सामग्री पर जाएँ
भारतकोश
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

पृष्ठ 621, कुल 639 में से

संदर्भ में पढ़ें
पृष्ठ 621

निरवयवस्य स्रष्टृत्वम् ] हिन्दीसहितभामतीसंवलितम् ६०१

भ्रमः । यथा 'लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽ- नपेक्ष्यैव किंचिद्वाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि च रथादीनि च निर्मिमाणा उपलभ्यन्ते, मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् । तन्तुनाभश्च स्वत एव तन्तून्सृजति बलाका चान्तरेणैव शुक्लं गर्भं धत्ते, पद्मिनी चानपेक्ष्य किञ्चित्प्रस्थानसाधनं सरोऽन्तरात्स- रोऽन्तरं प्रतिष्ठते, एवं चेतनमपि ब्रह्मानपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति, स यदि ब्रूयात्-य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रह्मणा न समाना भवन्ति, शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादन उपा- दानम्, नतु चेतन आत्मा, तन्तुनाभस्य च क्षुद्रतरजन्तुभक्षणाल्लालो कठिनातामा- पद्यमाना तन्तुर्भवति बलाका च स्तनयित्नु रवश्रवणाद्गर्भं धत्ते पद्मिनी च चेतनप्रयुक्ता सत्यचेतनेनैव शरीरेण सरोऽन्तरात्सरोऽन्तरमुपसर्पति, वल्लीव वृक्षं, नतु स्वयमे- वाचेतना सरोऽन्तरोपसर्पणे व्याप्रियते । तस्मान्नैते ब्रह्मणो दृष्टान्ता इति । तं प्रति ब्रूयात्-नायं दोषः, कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति । यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साध- नमपेक्षन्ते न देवादयः, तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येताव- द्रथं देवायुदाहरणेन विवक्षामः। तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवि- तुमर्हतीति नास्त्येकान्त इत्यभिप्रायः ॥ २५ ॥


( ९ कृत्स्नप्रसक्त्यधिकरणम् । सू० २६-२९ )

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २६ ॥

चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिबच्चानपेक्ष्य बाह्यसाधनं स्वयं परि-

भामती

ननु न ब्रह्मणस्तत्त्वतः परिणामो येन कात्र्स्न्यभागविकल्पेनाक्षिप्येत, अविद्याकल्पितेन तु नाम-रूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मना तत्त्वान्यत्वाभ्यामनिर्वचनीयेन परिणामादिव्यवहारास्पदत्वं ब्रह्म प्रतिपद्यते । न च कल्पितं रूपं वस्तु स्पृशति, न हि चन्द्रमसि तैमिरिकस्य द्वित्वकल्पना चन्द्रमसो द्वित्वमावहति, तदनुपपत्त्या वा चन्द्रमसोऽनुपपत्तिः, तस्मादवास्तवो परिणामकल्पनानुपपद्यमानापि न परमार्थसतो ब्रह्मणोऽनुपपत्तिमावहति, तस्मात्पूर्वपक्षाभावादनारभ्यमिदमधिकरणमित्यत आह ॐ चेतन-

भामती-व्याख्या

संशय— निरवयव ब्रह्म में जगत् की उपादानता क्या असम्भव है ? अथवा सम्भव ?
पूर्वपक्ष— निरवय ब्रह्म का परिणाम सम्भव नहीं ।
शङ्का— यहाँ कृत्स्नशः या अवयवशः परिणाम का विकल्प तब कर सकते थे, जब कि जगत् को वस्तुतः ब्रह्म का परिणाम माना जाता । वेदान्त-सिद्धान्त में ब्रह्म का तत्त्वतः परिणाम माना नहीं जाता, केवल अविद्या-कल्पित नाम-रूपात्मक अनिर्वचनीय प्रपञ्च की अव्याकृतता ( अनभिव्यक्ति ) और व्याकृतता ( अभिव्यक्ति ) को लेकर ब्रह्म में परिणामिता का व्यवहारमात्र हो जाता है । कल्पित पदार्थ का अपनो आधार वस्तु से कोई लगाव नहीं होता, जैसे कि एक चन्द्रमा में तैमिरिक (तिमिररोगाक्रान्त) व्यक्ति के द्वारा कल्पित द्वित्व एक चंद्रमा को न तो दो कर देता है और न द्वित्व की अनुपपत्ति से चंद्रमा की अनुपपत्ति होती है । फलतः अवास्तवो परिणाम-कल्पना स्वयं कथित विकल्पों के द्वारा अनुपपद्यमान होकर ब्रह्म को अनुपपन्न नहीं कर सकती । इस प्रकार उक्त विकल्प-संवलित पूर्वक्ष उठाया ही नहीं जा