना रूप समझता है और यह भी जानता है कि जीवों को वस्तुतः दुःखादिरूप अहित (अनिष्ट) उपभोग नहीं करना पड़ता, केवल अविद्या के चंगुल में फँस कर जीव अपने को बँधा हुआ मानते हैं किन्तु मैं असङ्ग उदासीन हूँ। जीवों को वैसा अभिमान होने पर भी मेरी (ब्रह्म की) कोई क्षति नहीं, फलतः पूर्वपक्षोक्त हिताकरणादि दोषों की प्रसक्ति नहीं होती। भाष्यकार यही कह रहे हैं—"अपि च यदा तत्त्वमसि"। 'अपि च'—यहाँ चकार के द्वारा पूर्वोक्त युक्ति की केवल अङ्गता इस युक्ति में सूचित की गई है, युक्त्यन्तरता नहीं अर्थात् अभेद-साक्षात्कार के पहले जीव अपने से भिन्न परमेश्वर को प्रपञ्च का रचयिता मानता है और अभेद-साक्षात्कार के अनन्तर किसी को भी स्रष्टा नहीं मानता ॥ २२ ॥

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या) · पृष्ठ 617, कुल 639 में से · BharatKosha