भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 618, कुल 639 में से
संदर्भ में पढ़ें| ६०० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. २४ |
|---|
भेदः प्रतिबोधितो भवति, अपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वम्, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् । तत्र कुत एव सृष्टिः ? कुतो वा हिताकरणादयो दोषाः ? अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारो न तु परमार्थतोऽस्तीत्यसकृदवोचाम । जन्ममरणोच्छेदनाद्यभिमानवत् ! अबाधिते तु भेदव्यवहारे 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥ २२ ॥
अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥
यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयोऽन्ये मध्यमवीर्याः सूर्यकान्तादयोऽन्ये प्रहीणाः श्ववायसप्रक्षेपणार block? नहीं, श्ववायसप्रक्षेपणार block पाषाणा इत्यनेकविधं वैचित्र्यं दृश्यते, यथा चैकपृथिव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनार्कपाकपंचकादिषूपलक्ष्यते, यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति, एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतस्तदनुपपत्तिः, परपरिकल्पितदोषानुपपत्तिरित्यर्थः । श्रुतेश्च प्रामाण्याद्विकारस्य च वाचारम्भणमात्रत्वात्स्वप्नदृश्यभाववैचित्र्यवच्चेत्यभ्युच्चयः ॥ २३ ॥
( ८ उपसंहारदर्शनाधिकरणम् । सू० २४-२५ )
उपसंहारदर्शनानेति चेन्न क्षीरवद्धि ॥ २४ ॥
चेतनं ब्रह्मकमद्वितीयं जगतः कारणमिति यदुक्तं; तन्नोपपद्यते । कस्मात् ?
भामती
स्यादेतत्—यदि ब्रह्मविवर्त्तो जगत् , हन्त सर्वस्यैव जीववच्चैतन्यप्रसङ्ग इत्यत आह ॐ अश्मादिवच्च तदनुपपत्तिः ॐ । अतिरोहितार्थेन भाष्येण व्याख्यातम् ॥ २३ ॥
ब्रह्म खल्वेकमद्वितीयतया परानपेक्षं क्रमेणोत्पद्यमानस्य जगतो विविधविचित्ररूपस्योपादानमुपेयते, तदनुपपन्नम् । नह्येकरूपात्कारणात् कार्यभेदो भवितुमर्हति तस्याकस्मिकत्वप्रसङ्गात् । कारणभेदो हि कार्यभेदहेतुः । क्षीरबीजादिभेदाद्दध्यङ्कुरादिकार्यभेददर्शनात् । न चाक्रमात् कारणात्कार्यक्रमो युज्यते । समर्थस्य
भामती-व्याख्या
यदि समस्त (जड़ाजड़ात्मक) जगत् ब्रह्म का ही विवर्त (कार्य) है, तब जीव के ही समान जड़ात्मक जगत् भी चेतनरूप होना चाहिए—इस आक्षेप का निराकरण सूत्रकार ने किया है—"अश्मादिवच्च तदनुपपत्तिः।" अर्थात् लोक में जैसे एक ही पृथिवीतत्त्व के पाषाणादि काय सभी एक समान नहीं होते, अपितु कुछ हीरा-वैडूर्य (विदुरदेशोत्पन्न वैडूर्य या लहसुदिया) आदि के समान उत्तम (बहुमूल्य), कोई (सूर्यकान्तादि) मध्यम और कोई निकृष्ट (कूकुर, सूकरादि को मार भगाने के काम के) होते हैं। इसी प्रकार जगत् में वैचित्र्य उपपन्न हो जाता है, अतः एकरूपापत्ति का दोष प्रसक्त नहीं होता ॥ २३ ॥
संशय— सृष्टि-प्रतिपादक वेदान्त-वाक्यों का जो अकेले (सहायक-सामग्री-निरपेक्ष) ब्रह्म में समन्वय किया गया, वह युक्ति-विरुद्ध है? अथवा नहीं?
पूर्वपक्ष— एक, अद्वितीय, परानपेक्ष ब्रह्म को जो आकाशादि-क्रम से उत्पद्यमान