ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 35, कुल 737 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का पंक्ति-दर-पंक्ति पूर्ण एवं शुद्ध प्रतिलेखन प्रस्तुत है:
( १६ ) लोक प्रथेयमिति कथयित्वा राहुकृतं ग्रहणं भवतीत्यत्र स्मृति वाक्यं वेदवाक्यं च प्रतिपादितम् । युक्त्या राहुकृतं ग्रहणं न भवति । परन्तु स्मृतिषु-पुराणेषु वेदेषु च राहुकृतं ग्रहणं प्रतिपादितमस्त्यतोऽत्र द्वयोर्मतयोः समन्वयः— राहुस्तच्छादयति प्रविशति यच्छुक्लपञ्चदश्यन्ते । भूछाया तमसीन्दोर्वरप्रदानात् कमलयोनेः ॥ चन्द्रोऽम्बुमयोऽधःस्थो यदग्निमयभास्करस्य मासान्ते । छादयति शमिततापो राहुश्छादयति तत् सवितुः ॥ आचार्येण कृतः । सिद्धान्तशिरोमणौ गोलाध्याये भास्कराचार्येण भूभाकृतं चन्द्रग्रहणम् । चन्द्रकृतं सूर्यग्रहणं प्रतिपाद्य स्मृतिपुराणादिमतेन साकं समन्वयार्थ— राहुः कुभामण्डलगः शशाङ्कं शशाङ्कगश्छादयतीव बिम्बम्