भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 12, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 12

अव्यक्तगुणनभजने । ९ द्वयोर्धनर्णत्वव्यत्यासे— न्यासः—गुण्यः या २̇ रू १ । गुणकः यां ३ रू २̇ । गुणनाज्जातम् याव १५ या ७ रू २̇ । भागहारे(१) करणसूत्रं वृत्तम् । (२)भाज्याच्छेदः शुध्यति प्रच्युतः सन् स्वेषु स्वेषु स्थानकेषु क्रमेण । यैर्यैर्वर्णैः संगुणो यैश्च रूपैर्भागहारे लब्धयस्ताः स्युरत्र ॥ ९ ॥ पूर्वगुणनफलस्य स्वगुणच्छेदस्य भागहारार्थं प्रथमपक्षस्य न्यासः—भाज्यः याव १५ या ७ रू २̇ । भाजकः या ३ रू २ । भजनादाप्तो गुण्यः या ५ रू १̇ । द्वितीयस्य— न्यासः—भाज्यः याव १५ या ७ रू २ । या ३ रू २ । भजनेन लब्धो गुण्यः या ५ रू १ । तृतीयस्य— न्यासः—भाज्यः याव १५ यां ७ रू २ । हरः या ३ं रू २̇ । हरणादाप्तो गुण्यः या ५ रू १̇ । (१) वि०श०—योगवियोगगुणनभजनादिनियमाः समीचीना एव भास्करादीनां प्राची- नगणितविदां किन्तु प्राचीनसमये तादृक् सुगमता नासीद्यथेदानीं लेखनी-लेखनपत्र-प्रस्तर- पट्टिकादिपदार्थसुलभता, तावता बीजगणिते भिन्नगणितादिप्रपञ्चो नास्तीव तथा सनातन- धर्मसहायके ज्योतिषसिद्धान्ते तत्प्रयोजनमपि स्तोकमेवावगम्य भास्करादिभिर्बीजगणित- ज्ञानमेव भारतीयानां हृदि न्यधायि संप्रति गणितविस्तारः पाश्चात्यानां प्रशंसाहों यस्यांशो ग्रन्थान्ते दर्शयिष्यते । (२) अत्रैव यदि भाजके प्रथमं रूपद्वयं ततो यावत्तावत्त्रयं विलिख्य विभ- ज्येोत तदा लब्धिः समीचीना नायात्यतोऽत्रेदं सन्धेयं भाज्ये भाजके च कमप्येकं वर्णं प्रधानीकृत्य तस्य वर्गादिघाता उत्तरोत्तरमुपचयेनापचयेन वा विलेख्यास्तत आचार्यो- क्त्या भजने न कुत्रापि व्यभिचारः । यथा—भाज्यः या ३८ रू २४ याघ १० याव २७ । भाजकः रू ६ या ५ । अत्र यावत्तावतो घाताङ्का एकार्धयित्वा स्थापितास्तथा कृते जातो भाज्यः याघ १० याव २७ या ३८ रू २४ । भाजकः या ५ रू ६ । ततो भास्करोक्त्या लब्धिः याव २ या ३ रू ४ । २

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक) · पृष्ठ 12, कुल 152 में से · BharatKosha