बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 13, कुल 152 में से
संदर्भ में पढ़ें१० बीजगणिते चतुर्थस्य- न्यासः—भाज्यः याव १५ या ७ रू २̇ । हरः या ३̇ रू २ । हृते लब्धो गुण्यः या ५ रू १ । इत्यव्यक्तगुणनभजने । वर्गोदाहरणम् । रूपैः षड्भिर्वर्जितानां चतुर्णामव्यक्तानां ब्रूहि वर्गं सखे मे । न्यासः—या ४ रू ६̇ जातो वर्गः याव १६ या ४८̇ रू ३६ । वर्गमूले करणसूत्रं वृत्तम् । (१)कृतिभ्य आदाय पदानि तेषां द्वयोर्द्वयोश्चाभिहतिं द्विनिघ्नीम् । शेषात् त्यजेद्रूपपदं गृहीत्वा चेत् सन्ति रूपाणि तथैव शेषम् ॥१०॥ (१) अनेन प्रकारेण प्रायो () व्यभिचारो भवति मूलानयने । यथा यावव १ याघ ६ याव २५ या ४८ रू ६४ । अस्य मूलानयने कृतिभ्य आदाय पदानीत्यादिना याव २५ अस्यापि मूलं गृहीत्वा यदि क्रिया क्रियते तदा न वास्तवमूललाभः । अतः प्रथमं वर्गे कस्यापि वर्णस्य वर्गादीन् घातानेकापचितान् संस्थाप्य ततः—“हृत्वा- ऽन्याद्विषमात् कृतिमिति” पाटीरीत्या यदि मूलं गृह्यते तदा न कुत्रापि व्यभिचारः । उक्तोदाहरणे यावत्तावतो घाताङ्कानेकापचितान् संस्थाप्य ततः पाटीरीत्या मूलार्थं न्यासः यावव १ याघ ६ याव २५ या ४८ रू ६४ | याव १ या ३ रू ८ यावव १ याव २ | याघ ६ याघ ६ याव २५ याव ९ याव २ या ६ | याव १६ या ४८ याव १६ या ४८ रू ६४ । रू ६४ । () वि० क०—पूज्यचरणप्रदर्शितोदाहरणे याव २५ इति याव १६ याव ९ अन- योर्योगस्तथा “चेत् सन्ति रूपाणि तथैव” इत्युक्तत्वात् रू ६४ अस्य मूलम् ८ ।