बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 114, कुल 152 में से
संदर्भ में पढ़ें११६ बीजगणिते ज्ये ४९५ । ज्येष्ठं प्रथमपक्षमूलसमं कृत्वाऽऽप्तं यावत्तावन्मानम् ३ वा १२३ । वर्गेणाद्यं केवलेनान्त्यमुत्थाप्य जातौ राशी ७, ६ वा १५१२७, २४६ । अथवा कल्पितद्वितीयराशयोर्योगस्त्रियुतः याव १ या ४ रू ४ । वियोगस्त्रियुतः याव १ । अत्राद्यवर्गः यावव १ याघ ४ याव २ या ४ रू १ । द्वितीयराशिवर्गः याव ४ या ८ रू ४ । अनयोरैक्यं चतुरूनम् यावव १ याघ ४ याव ६ या ४ रू १ । वर्गान्तरं रवियुतं यावव १ याघ ४ याव २ या १२ रू ९ । राशिघातः याघ २ याव ६ या २ रू २̇ । दलम् याघ १ याव ३ या १ रू १̇ । सान्नम् याघ १ याव ३ या ३ रू १ । एभ्यो मूलानि तत्र त्रियुतयोगमूलम् या १ रू २ । त्रियुतवियोगमूलम् या १ । चतुरूनितवर्गैक्यमूलम् याव १ या २ रू १̇ । रवियुतवर्गान्तरमूलम् याव १ या २ रू ३̇ । घनमूलम् या १ रू १ । पदपञ्चकयोगो द्वियुक्तः याव २ या ७ रू ३ । एष वर्ग इति का- लकवर्गेण समीकरणाय न्यासः—याव २ या ७ काव ० रू ३ । याव ० या ० काव १ रू ० । समशोधनात् पक्षशेषौ याव २ या ७, काव १ रू ३̇ । अत्र पक्षाव- ष्टभिः संगुण्याैकोनपञ्चाशद्रूपाणि प्रक्षिप्याद्यपक्षमूलम् या ४ रू ७ । परपक्षस्यास्य काव ८ रू २५ । वर्गप्रकृत्या मूले क ५ ज्ये १५ वा क १४५ ज्ये ४६५ । ज्येष्ठं प्रथमपक्षपदेन समं विधाय लब्धं यावत्ता- वन्मानम् २ वा १२२ । अत्र (१) वर्गेणाद्यव्यक्तवर्गराशिं केवलेनाव्यक्त- (१) वि०पु०—“वर्गेणाद्यव्यक्तवर्गराशिं केवलेनाव्यक्तमुत्थाप्य” जातौ राशी ७, ६ वा १५१२७, २४६, एवं बहुधा । इत्यत्र केनचिद्व्युत्पन्ने परिश्रमोऽवगतोऽतः स्वपुस्तके “तद्यथा” इतः प्रभृति “अपरो राशिः २४६” इत्यन्तं लिखित्वा न्यस्तम् । सर्वमेवमेव ।