भारतकोश
बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

बीजगणितम् (भास्कराचार्य द्वितीय - प्राचीन भारतीय समीकरण एवं बीजगणित सूत्र सटीक)

Bijaganitam of Bhaskaracharya II with Hindi Commentary

भास्कराचार्य द्वितीय द्वारा

DevanagariHindipublished152 पृष्ठ

पृष्ठ 77, कुल 152 में से

संदर्भ में पढ़ें
पृष्ठ 77

७८ बीजगणिते अथ माणिक्यादीनां मौल्यानि यावत्तावदादीनि प्रकल्प्य तद्गु- णरत्नसंख्यां च कृत्वा रूपाणि च प्रक्षिप्य समशोधनार्थं न्यासः—या ५ का ८ नी ७ रू ९० । या ७ का ९ नी ६ रू ६२ । आद्यं वर्णं शोधयेदित्यादिना जाता यावत्तावदुन्मितिः या = का १̇ नी १ रू २८ २ इयमेकैव, एकत्वादियमेवान्यतोऽद्य कुट्टकः कार्यः । इह भाज्ये वर्णद्वयं वर्त्ततेऽतो नीलकमानमिष्टं रूपं १ कल्पितम् । अनेन नीलक- मुत्थाप्य रूपेषु प्रक्षिप्य जातम् या = का १̇ रू २९ २ अतः कुट्टकविधिना "हरतष्टे धनक्षेपे"—इत्यादिना गुजाती सक्षेपे पी २ रू १ । पी १̇ रू १४ । अत्र शून्येन पीतकमुत्थाप्य जातानि माणिक्यादीनां मौल्यानि १४, १, १ । अथवैकेन १३, ३, १ । द्वाभ्यां वा १२, ५, १ । त्रिभिर्वा ११, ७, १ । एवमिष्टवशादानन्त्यम्(१) । उदाहरणम् । एको ब्रवीति मम देहि शतमिति ॥ २ ॥ अत्र धने या १, का १ । परधनाच्छतमपास्य पूर्वधने शतं प्रक्षि- प्य जातं या १ रू १००, का १ रू १००̇ परधनादाद्यं द्विगुणमिति परधनेन द्विगुणेन समं कृत्वा लब्धा यावत्तावदुन्मितिः या = का २ रू ३००̇ पुनराद्यधनाद्दशस्वपनीतेषु परधने क्षिप्तेषु जातम् या १ रू १०̇ । का १ रू १० । (१) वि०सं०—चतुर्दशमिते पीतकमाने कल्पिते यामाने शून्यमत इष्टवशादान- न्त्यमित्यसमञ्जसमिव । उक्तोदाहरणे या = का १̇ नी रू २८ / २ अत्र भाज्यस्थवर्णयोर्वा का-मानमिष्टं परिकल्प्य यामानमानीयते तदेष्टवशादानन्त्यमिति साधु ।