बृहन्नारदीय पुराण (संस्कृत मूल व हिन्दी व्याख्या)
Brihan Naradiya Purana with Sanskrit & Hindi Commentary
महर्षि व्यास द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 644, कुल 1008 में से
संदर्भ में पढ़ेंएकसप्ततितमोऽध्यायः ६२५ विद्यावृत्तस्त्रयंस्त्रिंशद्देवताकोटिशब्दतः । नमितांते पद्मपदार्चत्पंकजन्वित ईरयेत् ॥१८१॥ सहस्रवदनांते तु सहस्रोदर संवदेत् । सहस्रेक्षणशब्दांते सहस्रपादमीदयेत् ॥१८२॥ सहस्रभुज संप्रोच्य सहस्रजिह्व संवदेत् । सहस्रांते ललाटेति सहस्रायुधतो धरात् ॥१८३॥ तमः प्रकाशक पुरमथनान्ते तु सर्वं च । मन्त्रराजेश्वरपदाद्विहायसगतिप्रद ॥१८४॥ पातालगतिप्रदांते यन्त्रमर्द्दन ईरयेत् । घोराट्टहासहसितविश्वावासपदं ततः ॥१८५॥ वासुदेव ततोऽक्रूर ततो ह्ययमुखेति च । परमहंस विश्वेश विश्वांते तु विडंबन ॥१८६॥ निविष्टांते ततः प्रादुर्भावकारक ईरयेत् । हृषीकेश च स्वच्छंद निःशेषजीव विन्यसेत् ॥१८७॥ ग्रासकांते महा पश्चात्पिशितासृगितीरयेत् । लंपटांते खेचरीति सिद्धद्यंते तु प्रदायक ॥१८८॥ अजेयाव्यय अव्यक्त ब्रह्माण्डोदर इत्यपि । ततो ब्रह्मसहस्रांते कोटि लप्तुंडशब्दतः ॥१८९॥ माल पंडितमुण्डेति मत्स्य कूर्म ततः परम् । वराहांते नृसिंहेति वामनांते समोरयेत् ॥१९०॥ त्रैलोक्याक्रमणान्ते तु पादशालिक ईरयेत् । रामत्रय ततो विष्णुरूपान्ते धर एव च ॥१९१॥ तत्त्वत्रया॑ते प्रणवाधारतस्तच्छिखां पदम् । निविष्टवह्निजायांते स्वधा चैव ततो वषट् ॥१९२॥ नेत्र वर्मास्त्रमुच्चार्यं प्राणाधार इतीरयेत् । आदिदेवपदात्प्राणापानपश्चान्निनिविष्टतः ॥१९३॥ पांचरात्रिक दितिज विनिधनांते करेति च । महामाया अमोघांते दर्प दैत्येंद्रशब्दतः ॥१९४॥ दर्पांते दलनेत्युक्ता तेजोरशिन् ध्रुवं स्मरः । तेजस्वरांते पुरुषषंडंते सत्यपुरुष ॥१९५॥ अस्त्रतारोऽच्युतास्त्रं च तारो वाचा सुदेव फट् । तारमायामूर्तेः फट् वः कामः स्वरादिमः ॥१९६॥ मूर्तेस्त्रमव्ययोबीजं विश्वमूर्तेस्त्रिमव्ययः । मायाविश्वात्मनेषट् च तारः सौंचं तुरात्मने ॥१९७॥ फट् तारोहं विश्वरूपिन्नस्त्रं च तदनंतरम् । तारौह्लैंपरमांते तु ह्रंसफट्प्रणवस्ततः ॥१९८॥ ह्रः हिरण्यगर्भरूपधारिणांते च फट् ध्रुवः । ह्लाँ अनौपम्यरूपधारिणस्त्रं ध्रुवस्ततः ॥१९९॥ क्षौं नृसिंहरूपधारिन् ओं क्लं श्लश्च स्वरादिकः । षटांगविन्यासं विन्यस्तमूर्तिधारिंस्ततश्च फट् ॥२००॥ ह्रौ निसर्गसिद्धचै करूपधारिस्ततश्च फट् । तारो वर्मत्रयं संकरं च चामुंकमस्तकम् २०१॥ खंडद्वयं खादयेति द्वयं क्लीं साध्यमानय । द्वयं ततो महात्मन्सान्त्साम्यग्दर्शययुग्मकम् ॥२०२॥ षड्दीर्घांडयां स्वबीजं च क्षपितांते तु कल्मष । उत्तरायं द्वयं पंचबाणबीजानि वोच्चरेत् ॥२०३॥ नृसिंहांते ततो ज्वालात्मने स्वाहा समीरयेत् । नृसिंहान्ते ततः कालात्मने स्वाहा ध्रु वस्ततः ॥२०४॥ खबीजं कामबीजं च लक्ष्मीबीजद्वयं ततः । मायातारंतिमो मन्त्रः सहस्राक्षरसंमितः ॥२०५॥ कपिलोऽस्य मुनिश्च्छन्दो जगती देवता पुनः । श्रीलक्ष्मीन् हरिबीजं क्षौं शक्तिर्वह्निवल्लभा ॥२०६॥ श्वेतो वर्ण उदात्तश्च स्वरः प्रोक्तो मनीषिभिः । क्षेत्रं च परमात्मा तु विनियोगोऽखिलाप्तये ॥२०७॥ क्षः सहस्रबाहवेते सहस्रायुधधराय च । नृसिंहांतं वह्निजायास्त्रवफट् मन्त्र ईरितः ॥२०८॥ अनेन करशुद्धिं च कृत्वांगानि समाचरेत् । तारः क्षां च सहस्रांते क्षरशब्दाद्विजृंभितम् ॥२०९॥ नृसिंहायाग्निजायांते हृदये मनुरीरितः । मारः क्षीं च महातेनुं प्रभांते विकरेति च ॥२१०॥
आभूषणों वाले, अत्यन्त तीक्ष्ण नखों से दैत्यों का विदारण करने वाले नृहरि का ध्यान कर एक हजार मंत्र का जप करे और उसका दशांश घृतमिश्रित खीर से हवन करे । ऐसा करने से मंत्र सिद्ध हो जाता है । पूर्वकथित वैष्णव पीठ पर मूल मंत्र से मूर्ति का संकल्प कर अंगों का पूजन करे । पश्चात् नृहरि की पूजा कर दिशाओं के
७९ ना० पु०