ब्राह्मस्फुटसिद्धान्त (ब्रह्मगुप्त - शून्य, कुट्टक, बीजगणित एवं सम्पूर्ण २१ अध्याय सान्वय सटीक)
Brahmasphuta Siddhanta of Brahmagupta with Commentary
आचार्य ब्रह्मगुप्त द्वारा
पृष्ठ 37, कुल 737 में से
संदर्भ में पढ़ें( २१ ) सूर्य सिद्धान्तोक्त यन्त्राणि— तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत् । गोप्यमेतत्प्रकाशोक्तं सर्वगम्यं भवेदिह ॥ कालसंसाधनार्थाय तथा यन्त्राणि साधयेत् । एकाकी योजयेद्बीजं यन्त्रे विस्मयकारिणि ॥ शङ् कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा । गुरूपदेशाद्विज्ञेयं कालज्ञानमतन्द्रितैः ॥ तोययन्त्रकपालाद्यैर्मयूरनरवानरैः । ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसाधयेत् ॥ पारदाराम्बुसूत्राणि शुल्बतैलजलानि च । बीजानि पांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः ॥ ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽमलाम्भसि । षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम् ॥ नरयन्त्रं तथा साधु दिवा च विमले रवौ । छाया संसाधनैः प्रोक्तं कालसाधनमुत्तमम् ॥ मानाध्याये— मानानि सौरचान्द्रार्क्षसावनानि ग्रहानयनमेभिः । मानैः पृथक् चतुर्भिः संव्यवहारोऽत्र लोकस्य ॥ इत्यनेन सौरचान्द्रनाक्षत्रसावनमानानि कथितानि, एभिरेव चतुर्भिर्मा- नैर्लोकिानां व्यवहारा भवन्ति। केन केन मानेन के के पदार्था गृह्यन्ते इति सर्वे प्रतिपादिताः सन्ति, ब्राह्मं, दिव्यं, पित्र्यं, प्राजापत्यं, बार्हस्पत्यं, सौरं, सावनं, चान्द्रं, नाक्षत्रमिति नव मानानि सन्ति, एतेषु नवमानेष मनुष्यलोके मान- चतुष्टयानां (सौर चान्द्रार्क्ष सावनानां) प्राधान्यम्, यतस्तैरेव तेषां व्यवहारा दृश्यन्ते । सूर्यसिद्धान्त-सिद्धान्तशेखर-सिद्धान्तशिरोमण्यादिषु सर्वेषु ग्रन्थेषु- मानानां सम्बन्धे समानरूपेणैव सर्वं प्रतिपादितमस्ति । ब्राह्मस्फुटसिद्धान्तेऽ- त्राध्याये भूभादैर्घ्यं भूभामानञ्चापि प्रतिपादितमस्ति । संज्ञाध्याये—संज्ञाकथनकारणम् । सिद्धान्त एक एवास्ति, कस्मिन्नंशे सूर्यसिद्धान्तादयो भिन्नाः सन्तीति प्रतिपाद्य स्वसिद्धान्तोत्तरार्धेऽनुक्रमणिकाः कथिता आचार्येण, नान्येषु-सूर्यसिद्धान्त-सिद्धान्तशेखरादिसिद्धान्तग्रन्थेषु संज्ञा- ध्यायः । अध्यायोपसंहारात्पूर्वमेकः प्रश्न विशेषः—