बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 18, कुल 152 में से
संदर्भ में पढ़ेंकरणीषड्विधम् १५ अत्रादौ त्रि(१)भिर्गुणयित्वा धनकरण्योः ऋणकरण्योश्च योगं विधाय पश्चात् पञ्चविंशत्या गुणयित्वा शोधिते लब्धम् रू ५ क ३। अत्रापि पूर्ववल्लब्धो गुण्यः रू ५ क ३। (२)अथ वाऽन्यथोच्यते । धनर्णताव्यत्ययमीप्सितायाश्छेदे करण्या असकृद्विधाय । तादृक्छिदा भाज्यहरौ निहन्यादेकैव यावत् करणी हरे स्यात् ॥१४॥ भाज्यास्तया भाज्यगताः करण्यो लब्धाः करण्यो यदि योगजाः स्युः विश्लेषसूत्रेण पृथक् च कार्यास्तथा यथा प्रष्टुरभीप्सिताः स्युः ॥१५॥ तथा च विश्लेषसूत्रं वृत्तम् । वर्गेण योगकरणी विहृता विशुद्ध्येत् खण्डानि तत्कृतिपदस्य यथेप्सितानि । कृत्या तदीयकृतयः खलु पूर्वलब्ध्या क्षुण्णा भवन्ति पृथगेवमिमाः करण्यः ॥ १६ ॥ न्यासः-भाज्यः क ९ क ४५० क ७५ क ५४ । भाजकः क १८ क ३ । (१) वि० श०-उदाहृतभागहरणे “अत्रादौ त्रिभिर्गुणयित्वा”-इत्यादिना लब्धिज्ञाने कृतेऽप्युज्जातेऽपि तादृशान्येोदाहरणे लब्धिज्ञानं दुर्घटमेवातोऽग्रे “धनर्णताव्यत्ययम्”- इत्यादिभागहारविधि सम्यगिति । (२) भाज्यभाजकयोः समेनाङ्केन सगुण्य यदि भजेत् तदा लब्धिरविकृतै- वातो भाजकगतकरणीनामेव। व्यस्तधनर्णरूपा प्रकल्प्य तादृशा भाजकेन भाज्यभा- जकयुग्मं यदि गुण्येते तदा नूतनभाजके योगान्तरघातस्य वर्गान्तरसमत्वेनैका करणा न्यूना भविष्यति पुनस्तथैव कृते प्रायो नूतनोत्पन्नभाजकेऽप्येका करणी न्यूना भविष्य- ति । एवमसकृत्कृतेऽन्ये सम्भवे भाजके भविष्यति ह्येकैव करणीत्युपपन्नम् । वर्गो वर्गेण गुण्यते वर्ग एवातोऽवर्गेण वर्गेण गुण्यते तदाऽवर्गस्तेन यस्या अपि करण्या रूपम् √यावक। एतादृश भवितुमर्हति तेनेयं √यवक। =या√क। =नी√क।+पी
- √क। + ह √क। +... यदि नी + पी + ह +... = या तदा पूर्वकरणीरूपान्तरम् । या√क। =नी √क। + ह √क। +... = √नीवक। + √पिवक। + √हवक। +... अतः उपपन्नं विश्लेषसूत्रम् ।