बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 16, कुल 152 में से
संदर्भ में पढ़ेंकरणीषड्विधम् १३ लघ्व्या हृतायास्तु पदं महत्याः सैकं निरेकं स्वहतं लघुघ्नम् । योगान्तरे स्तः क्रमशःस्तयोर्वापृथक् स्थितिःस्याद्यदि नास्ति मूलम् ॥ ८ उदाहरणम् । द्विकाष्टमित्योस्त्रिभसंख्ययोश्च योगान्तरे ब्रूहि पृथक् करण्योः । त्रिसप्तमित्योश्च चिरं विचिन्त्य चेत् षड्विधे वेत्सि सखे करण्याः॥ न्यासः—क २ क ८ योगे जातम् क १८ । अन्तरे च क २ । द्वितीयोदाहरणे न्यासः—क ३ क २७ योगे जातम् क ४८ । अन्तरे च क १२ । तृतीयोदाहृतौ न्यासः—क ३ क ७ अनयोर्घाते मूलाभावात् पृथक् स्थितिरेव योगे जातम् क ३ क ७ । अन्तरे च क ३̇ क ७ । इति करणीसंकलनव्यवकलने । गुणनोदाहरणम् । द्वित्र्यष्टसंख्या गुणकः करण्यो गुण्यस्त्रिसंख्या च सपञ्चरूपा । वधं प्रचक्ष्वाशु विपञ्चरूपं (१)गुणेऽथ वा द्व्यर्धमिते करण्यौ ॥ न्यासः—गुणकः क २ क ३ क ८ । गुण्यः क ३ रु ५ । अत्र गुण्ये गुणके वा भाज्ये भाजके वा करणीनां करण्योर्वा यथा संभवं लाघवार्थं(२)योगं कृत्वा गुणनभजने कार्ये । अथ पूर्वोक्तसूत्रस्य यो वर्गस्तस्य मूलमेव √क , √ग अनयोर्युत्यन्तरं भवेदतो- √ग × (√क/ग ± १) ऽस्य वर्गः ग(√क/ग ± १)² अस्य मूलं वा करणी √क , √ग अनयोर्योगोऽन्तरं वा भवतीत्युपपन्नम् । (१) वि० टी०—विपञ्चरूपे विगतानि ऋणगतानि पञ्च रूपाणि यस्यैतादृशं द्व्यर्धमिते त्र्यष्टादशतुल्ये करण्यौ गुणे स्तः, गुण्यस्तु पूर्ववदिति । (२) वि० टी०—गुणनोदाहरणेऽपवर्त्तनान्तरं येन्मूलमाप्येत् तदर्थं परम्परया प्रसिद्धं पद्यम् । "आदौ करण्योपवर्त्यान्त्ये तन्मूलेष्टोरन्तरयोगवर्गौ । इष्टापवर्त्तनहतौ भवेतां क्रमेण विश्लेषयुती करण्योः ॥" अस्योपपत्तिरतिसुगमा ।