बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)
Bijaganitam of Bhaskaracharya II with Hindi Commentary
भास्कराचार्य द्वितीय द्वारा
पृष्ठ 56, कुल 152 में से
संदर्भ में पढ़ेंएकवर्णसमीकरणम् । शेषकरण्योरनयोः क ५६४४८, क २०४८ अन्तरं(क) योग इति जातो योगः क ३६१९२। भाजके च क ४६२४ । अनया भाज्ये हृते लब्धं यावत्तावन्मानम् रू २ क ८ । इयमेव लघ्वाबाधा, एतदूना भूरन्याऽबाधा रू १ क २। यावत्ताव- न्मानेन लम्बवर्गानुत्थाप्य स्वाबाधावर्गं स्वभुजवर्गादपास्य वा जातो लम्बवर्ग. रू ३ क ८ । एतस्य मूलसममेव लम्बमानम् रू १ क २ । उदाहरणम् । असमानसमच्छेदान् राशींस्तांश्चतुरो वद । यदैक्यं यद्धनैक्यं वा येषां वर्गैक्यसंमितम् ॥ १७ ॥ अत्र राशयः या १, या २, या ३, या ४ । एषां योग. या १० । वर्गयोगेनानेन याव ३० सम इति पक्षौ यावत्तावताऽपवर्त्य न्यास. । या ३० रू ० । या ० रू १० । समशोधनादिना प्राग्वल्लब्धयावत्तावन्मानेनोत्थापिता राशय १/३, २/३, ३/३ (१), ४/३ । अथ द्वितीयोदाहरणे राशय. या १, या २, या ३, या ४ । एषां घनैक्यम् याघ १०० । एतद्वर्गैक्यमानेन याव ३० सममिति पक्षौ यावद्घ- र्गेणापवर्त्य प्राग्वल्लब्धयावत्तावन्मानेनोत्थापिता जाता राशय. ३/१०, ६/१०, (१) ९/१०, १२/१०, (१) । (क) वि० श०—अत्र “योग करण्योर्महताम्” इत्यादिना द्वयोर्योग = ५८४९६ महती । द्वयोर्घात = ११५६०५५०४, अतो मूलम् = १०७५२ द्विगुणम् = २१५०४ लघु च प्रकॢप्य जातमन्तरम् क ३६१९२ । वा “लब्ध्या हताया” इत्यादिना ५६४४८ / २०४८ हरभाज्याविह गनाडुभिरपवर्तितौ । अत ५६४४८ / २०४८ = ४४१ / १६ अत पदम् = २१ / ४, निरेकम् = १७ / ४ स्वहृतम् = २८९ / १६ । लघुघ्नम् = २८९ × २०४८ / १६ = २८९ × क १२८ = ३६१९२ । (१) वि० श०—एषु नापवर्तनमन्यथोदाहरणीयराशित्वसिद्धिरिति ।