बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 11, कुल 152 में से
संदर्भ में पढ़ेंअव्यक्तषड्विधम् ७ अथाव्यक्तकल्पना । (१)यावत्तावत् कालको नीलकोऽन्यो वर्णः पीतो लोहितश्चैत(२)दाद्याः । अव्यक्तानां कल्पिता मानसंज्ञा- स्तत्संख्यानं कर्तुमाचार्यवर्यैः ॥५॥ अव्यक्तसंकलनव्यवकलने करणसूत्रं वृत्तार्धम् । योगोऽन्तरं तेषु समानजात्योर्विभिन्नजात्योश्च पृथक् स्थितिश्च । उदाहरणम् । स्वमव्यक्तमेकं सखे सैकरूपं धनाव्यक्तयुग्मं विरूपाष्टकं च । युतौ पक्षयोरेतयोः किंधनर्णे विपर्यस्य चैक्ये भवेत् किं वदाशु॥१॥ न्यासः- या १ रु १ । या २ रू ८̇ । अनयोर्योगे जातम् या ३ रू ७̇ । आद्यपक्षस्य धनर्णव्यत्यासे- न्यासः- या १̇ रु १̇ । या २ रू ८̇ । योगेऽनयोर्जातम् या १ रु ९̇ । द्वितीयस्य व्यत्यासे- न्यासः । या १ रु १ । या २̇ रु ८ । योगे जातम् या १̇ रु ९ । उभयोर्व्यत्यासे- न्यासः- या १̇ रु १̇ । या २̇ रु ८ । योगे जातम् या ३̇ रु ७ । अन्यदुदाहरणम् । धनाव्यक्तवर्गत्रयं सत्रिरूपं क्षयाव्यक्तयुग्मेन युक्तं च किं स्यात् । न्यासः- याव ३ रु ३ । या २̇ योगे जातम् याव ३ या २̇ रु ३ । (१) वि० श०-"यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे" इत्यमरकोशोक्ते- र्माने 'यावत्तावत्' इति भवितुमर्हतीति किन्त्वव्ययपदम्। बीजगणिते च "यावत्तावद्वि- स्त्रिभिः" इत्याद्यसमञ्जसमिव । अत्र विशिष्टटिप्पण्यनेकवर्णसमीकरणे द्रष्टव्येति । (२) वि० श०-स्वबीजे नारायण.- "यावत्तावत्कालकनीलकपीताश्च लोहितो हरितः । श्वेतकचितककपिलरूपाटलद्याः पाण्डुधूम्रशबलाश्च ॥ श्यामलकमेचकधवलरपिशङ्गशारङ्गवभ्रगौराया ॥"