भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 20, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 20

करणीषड्विधम् १७ क४० ३२ क ६० क ४८ ^ क ० २४ । ॱ अत्रापि करणीनां यथासम्भवं योगं कृत्वा वर्गवर्गमूले कार्ये तद्यथा क १८ क ८ क २ । आसां योगः क ७२ । अस्या वर्गः ˙ क ५१८४ । अस्या मूलम् रू ७२ । इति करणीवर्गः । करणीमूले सूत्रं वृत्तद्वयम् । (१) वर्गे करण्या यदि वा करण्योस्तुल्यानि रूपाण्यथ वा बहूनाम् । विशोधयेद्रूपरतेः पदेन शेषस्य रूपाणि युतोनितानि ॥१७॥ ˙ (१) अ ± √क = ग ± √घ इत्येकं समीकरणं यत्र अ, ग इति संख्याद्वय संभव क, घ, इति संख्या द्वयं चावर्गाङ्करूपं तदोऽत्र अ = ग, क = घ इति भविष्यति, यद्येवं न तर्हि कल्प्यते अ = ग + इ अत ग + इ ± √क = ग ± √घ समशोधनेन इ ± √क = ± √घ वर्गीकरणेन, इ² ± २ इ √क + क = घ समशोधनादिना इ² ~ (घ - क) ------------- = √क • २ इ अनेन मूलं भिन्नं वाऽभिन्नं सम्भवसंख्यासमं जातं परन्तु कमानमवर्गाङ्करूपं पूर्वप्रकल्पितमवर्गस्य मूलं न सावयवं न निरवयवं च भिन्नवर्गे भिन्नत्वान्निरवयवाद्- यद् वर्गाङ्गत्वादत पूर्वकल्पना न तथ्या ततोऽवश्यं अ = ग तेन क = घ, इति सिद्ध्यति । अथ कल्प्यते अ + √क अस्य मूलं √या + √का ततो वर्गेण या + का + √४ याका = अ + √क पूर्वसमीकरणयुक्त्या, या + का = अ, ४ याका = क ततो वर्गेण या² + २ याका + का² = अ² । ४ याका = क शोधनेन या² - २ याका + का² = अ² - क मूलेन, या - का = √अ² - क ततश्चक्रमेण या, का अनयोर्मानं सुगममित्युपपन्नं मूलानयनम् । अवर्गमूलस्य प्रशंसा चेयम् न यो विभिन्नो न यतोऽप्यभिन्नो यथाहमहा तर्हि ददाति तूर्णम् । स पूर्णमास्यां गणितार्णवान्तः प्रविश्य मे ब्रूहि तदीयनाम ॥ मत्कृता युक्तिरियमेव । ३